साधनपादः · २.५

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥

विवरणम्

 यस्मात्ते पुनरभिव्यक्ताः पुनश्च तिरोहिताः पुनरप्यभिव्यञ्जिष्यन्ते च, तस्मात्प्रसुप्ताद्यवस्था अपि प्रतिपक्षविधानाय वक्तव्या एव, क्लेशत्वानतिक्रान्तत्वात् ॥

 इदानीमुपसंहरति—सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात् ? यस्मात् सर्वेषु अस्मितादिषु अविद्यैवाभिप्लवते प्रतरति, उद्भूता दृश्यते ॥

 किञ्च—यदविद्यया वस्त्वाकार्यते प्रकल्प्यते तदनुशेरते तद्विषया उपजायन्ते क्लेशाः रागादयः । यथा स्त्र्यादिपिण्डे हेयेऽपि भोग्योऽयमित्यविद्यया परिकल्प्यात्माभिमानं कृत्वा रज्यते । धर्मज्ञाने विपरीतं परिकल्प्य द्वेष्टि ॥

 कथं पुनस्तदेवानुशेरते इति—यस्मात् विपर्यासप्रत्ययकाल एवोपलभ्यन्ते । इतश्चाविद्याभेदाः, यस्मात्क्षीयमाणामविद्यामनु क्षीयन्त इति । अविद्याप्रणाशानुप्रणाशिनो हि क्लेशा अस्मितादयः । न ह्यसत्यामविद्यायां कश्चिदपि क्लेशः सम्भवति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते । किं पुनरविद्यास्वरूपाख्याने प्रयोजनं ? तत्स्वयमेव भाष्यकृदाख्यास्यते ‘अविद्या मूलमस्य क्लेशसन्तानस्य’ इत्यादिना । अज्ञाते च क्लेशसन्तानमूलस्वरूपे तन्मूलोन्मूलनं न शक्यं कर्तुमिति तत्स्वरूपमाख्यायते ॥
व्यासभाष्यम्

 अनित्ये कार्ये नित्यख्यातिः । तद्यथा—ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकसः, इति ।

तथा अशुचौ परमबीभत्से काये—
"स्थानाद्बीजादुपष्टम्भान्निष्यन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥"
इत्यशुचौ शुचिख्यातिर्दृश्यते ।
विवरणम्

 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । कथम् ? अनित्ये कार्ये नित्यख्यातिः नित्यमिति विपर्ययबुद्धिः यथ ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति ॥

 ननु चैतस्मान्मन्त्रात्पृथिव्यादीनां ध्रुवत्वं प्रतीयते । तत्र कथमेषां कार्यत्वमुच्यते ? आपेक्षिकत्वाददोषः । मनुष्याद्यपेक्षया पृथिव्यादयो ध्रुवाः । कार्यत्वमनित्यत्वं च सर्वप्रमाणसिद्धं श्रुतिषु वचनात् 'द्यौरासीन्न पृथिवी नान्तरिक्ष'मित्यादिषु सिद्धम् ।

 तथा अशुचौ परमबीभत्से परमोद्वेगकरेऽत्यन्तघृणास्पदे कारात्मसद्मनीवाशुचौ काये । कथम(पि)स्य बीभत्सकत्वमित्याह—स्थानादशुचिः—गर्भाशयस्थानत्वादशुचिः । बीजादशुचिः—शुक्लशोणितबीजो हि कायः । उपष्टम्भात्—वातपित्तश्लेष्मोपष्टम्भात् । तेषां चाशुचित्वं प्रसिद्धम् । निष्यन्दात्—प्रस्वेदमूत्रपुरीषादिमलाजस्रनिष्यन्दात् । निधनादपि—मरणात् । मृतसंबन्धिनां दशाहाद्याशौचस्मरणम् ॥

 ननु च स्वभावतो यद्यशुचिः कायस्तस्य शौचविधानमनर्थकं प्राप्नोतीत्यत आह—कायमाधेयशौचत्वादिति । शास्त्रत आधातव्यमेव शौचमस्मिन्न स्वतोऽस्तीति यावत् ॥

 यद्वा, करणानि बुद्धिसत्त्वादीनि सत्त्वात्मकतया शुचीन्याधेयान्यस्मिन्निति, तच्छुचित्वादस्यापि शौचम् । बुद्धिसत्त्वाद्याधेयविप्रयोगे चात्यन्ताशुचित्वदर्शनात् ॥

 तस्मात्पण्डिता ह्यशुचिं विदुः । पण्डितग्रहणं विपर्यस्तधियां शुचित्वग्रहणख्यापनार्थम् । अशुचौ शुचिख्यातिर्दृश्यते विपरीतचेतसाम् ॥
व्यासभाष्यम्

 नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव, चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति, कस्य केनाभिसम्बन्धः । भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति ।

 एतेन अपुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः ।

 तथा दुःखे सुखख्यातिं वक्ष्यति—“परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” इति । तत्र सुखख्यातिरविद्या ।

 तथा अनात्मन्यात्मख्यातिः—बाह्योपकरणेषु चेतनाचेतनेषु, भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनसि, अनात्मनि आत्मख्यातिः, इति ।

विवरणम्

 नवेव शशाङ्कलेखा कमनीयेयं कन्या अमृतावयवनिर्मितेव चन्द्रं भित्त्वेव निस्सृता ज्ञायते नीलोत्पलपत्राक्षी भावगर्भाभ्यां लोचनाभ्यां जीवलोकं समाश्वासयन्तीति कस्य केनाभिसंबन्धो भवतीति । क्व शरीरादियाथात्म्यं, क्व भवत्येवमशुचौ (क्वचिद्वि) शुचिविपर्यास इति ॥

 एतेनापुण्ये पुण्यप्रत्ययः, यथा संसारमोचकानां, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः, यथा तस्कराणाम् ॥

 तथा दुःखे सुखख्यातिं वक्ष्यति ‘परिणाम तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः’ इति । तत्र सर्वस्मिन् संसारे दुःखे सुखख्यातिरविद्या ॥

 तथा अनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु गवादिघटादिषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति ॥

 अत्रोच्यते—कस्य पुनर्मनस्यनात्मन्यात्मख्यातिरिति ? ननु मनस एव ख्यातिः, किं चोद्यते—यावता अविद्या विपर्ययश्चित्तवृत्तिरिति ह्युक्तम् । चित्तमेव प्राप्तचैतन्योपग्रहणरूपत्वादात्मानं चेतनमभिमन्यते ‘अहं द्रष्टृ श्रोतृ वा अहमिदं ममे’ति चाविशेषेण ॥
व्यासभाष्यम्

 तथैतदत्रोक्तम्—“व्यक्तमव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानः, तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः, स सर्वोऽप्रतिबुद्धः” इति ।

 एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति ।

 तस्याश्च अमित्रागोष्पदवत् वस्तुसतत्त्वं विज्ञेयम् ।

विवरणम्

 तथैतदत्र एतस्मिन्नर्थे उक्तं व्यक्तमव्यक्तं वा प्रधानादिकं शरीरेन्द्रियादि विषयविशेषपर्यन्तं किंचित् व्यक्तं आनुभाविकं, किंचिदानुमानिकमागमिकं अव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीतः प्रतिपन्नः तस्य सम्पदमनु नन्दति तस्य व्यक्ताव्यक्तात्मकस्यात्मत्वेनावगतस्य सम्पदं समृद्धिं विभूतिमनु नन्दति अनु हृष्यति, आत्मसम्पदं मन्वानः 'सम्पन्नोऽहमनया सम्पदा, ममैषा सम्पदि'ति मन्यमानः । तस्य व्यापदं तस्य क्षयं अनु शोचति 'ममैषा व्यापदहमेव व्यापन्न' इति । स सर्व एवाभिमानी अप्रतिबुद्धः अज्ञ इति ॥

 एषा चतुष्पदी भवत्यविद्या । ननु चापुण्ये पुण्यख्यातिः पुण्ये अपुण्यख्यातिः इत्याभ्यां सह षट्पदीत्वम्—न—चतुर्ष्वेव पादेषु यथासंभवमन्तर्भावात् । अविद्या मूलं प्रभवबीजम् अस्य क्लेशसन्तानस्य अभिनिवेशान्तक्लेशानामनवरतप्रवर्तनस्य । किं च—कर्माशयस्य च त्रिविधस्य जात्यायुर्भोगलक्षणविपाकत्रयसहितस्य सकलस्य संसारस्येत्यर्थः ॥

 तस्याश्च अविद्यायाः अमित्रागोष्पदवद्वस्तुसतत्त्वं वस्त्वन्तरत्वं विज्ञेयम् । किमर्थमिदमुच्यते । यावता विपरीतख्यातिरिति वस्तुसतत्त्वमुक्तमेव ॥

 अयमभिप्रायः--अविद्या इति नञ्समासोऽयं तत्पुरुषः, स चोत्तरपदार्थप्रधानो वा स्यात्, यथा राजपुरुष इति । यद्वा, पूर्वपदार्थप्रधानः, अर्धपिप्पलीति ॥

 तत्र यदि पूर्वपदार्थप्रधानस्तदानीं विद्यायाः प्रमाणस्याभाव (वादि) इति, यत्रैव विद्याप्रसङ्गो वृत्तिसामान्यात्तत्रैव (स्मृत्य)वृत्त्यन्तरादौ प्रतीतिरिति, अनिर्धारित
व्यासभाष्यम्

 यथा नामित्रो मित्राभावः, न मित्रमात्रं, किंतु तद्विरुद्धः सपत्नः । यथा वा अगोष्पदं न गोष्पदाभावः, न गोष्पदमात्रं, किंतु देश एव

विवरणम्

विशेषतत्त्वोऽर्थः प्रज्ञायेत । या तु विपरीतख्यातिः पूर्वोक्ता अविद्येति सा पारिभाषिकी स्यात् ॥

 ततः को दोषः स्यात् ? अविद्याशब्दश्रवणे सन्देहः स्यात् । किं प्रसिद्ध एव शब्दार्थः परिभाषितः शास्त्रसंव्यवहारार्थं, यथा लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं इति । अथाशब्दार्थ एव, यथा 'इको गुणवृद्धी' इति । ततश्चानिश्चिते पदार्थे नाविद्याशब्देन व्यवहारः क्रियेत ॥

 अथोत्तरपदार्थप्राधान्यं समानाधिकरणत्वान्नीलोत्पलवत्, तत्रापि नीलोत्पलशब्दार्थयोरविरोधद्विशेष्यविशेषणभावेन संबन्धो युक्तः ॥

 इह नञा निवृत्तिरुच्यते । विद्याशब्देनापि विद्या । तत्र यद्युत्तरपदस्यार्थं प्रधानं प्रति गुणभूतो नञ् तस्यैवोत्तरपदार्थस्याभावं कुर्यात्, तदा तद्गुणत्वमेव ह्रीयेत । नापीतरस्य प्राधान्यम् ॥

 यो हि कञ्चिन्निर्वर्तयितुं अनुप्रस्थितो निर्वर्त्यमेव व्यापादयेत्, न तस्य निर्वर्त्य प्रति गुणत्वम् । नापि निर्वर्त्यस्य प्रधानता, तद्वत् । तस्मात् प्रधानवशवर्तिना गुणेन भवितव्यमिति विद्यायामन्यस्याभाव एवेति केवलो नञ् नित्यानुवादीति विद्यामात्रं प्रतीयेत ॥

 तदेतदेवं कृत्वोच्यते । ‘तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्’ इति । यथा अमित्रो न मित्राभावः यथा पूर्वपदार्थप्राधान्ये अर्धपिप्पलीति । न मित्रमात्रम् । यथोक्तं उत्तरपदार्थप्राधान्ये प्रधानवशवर्तिना गुणेन भवितव्यं, न प्रधानविनाशेनेति । तथा चोक्तम्—“अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोती”ति नञ्वार्तिके । उत्तरपदार्थप्राधान्यपक्षे नञो नित्यानुवादत्वात् । एवममित्र इति । एवमविद्यादि ॥

 यथा वा अगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं, किन्तु देश एव ताभ्यां गोष्पदाभावगोष्पदमात्राभ्याम् अन्यद्वस्त्वन्तरम् । [कथमेवम् ?]

व्यासभाष्यम्

ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं, न प्रमाणाभावः, किंतु विद्याविपरीतं ज्ञानान्तरमविद्या इति ॥ ५ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →