समाधिपादः · १.५१

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिरिति ॥ ५१ ॥

इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे

प्रथमः समाधिपादः ॥

विवरणम्

 अत्राह—समाधिप्रज्ञाभवः संस्काराशयश्चित्तस्याधिकारप्रवृत्तिहेतुः, प्रत्ययप्रभवत्वात्, व्युत्थानप्रभवसंस्काराशयवदिति, तथा चित्तसंस्कारत्वाच्चेति । तदेतद्दर्शयति—कथमसौ संस्काराशयः चित्तं साधिकारं संस्कारोपेतं न करिष्यतीति ? ॥

 नैष दोषः—तद्विरोधित्वात् । कथं ? ते संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं न कुर्वन्ति । व्युत्थानप्रत्ययप्रभवानां हि संस्काराणामविद्यादिक्लेशहेतुत्वाच्चित्तसंस्काराभिमुखभावकारणता । तद्विरोधिप्रत्ययप्रभवत्वात्तु न समाधिजप्रत्ययजन्मनां संस्काराणामधिकाराभिमुख्यनिमित्तता ॥

 किञ्च—चित्तञ्च ते स्वकार्यात् संस्काराभिमुखवृत्तिभ्योऽवसादयन्ति विरमयन्ति । ख्यातिपर्यवसानं हि चित्तविचेष्टितम् । पुरुषख्यातिश्च जाता संस्कारश्च भवतीति विरुद्धम् ॥

 यो हि विगततृष्णासमुदायो, नासौ पानीयं पिपासति । एतावदेव चित्तेन पुरुषस्य करणीयम् । न हि कश्चित् कृतं करणीयं चिकीर्षति ॥ ५० ॥

११८
पातञ्जलयोगसूत्रभाष्यविवरणे

व्यासभाष्यम्

 स न केवलं समाधिप्रज्ञाविरोधी, प्रज्ञकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति ।

निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् ।

विवरणम्

 किञ्च—तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिरिति । इति शब्दः परिसमाप्त्यर्थः । तस्यापि समाधिप्रज्ञाप्रभवस्य संस्कारस्याभिनवस्य निरोधे अपिशब्दात्संस्कारकारणस्य समाधिप्रज्ञाया अपि निरोधे, सर्वनिरोधो भवति । उक्तमेवोपायद्वयं परवैराग्यविरामप्रत्ययाभ्यासाख्यं तन्निरोधस्य ॥

 किं पुनस्तत्सर्वं ? यन्निरोत्स्यते । व्युत्थानसमाधिप्रज्ञातत्संस्काराः । तस्मात् सर्वनिरोधान्निर्बीजः समाधिः ॥

 स न केवलं ऋतम्भरप्रज्ञाजनितसंस्कारः समाधिप्रज्ञानिरोधी, यथैव तां समाधिप्रज्ञामृतम्भरां निरुणद्धि, तथैवात्मना सहात्मसजातीयानां स्वकारणप्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी निरोधाद्भवति ॥

 कस्मात् ? निरोधजः संस्कारः यस्मात्समाधिप्रज्ञायास्तज्जन्मनश्च संस्कारस्य निरोधे, निरोधकः समाधिप्रज्ञाजनितसंस्कारादन्यो जायते, स चापि यतः समाधिप्रज्ञां तज्जनितसंस्कारांश्चातिरस्कृत्य न जन्म प्रतिपद्यते, तस्मात्स निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति ॥

 कथं पुनरसौ निरोधजः संस्कारोऽस्तीति गम्यते ? विद्यमानेऽपि स बाधको भवतीति ? आह—निरोधस्थितिकालक्रमानुभवेनेति । निरोधस्य स्थितिस्तस्याः कालः स च कालः क्रमेणानुभूयते, यतः प्रत्यभ्यासमभिवर्धते, तस्मात्तेन निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतं निरोधावस्थचित्तकृतं संस्कारास्तित्वमनुमेयम् ॥

११९
समाधिपादः प्रथमः


व्यासभाष्यम्

व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैः चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्माद्वसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते । तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥

इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

प्रथमः समाधिपादः ॥

विवरणम्

 व्युत्थाननिरोधसमाधिप्रभवैः व्युत्थानसमाधिप्रभवैः निरोधसमाधिप्रभवैश्च सह कैवल्यभागीयैः संस्कारैश्चित्तं अवसिताधिकारत्वात् स्वस्यां प्रकृतौ स्वकारणेऽस्मितायामहङ्कारे प्रविलीयते प्रत्यस्तमेति । तस्मात्ते ख्यातिनिरोधजन्मानः संस्कारा यस्मात् चित्तस्याधिकारविरोधिनः न स्थितिहेतवो भवन्तीति ॥

 यस्मादवसिताधिकारं सह केवल्यभागीयैः संस्कारैश्चित्तं यं पुरुषं प्रति चरितप्रयोजनं तस्मात् निवर्तते । तस्मिन्विनिवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठः केवलो मुक्त इत्युच्यते, चित्तवृत्तिनिवृत्तिरेव मुक्तिः इति ॥ ५१ ॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ प्रथमः समाधिपादः ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →