विशोका वा ज्योतिष्मती ॥ ३६ ॥
तत्र शास्त्राद्युपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म यदेतत् ‘मैत्रीकरुणा’ इत्यादिना ‘परमाणुपरममहत्त्वान्तोऽस्य वशीकारः’ इत्येवमन्तेन प्रकरणेन यमनियमासनविशिष्टस्य चित्तपरिकर्मोपदिश्यते ॥
तदेतदुक्तं भवति—एतत्प्रकरणोपदिष्टानामुपायानामन्यतमानुष्ठानात् प्रत्यक्षीकृतैकदेशतया विधूत(विध्मात)संशयं तु आ अपवर्गात् दृढावस्थितश्रद्धानादि प्रशान्तबहिर्वृत्ति उपस्थितवशीकारसंज्ञावैराग्यं तस्य तस्य तृतीयपादोपदिष्टपरिणामत्रयादेरर्थस्य प्रत्यक्षीकरणाय समर्थं स्यात् ज्ञानविभूत्यादिप्राप्यर्थमिति । ततश्चैवमर्थं चित्तपरिकर्मोपदिश्यत इति प्रकरणार्थः । तथा च भाष्यकारः प्रदर्शितवान्—‘एतदर्थमेवेदं चित्तपरिकर्म’ इत्येवमादिना ॥ ३५ ॥
विशोका वा ज्योतिष्मती प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीति प्रकृतमभिसंबध्यते । ज्योतिर्यस्यां विद्यते प्रवृत्तौ सा ज्योतिष्मती । सा च शोकं व्यपगमयतीति विशोका नाम ॥
सा च कथमुपजायत इत्याह—हृदयपुण्डरीके धारयतो बुद्धिसंवि- द्भवति स्वरूपसंवेदनम् । बुद्धिसत्त्वं हि किंरूपमित्याह—बुद्धिसत्त्वं हि प्रभास्वरं प्रभासनशीलमाकाशकल्पं व्यापि । यत्र यस्मिन् बुद्धिसत्त्वे ॥
प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि प्रभास्वरमाकाशकल्पम्, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथा अस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ।
यत्रेदमुक्तम्—‘तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्संजानीते’ इति । एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्युच्यते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥