[ भाष्यम् ]
जितसंबन्धो लघुर्भवति । लघुत्वाच्च जले पादाभ्यां विहरति । ततस्तु ऊर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥
[ भाष्यम् ]
शरीराद्बहिर्मनसो¹ या वृत्ति, सा विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव मनसो बहिर्वृत्तिमात्रेण भवति, सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामिति ।
[ विवरणम् ]
लक्षणसम्बन्धे कृतसंयमो योगी जित्वा तत्सम्बन्धं ततो लघुषु तूलादिषु आ परमाणुभ्यः समापत्तेः जितसम्बन्धः तूलादिवत् लाघवं प्रतिपद्यते ॥
जितकायाकाशसम्बन्धः समापन्नः तूलादितुल्यलाघवशीलनार्थं जले पादाभ्यां विहरति । ततः ऊर्ध्वम् ऊर्णनाभितन्तुमात्रे विहरति । तत्र सञ्जातकौकिलतन्तुसमानलाघवः पुनः रश्मिषु विहरति । ततो मातरिश्वनि । ततो यथेष्टम् आकाशे गतिरस्य भवति ॥ ४२ ॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । शरीरात् बहिः देशान्तरे विषयविशेषे स्वयमेव समाधिबलात् उपजायते या मनसो वृत्तिः सा महाविदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव मनसो वृत्तिमात्रेण बहिः विषये भवति, तदानीं कल्पिता उच्यते । शरीरस्थमनस्सङ्कल्पपूर्वकत्वात् । या तु समाधिबलनिमित्तात् शरीरे बन्धकारणशैथिल्यात् शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खलु अकल्पिता इत्युच्यते । यथैव कल्पितायां शरीरावधिक एव बहिर्वृत्तिलाभः, एवं नाकल्पितायां शरीराधिष्ठानावधिसमीक्षा ॥ सा चोभय्यपि विदेहैव बहिरुपकल्पितत्वात् । तत्र या इयमकल्पिता महाविदेहेति समाख्यायते । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहाम् । कल्पनासंशीलनसाध्यत्वादकल्पितायाः कल्पितया च संसाधयन्ति ।