दुःखानुजन्मा द्वेषः ॥ ८ ॥
व्यासभाष्यम्
दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यो मन्युः, उज्जिहासा, क्रोधः, स द्वेषः ॥ ८ ॥