साधनपादः · २.२७

 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥

व्यासभाष्यम्

 तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेति, अशुद्ध्यावरणमलापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति ॥  तद्यथा—परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति ।

विवरणम्

सा विवेकख्यातिः इत्थंभूता सती अविप्लवा भवति । यदैवमविप्लवा विवेकख्यातिः ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमो विरुद्धत्वात् । पुनश्चाप्रसवः मिथ्याज्ञानस्य दग्धबीजभावोपगमादेव । तथा चोक्तम्—  “बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ।

 सा च तादृशी विवेकख्यातिर्मोक्षस्य मार्गो हानस्योपाय इत्यर्थः ॥ २६ ॥

 उत्पन्नसम्यग्दर्शनस्य सम्यग्दर्शनोत्पत्तौ स्वानुभवप्रत्ययलिङ्गप्रकटीकरणार्थमाह—तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । तस्येति प्रत्युदितख्यातेः प्रत्युत्पन्नसम्यग्दर्शनस्य प्रत्याम्नायः प्रत्यवमर्शः । सप्तधेति अशुद्ध्यावरणमलापगमात् । अशुद्धिरेवावरणं क्लेशाः कर्माणि च, तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ममाहमिति च विरुद्धप्रत्ययान्तराणामनुत्पत्तौ । सप्तधेत्यस्य विवरणे सप्तप्रकारैव प्रज्ञा बुद्धिः विवेकिनो भवति ॥

 तान् सप्त प्रकारान् क्रमेणाचष्टे—यथा परिज्ञातं हेयं सर्वं दुःखं हेयं ज्ञातमुपपत्तिभिः । नास्य परिज्ञातव्यो दुःखप्रकारः ॥

क्षीणा हेयहेतव इति बहुवचनप्रयोगात् क्लेशाः कर्माणि च

अभिधीयन्ते । न पुनरेषां क्लेशकर्मणामल्पमपि सम्यग्दर्शनपावकादग्धबीजा

[ भाष्यम् ]

 साक्षात्कृतं निरोधसमाधिना हानम् । भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कार्यविमुक्तिः प्रज्ञायाः ॥

 चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रतिप्रलीनानां पुनरस्त्युत्पादः प्रयोजनाभावात् इति । एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिः पुरुषः केवली शुद्ध इति ॥

[ विवरणम् ]

 भावात् क्षे(दुत्प्रेक्षि)तव्यमस्ति । एतेनापि प्रान्तभूमित्वमेवोक्तम् । इत्थं च प्रत्युपस्थितसमीचीनप्रत्ययस्य क्षीणक्लेशत्वात् न क्षेतव्यमस्ति । कृतकरणीयोऽहमिति च सम्यग्दर्शनपरिपाकलिङ्गप्रत्यय उपावर्तते । यथा रोगातुरस्य रोगहेतुक्षये नीरोगोऽहं न पुनर्भैषज्यमस्तीति प्रत्ययः । एवमेव[ष] द्वितीयः प्रज्ञाप्रकार उक्तः ॥

साक्षात्कृतं निरोधसमापत्तिर्हानम् । हानप्रत्यासन्नत्वात् हानतुल्यरूपत्वाञ्च निरोधसमाधिरेव हानमित्याख्यायते । तच्च साक्षात्कृतम् अनुभवविषयतामानीतम्। तदिदं कैवल्ये पर्यवसितम् कैवल्यं कर्तव्यमिति च प्रज्ञायते । एषोऽपि प्रान्तभूमिप्रज्ञाप्रकारः तृतीय आख्यातः ॥

भावितः सम्यगभ्यस्ततरः विवेकख्यातिरूपो हानोपायः । सम्यग्दर्शनं यथावदुपस्थितमिति निश्चिता चेत्प्रज्ञा विवेकिनो जायते स एष चतुर्थः प्रज्ञा प्रकारः । इत्येषा चतुष्टयी कार्यविमुक्तिः कार्यात् कर्तव्यात् विमुक्तिर्यस्याः प्रज्ञायाः सा कार्यविमुक्तिः चतूरूपा प्रज्ञा पुरुषार्थकर्तव्यतेत्यर्थः ॥

 अथ वा—कार्यस्य विमुक्तिः निवृत्तिः कार्यविमुक्तिः । सा च चतुष्टयी कार्यविमुक्तिरिति समाप्तं वाक्यम् । प्रज्ञा इति परेण संबध्यते । कथम्? प्रज्ञा(प्र) युक्तम्, विवेकख्यातियुक्तं चित्तं प्रज्ञाचित्तं तस्य विमुक्तिः प्रलयः प्रज्ञाचित्तविमुक्तिः । सा त्रयी । तथा च वक्ष्यति—पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः 'कैवल्यम्' इति ॥

 तत्र कार्यविमुक्तिश्चतुष्टयी । पुरुषार्थशून्यत्वं पूर्वमुक्तम् । इदानीं बुद्धिगुणान्निवृत्तिः । पुरुषार्थकर्तव्यानां पुरुषार्थशून्यानां प्रतिप्रसवः प्रज्ञाचित्तविमुक्तिस्त्रयी

व्यासभाष्यम्

 एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति, गुणातीतत्वात् इति ॥ २७ ॥

 सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्धिरन्तरेण साधनं इत्यत इदमारभ्यते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →