वृत्तिसारूप्यमितरत्र ॥ ४ ॥
व्युत्थाने याश्चित्तवृत्तयः तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-‘एकमेव दर्शनं ख्यातिरेव दर्शनम्’ इति ।
विवरणम्
न तथेत्यनेन तदेति विशेषणस्यार्थवत्त्वं ख्यापयति ॥ ३ ॥ इतरस्तु तथापि भवन्तीत्यनेन चेत्स्वरूपप्रतिष्ठत्वमुच्यते, न तथेति च स्वरूपप्रतिष्ठत्वनिषेधश्चेदेकस्य वस्तुनस्तथाभावश्चातथाभावश्च विरुध्यत इति वीक्षापन्नः पृच्छति--कथं तर्हि इति ॥ इतर आह--वृत्तिसारूप्यमितरत्रेति ॥ कस्मात् पुनर्वृत्तिसारूप्यम् ? दर्शितविषयत्वात् ॥ उभयत्र स्वरूपप्रतिष्ठत्वाविशेषेऽपि वृत्तिसारूप्यासारूप्यकृतो विशेष इति, न तथाभावातथाभावविरोधः ॥
ननु च वृत्तिसारूप्ययोगे सति अवस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोत्येव । न । दर्शितविषयत्वेन परिहृतत्वात् । चित्तवृत्त्यध्यारोपितं हि तत्, न स्वतः, स्फटिकाद्युपधानोपरागवत् । व्युत्थान इति ॥ निरोधादन्यत्र याश्चित्तस्य क्लिष्टादयो वृत्तयः ताभिरविशिष्टा सदृशी वृत्तिः स्वरूपमस्य, चित्तवृत्तिव्यतिरेकेण स्वरूपव्यतिरेकेण च पुरुषस्य वृत्त्यभावात् सदा ज्ञातविषयत्वे परिणामानुपपत्तेश्च ॥
तथा च पूर्वाचा१र्यसूत्रम् एकमेव दर्शनं-बुद्धिपुरुषयोः । किं तदित्याह--ख्यातिरेव दर्शनम् । बुद्धिवृत्तिरेव दर्शनम् । ख्यायते पुरुषेणेति च ख्यातिः ख्यायतेऽनया च बुद्धिपुरुषयोः स्वरूपमिति ख्यातिः । सैवार्थाकारोऽनया (कारतया) गृह्यत इति करणं, स्वेन च ख्यातिरूपेण गृह्यत इति कर्म च भवति । तथा दृश्यत इति दर्शनं, दृश्यतेऽनेनेति च, [ज्ञायत इति ज्ञानं,] ज्ञायतेऽनेनेति च सर्वमेवमादि द्रष्टव्यम् ॥
यत्तु ख्यातिकर्तृत्वे चित्तस्य तदेव ज्ञायते जानाति चेति (ज्ञानादितिचेति) ज्ञानान्तरकल्पनावैयर्थ्यप्रसङ्ग इति, तस्य ‘न २तत्स्वाभासं दृश्यत्वात्' इत्यत्रैव परिहारं वक्ष्यामः ॥
चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति
ननु च यदि चित्तपरिविजृम्भितमेवेदं सर्वं पुरुषश्चेदुदास्ते कथमसौ भोक्तेति ? न—कारकवैचित्र्यात् । कानिचिद्व्याप्रियमाणानि कारकाणि, कानिचिद्व्यापारादृते सन्निधिमात्रेण कर्तृत्वं प्रतिपद्यन्ते ॥
यथा पचतीत्यधिश्रयणादिषु व्याप्रियमाणः पुरुषः कर्तेत्युच्यते । स्थाली सम्भवधारणाभ्यामव्याप्रियमाणैव पचतीत्युच्यते । तथा स्थालीमध्यगतमाकाशमवकाशं ददाति, न तस्य व्यापारं प्रतीमः ॥
यथा च राजा दर्शनमात्रेणैव कर्ता । सर्वाणि च कारकाणि स्वेषु व्यापारेषु कर्तृणि । न चादित्यः प्रकाशयन् करणान्तरमपेक्षते, व्याप्रियते वा । न हि प्रकाशनमविद्यमानमुत्पादयति गमनादिवत् । प्रकाशात्मतैव हि तस्य सद्भावः, तथापि सन्निधिमात्रेण घटादीनां प्रकाशरूपेण अभिव्यक्तेः प्रकाशयतीत्युच्यते, एवमिहापि दृशिमात्रेण पुरुषेण दृश्यानां चित्तवृत्तीनां चिदात्मना व्याप्यमानत्वात्, द्रष्टा पुरुष इतीममर्थं दर्शयति-चित्तमयस्कान्तमणिकल्पमिति ॥
यस्याप्यात्ममनस्संयोगात् ज्ञानमुत्पद्यते, तस्यापि ज्ञानेन ज्ञेयं व्याप्नुवन्नात्मा ज्ञातेत्युच्यते, न व्याप्रियमाणः । ज्ञानम(स्या)पि गुणत्वे सति निष्क्रियत्वादात्मन एवार्थं दर्शयति । नापि क्रियानभ्युपगमात् जानातीत्यादि नोपपद्यते । ज्ञानेन हि ज्ञेयं व्याप्नुवन् जानातीत्युच्यते ॥
किं चान्यत्–आत्ममनस्संयोगादपूर्वज्ञानोत्पत्तौ सत्यामात्मनस्तज्ज्ञानं, न मनसः । आत्मैव जानाति, न मन इति को हेतुर्भवेत् ? अथापि स्यात् आत्मनः समवायिकारणत्वादिति । नैतदेवं, असिद्धत्वात् । यथैव ज्ञानमात्मन इति साध्यं, एवमात्मन एव समवायिकारणत्वं न मनस इति साध्यम्, अनात्मस्वरूपत्वे सत्युभयसंयोगजत्वाभ्युपगमात् ॥
अथापि स्यात्-ज्ञानाहितसंस्कारस्यात्म[नः]स्मृत्येककर्तृत्वेन प्रतिसन्धान- . दर्शनादिति--न-तस्यापि साध्यत्वात् । तत्रापि ज्ञानसंस्कारस्मृतिप्रतिसन्धानादीन्यात्मन एव, न मनस इति साधनीयानि । फलेन समानाश्रयत्वादिच्छादीनामिति चेत्-न—तत्रापि तुल्यत्वात् । संयोगजत्वे सत्यात्मनः फलेच्छादीनि, न मनस इति दुःसाधमेव ॥
पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः ॥ ४ ॥
किं चास्य ज्ञानस्यापि ज्ञेयत्वाभ्युपगमादनवस्थाप्रसङ्गः । न हि ज्ञानमन्येन करणभूतेन ज्ञानेन विज्ञातुं शक्यं, तदप्यन्येन तदप्यन्येनेत्यनिष्टप्रसङ्गात् ॥
अथानवस्थाप्रसङ्गपरिहाराय दूरमपि गत्वा किंचिज्ज्ञानमाद्यं वा ज्ञानान्तरेण न गृह्यते स्वयमात्मनैव गृह्यत इति, तथा ज्ञानवदर्थस्यापि स्वयं ग्रहणप्रसङ्गः ॥
अथ दीपवत् स्वयमवभासते चावभासयति च अवभासात्मकत्वात्, अर्थस्यानवभासात्मकत्वाददोष इति चेत्-तथापि प्रकाशस्वरूपेष्वर्थेषु विज्ञानेनाग्रहणप्रसङ्गः ।
अथ ज्ञानस्यात्मसमवेतत्वाभासनरूपाभ्यां स्वयं ग्रहणं, बहिःप्रकाशात्मकानां तु ज्ञानविपरीतधर्मत्वाददोष इति चेत्-तच्च न-यदि चात्मसमवेतत्वं प्रकाशात्मकत्वं च ज्ञानस्य स्वयंग्रहणे हेतुः स्यात् सर्वे सर्वज्ञाः प्राप्नुवन्ति ॥
अथ ग्राह्याकारत्वमपि कारणं चेत्---तच्च न ; अन्यस्य ज्ञानस्यान्याकारतया करणत्वं यथा, तथा ज्ञानस्यापि ग्राह्यस्यान्याकारणान्यदेव ज्ञाने करणं स्यात्, तथा चानवस्था दुष्परिहरैव ॥
किं चान्यत्---न हि कश्चित् स्वयंग्राह्यग्राहकत्वप्रसाधनाय दृष्टान्तो विद्यते, प्रदीपस्यापि चक्षुरादिग्राह्यत्वात् । न चाप्यंशद्वयमस्ति ज्ञानस्य, निरवयवत्वात् । सत्यपि चांशद्वये तयोः प्रकाशात्मकत्वान्नान्योन्यग्राह्यग्राहकभावः प्रदीपयोरिव द्वयोः ॥
किं चान्यत्—ज्ञानस्य ग्राह्यग्राहकत्वाभ्युपगमे सत्यात्मसद्भावोऽपि दुस्सम्पाद एव । तस्मादर्थाकारज्ञानस्मृतिप्रतिसन्धानप्रयत्नेच्छादीनामनात्मधर्मत्वं ग्राह्यत्वात् रूपादीनामिव । परार्थत्वाच्च सङ्घाताश्रयत्वं रूपादिनिदर्शनेनैव । तथा आश्रयवत्त्वादनित्यत्वाच्च प्रयत्नपूर्वकत्वाच्चेत्येवमादिभ्योऽनात्मधर्मत्वसिद्धिः ॥
अयस्कान्तमणिकल्पम् ॥ अयस्कान्तमणिरिव । यथा अयस्कान्तमणिरयसः स्वात्मव्याप्तिं प्रत्युपकरोति सन्निधिमात्रेण, तथा चित्तमपि चित्स्वरूपस्यात्मनः स्वात्मव्याप्तिं प्रत्युपकरोति दृश्यत्वेन ॥
ताः पुनर्निरोद्धव्याः बहुत्वे सति चित्तस्य—