समाधिपादः · १.५

 वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥

व्यासभाष्यम्

 क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः ।

विवरणम्

 नर्तकीव दर्शितविषयत्वादन्तःकरणेनेत्युक्तम्-तत्र दर्शयितृत्वं चित्तस्य, द्रष्टृत्वं च पुरुषस्य किंकृतम् ? स्वस्वामित्वकृतम् । कथं पुनः स्वस्वामित्वम् ? वस्तुस्वभावत्वात् । कथमिति चेदुक्तं-चित्तमयस्कान्तमणिकल्पमिति ॥ अथ चित्तवृत्तीनां बोधे को हेतुः पुरुषस्येति ? उच्यते - यस्मादेवं सन्निधिमात्रोपकारि चित्तं दृश्यत्वेन, तस्माच्चित्तवृत्तीनां बोधे पुरुषस्य अयं हेतुः भवति, योऽसौ अनादिसम्बन्धः ॥ ४ ॥

 ताः पुनर्निरोद्धव्याः बहुत्वेऽपि सति चित्तस्य याभिर्वृत्तिभिः व्युत्थाने सारूप्यमुक्तं पुरुषस्य । कस्मात् पुनः निरोद्धव्या इत्याह-यतो वृत्तयः क्लिष्टाक्लिष्टाः ॥

  ननु च बहुत्वे सति न शक्या निरोद्धुमित्यत आह-पञ्चतय्य इति । यद्यपि क्लिष्टाक्लिष्टा वृत्तयोऽनन्ताः,--तथापि पञ्चतय्यः पञ्चविधाः, पञ्चकुला एव । ततश्च पञ्चप्रकारवृत्तिप्रतिपक्षभूताभ्यासवैराग्यप्रयोगादेव निरोधोपपत्तेः, प्रत्यवयवनिरोधसाधनाप्रयोजकत्वाद्वृत्तीनां, तद्बहुत्वे न निरोधाशक्यत्वप्रसङ्गः । क्लेशहेतुकाः-क्लेशनिमित्ताः । अविद्यादिपञ्चक्लेशप्रयुक्तं हि चित्तं वृत्तिभिरात्मानं पुनः पुनरावेदयति । कर्माशयप्रचये कर्माणि कुशलाकुशलविमिश्राणि तान्येवाऽऽफलप्रदानाच्छेरत इति कर्माशयशब्दवाच्यानि, तेषां प्रचय इतरेतरगुणप्रधानभावेन संहननं, तस्मिन् कर्माशयप्रचये निमित्ते, अविद्यादिक्षेत्रीभूताः क्लिष्टाश्रया इत्यर्थः । सतीषु हि तासु कर्माशयो विपाकाभिमुखीभवति ॥

 ख्यातिविषयाः-ख्यात्यास्पदाः । गुणानां सत्त्वादीनाम् अधिकारः संस्कारप्रवृत्तिः तद्विरोधिन्यः । ख्यातिविषयत्वादेव ता अक्लिष्टाः, अपवर्गहेतुत्वात् ॥

व्यासभाष्यम्

क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते । संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति॥ ५ ॥  ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →