विभूतिपादः · ३.४५

ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ४५ ॥

व्यासभाष्यम्

  तत्राणिमा—भवत्यणुः । लघिमा—लघुर्भवति । महिमा—महान्भवति ।

विवरणम्

 अथैषां पञ्चमं रूपमर्थवत्त्वम् । अस्य व्याख्यानं भोगापवर्गार्थता । सा च गुणेष्वन्वयिनी । तत्र या गुणेष्वनुवृत्ता भोगापवर्गार्थता तदिदं भूतानां पञ्चमं रूपं संयमस्यार्थवत्त्वाख्यो विषयः ॥

 गुणास्तन्मात्रेषु भूतेषु भूतविकारेषु चान्वयिनः । एवं तन्मात्रं सूक्ष्मरूपं भूतभूतविकारेष्वनुगतम् । भूतस्वरूपं च स्थूलेषु भूतविकारेष्वनुगतमिति सर्वमर्थवत् । गुणानां भोगापवर्गार्थवत्त्वात् तेषां च सर्वान्वयित्वात् तदर्थवत्त्वेन सर्वं भूतविकारादिकम् अर्थवत् ॥

 तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु स्थूलादिपञ्चरूपेषु यथाक्रमं संयमात् पूर्वं स्थूलेन संयमं कृत्वा तज्जयसाक्षात्करणानन्तरं स्वरूपसंयमं कुर्वीत । पुनः सूक्ष्मे, पुनश्चान्वये, पुनश्चार्थवत्त्वे इत्येवं यथाक्रमं संयमात्तस्य तस्य स्थूलादिकस्य दर्शनं जयश्च यथावत् प्रादुर्भवति । तत्र भूतस्वरूपाणि जित्वा योगी भूतजयी भवति । तज्जयात् वत्सानुसारिण्य इव गावः (यथा प्रकृतिभूता गावः) अस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥

 (स्व)संयमफलमिदानीमाह—ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च । तत्राणिमा को भवति इत्याह—अणुः इति । सूक्ष्मादपि सूक्ष्मतरो भवतीच्छातः । तेनाणिम्ना सर्वमनुप्रविशति वज्रमपि । तथा सर्वस्यादृश्यो भवति ॥

 लघिमा—लघुः लघुभ्यः तूलादिभ्योऽपि लघुतरः भवति । तेन निरालम्बनः सर्वतो गन्तुं पर्याप्नोति । महिमा—महान् भवति । आकाशमपि
व्यासभाष्यम्
प्राप्तिः—अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यम्—इच्छानभिघातः । 

भूमावुन्मज्जति निमज्जति यथोदके । वशित्वम्—भूतभौतिकवशी भवत्यवश्यश्चान्येषाम् । ईशित्वम्—तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्रकामावसायित्वम्—सत्यसंकल्पता, यथा संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपि पदार्थविपर्यासं करोति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य तथा तेषु संकल्पादिति । एतान्यष्टावैश्वर्याणि ॥

 कायसंपद्वक्ष्यमाणा । तद्धर्मानभिघातश्च—पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी

विवरणम्
व्याप्नोति । प्राप्तिः—इहस्थ एव अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यं—प्रचुरकामो यथेष्टकामो भवति इच्छानभिघातः । भूमावुन्मज्जति निमज्जति च यथाकामत्वात् यथोदके ॥

 वशित्वम्—सर्वलोकवशित्वम् । अस्य व्याख्यानं भूतभौतिकवशी भवति अवश्यश्चान्येषाम् । ईशित्वम्—तेषां भूतानां प्रभवव्यूहाप्ययानाम् उत्पत्तिस्थितिप्रलयानाम् ईष्टे । यत्रकामावसायित्वम्—यस्मिन् कामस्तत्रैव तदवसानं तदन्तं गच्छति । सत्यसंकल्पाद्धेतोः यथा संकल्पः तथा भूतप्रकृतीनामवस्थानं भवति ॥

 शक्तोऽपि स योगी न पदार्थविपर्यासं करोति । नाग्निं शीतीकरोति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य परमेश्वरस्य तथा तेषु पदार्थेषु विपर्यासेन संकल्पात् । न हि पदार्थविपर्यासं चिकीर्षमाणस्य पूर्वसिद्धं प्रति विना द्वेषेण तद्विपर्यासो भवति । तदशुद्ध्यभावादेव न पदार्थविपर्यासं करोति । कल्याणतराचरणो हि स इति । एतान्यष्टौ अणिमाद्यैश्वर्याणि भूतजयाद्भवन्ति ॥

 कायसम्पद्वक्ष्यमाणा । तद्धर्मानभिघातः तेषां भूतानां धर्मैः न योगिनोऽभिघातो भवति । पृथिवी स्वेन धर्मेण मूर्त्या न विरुणद्धि योगिनः शरीरादिक्रियाम् । कथम् ? शिलामप्यनुप्रविशति । नापः स्निग्धा योगिनं क्लेदयन्ति वर्षसहस्रमप्युदके तिष्ठन्तम् । नाग्निरुष्णो दहति । न वायुः प्रणामी

व्यासभाष्यम्
वहति । अनावरणात्मकेऽप्याकाशे भवत्यावृतः सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →