कैवल्यपादः · ४.२०

एकसमये चोभयानवधारणम् ॥ २० ॥

विवरणम्

सत्त्वात्मिकया वृत्त्या समालम्ब्येत, हस्तेनेव शरीरं कण्डूयमानम् । तत्राप्युपलब्धा विषयी भिन्न एव पुरुषः । एतेन जात्यन्तरग्राह्यग्राहकत्वेन निरवयवत्वेन पुरुषश्च स्वयमेव ग्राह्यः ग्राहकश्चेत्येतत् प्रत्यवोचाम ॥

  किं च—स्वाभासं चित्तमिति उच्यमाने च अग्राह्यमेव चित्तं स्यादिति । एवं शब्दार्थः । स्वाभासमिति ह्युक्ते अन्येन नावभास्यते न गृह्यत इत्यर्थः । न तु स्वयमात्मानं गृह्णातीत्युच्यते । एवमादिशब्दप्रयोगेषु शब्दस्य विपरीतार्थत्वम् ॥

  तद्यथा—स्वात्मप्रतिष्ठमाकाशम्, अप्रतिष्ठमिति शब्दार्थः । तथा स्वस्थो देवदत्त इति, नीरोग इत्यर्थः, न तु स्वात्मनि स्थित इति । तत्र दृश्यत्वादिति हेतोरसिद्धिमाचक्षाणस्य प्रत्यक्षविरोधी लोकविरोधो व्यवहारविलोपश्चेत्याह—स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्राणिनां प्रवृत्तिर्दृश्यते ॥

 क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति स्वां स्वां बुद्धिमेवं चरन्तीं प्रतिसंवेद्य दृष्ट्वा क्रोधलोभादिपरिहाराय विवेकवतां प्रवृत्तिरुपलभ्यते । तथा प्रसन्नं मे चित्तं कळुषितं मूढमिति च । तत् एतत् स्वबुद्धेरग्रहणे, न युक्तमिति । न हि निशाम्य परिस्पन्दिनीं बुद्धिरदृश्येति युक्तं वक्तुम् ॥ १९ ॥

 अभ्युपगम्य वादोऽयम्—यद्यपि स्वाभासं विषयाभासं च मनो भवतु । तत्र दूषणम् एकसमये चोभयानवधारणम् । विषयपरिच्छेदकत्वे, नानाक्षणत्वादात्मपरिच्छेदो न युज्यते । अथ पुनरात्मानमवधारयति, न तदा विषयाभिमुखं, स्वात्मपरिच्छेदकत्वे नानाक्षणत्वात् ॥

व्यासभाष्यम्

 न चैकस्मिन् क्षणे स्वपरोभयावधारणं युक्तं, क्षणवादिनो यद्भवनं सैव क्रिया, तदेव च कारकमित्यभ्युपगमः ॥ २० ॥

 स्यान्मतिः—स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →