विभूतिपादः · ३.३१

कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥

विवरणम्

 एवमन्येषु चोर्ध्व विमानेषु संयमं कृत्वा तानि विमानानीत्थंप्रकाराण्येवंगतानीत्येवमादि सर्वं विजानीयात् ॥ २८ ॥

 नाभिचक्रे कायव्यूहज्ञानम् । नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः एतावत्प्रमाणा एतत्प्रतिष्ठा इत्यादि ज्ञेयम् ॥

 तथा धातवः सप्त बाह्याभ्यन्तरभावेनावस्थिताः । (रसः)त्वक् बाह्या सर्वेषाम् । ततोऽभ्यन्तरं लोहितं, ततो मांसं, ततोऽस्थि, ततो मेदः, ततो मज्जा, ततः शुक्रं सर्वाभ्यन्तरमित्येवं पूर्वं पूर्वमेषां बाह्यम् इत्येष विन्यासः । तथा नाडीनां च व्यूहं विजानीयात् ॥ २९ ॥

 कण्ठकूपे क्षुत्पिपासानिवृत्तिः । जिह्वाया अधस्तात्तन्तुः उन्नामिकायां जिह्वायां दृश्यते । तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न प्रतिबाधेते ॥ ३० ॥

व्यासभाष्यम्

कूपस्याधस्तात् उरसि कूर्मा नाम नाडी, तस्यां कृतसंयमः स्थिरपदं लभते । यथा सर्पो गोधा वेति ॥ ३१ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →