क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ विवरणम्
परमार्थज्ञानावस्थायामशेषविपर्ययतिरोधाने सर्वपुरुषार्थशून्यता चेत्येतत्प्रदर्शनार्थमुदाहरणमाह—यत्रेदमुक्तम्—अन्धो मणिमविन्दत् (ध्यत्) तमनङ्गुलिरावयत् । अग्रीवः[तं]प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ॥ इति । यथा अन्धादीनां मणिवेधादिकमसम्भवदपि विपर्ययेणान्धो मणिमविध्यदिति व्यवह्रियते, तथा ज्ञानज्ञेयसंव्यवहारोऽपि विपर्ययावस्थायामेव । विपर्ययाभावे तु सर्वपुरुषार्थशून्या एव गुणाः सम्पद्यन्त इति ॥ ३१ ॥ ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् । ततः धर्ममेघसमाधिसमुदयात् कृतार्थाश्चित्तगुणाः सम्पद्यन्ते । चित्ताधीनत्वाच्च कार्यकरणारम्भिणोऽपि सत्त्वादयः कृतार्था भवन्ति । समस्तस्य पुरुषार्थस्य कृतत्वात् । एषां कृतार्थानां गुणानां जन्ममरणप्र(भाव)वाहरूपः परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गार्थाः क्षणमपि प्रयोजनाभावात् अवस्थातुमुत्सहन्ते ॥ ३२ ॥ परिणामक्रमपरिसमाप्तिरित्युक्तम् । अथ कोऽयं गुणक्रमो नाम ? यस्य परिसमाप्तिरुपवर्णिता । तस्यायमधिगमोपाय उच्यते—क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः । क्षणं प्रति युज्यत इति क्षणप्रतियोगी । ३६६ पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ] क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन निगृह्यते क्रमः । न ह्यननुभूतक्रमा पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः ॥ द्वयी चेयं नित्यता कूटस्थनित्यता परिणामनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य । परिणामनित्यता गुणानाम् । यस्मिन् परिणममाने तत्त्वं न विहन्यते तन्नित्यम् । उभयत्र च तत्त्वस्याविघातान्नित्यत्वम् । [ विवरणम् ] क्षणानन्तर्यात्मा क्षणस्यानन्तरता क्षणानन्तर्यं तदात्मा तत्स्वभावः । क्षणानन्तर्यमेव ‘क्षणतत्क्रमयोः’ इति व्याख्यातम् ॥ किं पुनरस्य ग्रहणे लिङ्गमित्याह—परिणामस्यापरान्तेन विनाशावस्थारूपेण अवसानेन लिङ्गेन निगृह्यते सः क्रमः । कथमपरान्तेन निर्ग्रहणमिति ? उच्यते—न ह्यननुभूतक्रमा क्रममनवलम्बमाना क्षणे क्षणे पुराणता वस्त्रस्यान्ते विनाशकाले भवति इति । न हि कदाचिद्भूतमात्रस्यैव वस्त्रस्य पुराणता दृश्यते । तस्मात् पुराणताभिव्यक्तिलिङ्गेनाभ्यूह्यते—येनेयं पुराणता वस्त्रस्याभिव्यक्तिमुपसंप्रापिता स क्रमः ॥ तत्र यदि लब्धावसानत्वमलब्धावसानत्वं च क्रमस्य स्यात्, ततो युक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् इति वक्तुम् । तच्च लब्धालब्धावसानत्वं क्रमस्य नित्यानित्यत्वे घटते । तत्रानित्येषु वस्त्रादिषु क्रमो दृष्टः, न तु नित्येषु । ततश्च गुणानां नित्यानां परिणामक्रमपरिसमाप्तिरयुक्ता स्यादित्याशङ्कमान आह—नित्येषु च क्रमो दृष्टः । किं सर्वत्र ? नेत्याह—द्विविधेयं नित्यता, परिणामनित्यता गुणानां, कूटस्थनित्यता पुरुषस्येति ॥ ननु परिणामिनां गुणानां कथं नित्यता स्यादिति ब्रवीति—यस्मिन् परिणममाने तत्त्वं न विहन्यते । यस्य यद्रूपं प्रमाणेनोपलब्धं, तस्य तत् तत्त्वम् । तद्यस्मिन् न विहन्यते न व्यभिचरति, तदपि नित्यम् । गुणानामपि सुखदुःखमोहात्मता प्रकाशक्रियास्थितिशीलता च तत्त्वं न विहन्यते । तस्मादेतेऽपि परिणामनित्याः । उभयत्र च गुणपुरुषेषु तत्त्वस्याविघातान्नित्यत्वम् । ततो गुणेष्वपि नित्येषु परिणामो दृष्ट इति लब्धालब्धपर्यवसानत्वं स्थितम् ॥ कैवल्यपादः चतुर्थः ३६७ [ भाष्यम् ] तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पित इति ॥ अथाऽस्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? । अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति । ॐ भो इति ॥ अथ सर्वो मृत्वा जनिष्यत इति ? विभज्यवचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते । तथा, विवरणम् तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः शरीरादिष्विव । नित्येषु तु गुणेषु धर्मिष्वलब्धपर्यवसानः नित्यत्वादेषाम् । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयते । तेन मुक्तपुरुषेष्वसन्नप्यनुभवद्वारेण, शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पितः इति अलब्धपर्यवसान एव । परमार्थतः पुरुषेष्वपरिणामित्वान्नास्ति क्रम इत्यर्थः ॥ अथास्य संसारस्य स्थित्या प्रधानरूपेण, गत्या विकारात्मना, द्वयं च गुणात्मकमिति गुणेषु च वर्तमानस्य अस्ति क्रमपरिसमाप्तिः न वेति ? अवचनीयमेतत् । अस्त्येवेत्यवधारणं न शक्यं कर्तुम् । नापि नास्त्येवेति । किं तु विभज्य, कस्यचिदस्ति कस्यापि नास्तीति वचनीयमेव ॥ कथम् ? अस्ति प्रश्न एकान्तवचनीयः अप्रविभज्यापि । यथा सर्वो जातो मरिष्यति अज्ञानी इति । ननु ज्ञानवानपि मरिष्यत्येव । उच्यते—अज्ञस्य हि मरणमित्यभिमानः, न ज्ञानिनः । तथा चोक्तम्—‘मिथ्यैतदाहुर्म्रियतीति मूढाः’ इति ॥ अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् एकान्तानुपपत्तेः । कथम् ? प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरः अज्ञः जनिष्यते ॥ पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ] मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे, विभज्य वचनीयः प्रश्नः—पशूनधिकृत्य श्रेयसी, देवानृषींश्चाधिकृत्य नेति । अयं त्ववचनीयः प्रश्नः—संसारोऽयमन्तवानथानन्तः ? इति । कुशलस्यास्ति संसारचक्रसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः । तस्मादव्याकरणीय एवायं प्रश्नः इति ॥ ३३ ॥ गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते— |