परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥
लोकप्रत्ययविषयीभूतस्वभावाः । अतीतानागताः सूक्ष्मात्मानः लोकप्रत्ययविषयभावमप्राप्ताः षडविशेषस्वरूपाः अस्मितादिस्वभावाः । ततश्च व्यक्तात्मानः षोडशविकाराः कार्यकारणलक्षणाः ॥
सर्वमिदम् आध्यात्मिकं कार्यकारणरूपं व्यक्तात्मकं, यच्च सूक्ष्ममविशेषलक्षणमस्मितादि, यच्च लिङ्गमात्रं सूक्ष्मत्वाविशेषात्, सर्वमिदं जगत् गुणानां सत्त्वरजस्तमसां प्रख्याप्रवृत्तिस्थितिशीलानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः गुणस्वभावाः ॥
तथा च शास्त्रानुशासनम्—गुणानां परमं रूपं स्वं परमार्थरूपमनपायोपजनात्मकमेकैकस्य । तच्च न दृष्टिपथमृच्छति । न दृष्टिगोचरीभवति । यत्तु दृष्टिपथं प्राप्तं गुणपरिमर्देन विषमभावकृतसन्निवेशलक्षणं, तन्मायेव न तु मायैव, असारत्वात्तु मायावदिति । सुतुच्छकम् अत्यल्पमेकदेशमात्रपरिणामत्वात् साम्यावस्थानां गुणानाम् ॥ १३ ॥
यदा सर्वे गुणाः पृथिव्यादयः, तदा कथमेकः शब्दः शङ्खादिजनितः । एकमिन्द्रियं श्रोत्रादिकमित्येकबुद्ध्यालम्बनत्वं भवेत् । न खलु भवितव्यम् । त्रिगुणत्वेन हि कारणेन त्रय इति प्रत्ययः स्यात् । एवमिन्द्रियाणां च प्रत्येकं त्रित्वम् । तथा च नियमो न प्राप्नोति । न हि ग्राह्यत्वमेकस्यैव शब्दस्य, ग्राहकत्वं चैकस्य श्रोत्रस्य, इति नियम उपकल्पते । तथा स्पर्शादिषु, त्वगिन्द्रियादिषु च योज्यम् ।
नियमश्च दृश्यते । कारणं तत्र वचनीयमित्याह—परिणामैकत्वाद्वस्तुतत्त्वम् ॥प्रख्या प्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रेन्द्रियं, ग्राह्यात्मकानां शब्दभावेनैकः परिणामः शब्दो विषय इति । शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः ॥
प्रख्याप्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानांसत्त्वप्राधान्यात् बोधात्मनामस्मितासंस्थानानां करणभावेनैकः परिणामः श्रोत्रेन्द्रियम् । यथा विरुद्धानां तैलवर्तितेजसां प्रदीपः । तथा त्वगादीन्द्रियेषु पुरुषार्थेतिकरणीये प्रयुक्तानामेकैकमिन्द्रियं परिणाम इति योज्यम् ॥
तथा ग्राह्यात्मकानां गुणानां तमःप्रधानानां शब्दभावेनैकः परिणामः शब्दो विषयः । तथा शब्दादीनां मूर्तिसमानजातीयानां समानाम् एकः गन्धतन्मात्रावयवः परिणामः पृथिवीपरमाणुः । तेषां परमाणूनाम् एकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिः ॥
भूतान्तरेष्वपि योज्यम् । शब्दस्पर्शरूपरसानां स्नेहसमानजातीयानाम् [एकः परिणामः रसतन्मात्रावयवः जलपरमाणुः । तेषां परमाणूनामेकः परिणामो जलम्] ॥ शब्दस्पर्शरूपाणामुष्णत्वसमानजातीयानामेकः परिणामो रूपतन्मात्रावयवः तेजःपरमाणुः । तेषां परमाणूनामेकः परिणामो वह्निः सलिलेन्धनो दारुशकलदीपनश्च ॥
तथा शब्दस्पर्शयोः प्रणामित्वसमानजातीययोः स्पर्शतन्मात्रावयवः वायुपरमाणुरेकः परिणामः । तेषां परमाणूनामेकः परिणामः वायुः सप्त मरुद्गणाश्च ॥ तथा शब्दतन्मात्रावयवानामनावृतत्वसमानजातीयानामेकः परिणाम आकाशः । इत्येवमुक्तेन मार्गेण स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः योज्यः । तस्माद्बहूनामप्येकपरिणामित्वादेकविषयत्वं, ग्राह्यग्रहणनियमश्च सर्वमुपपद्यते ॥
नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु विज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यमुया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थित-
ननु च नास्त्येवासौ एकप्रत्ययविषयः शब्दादिः । एतत्तु सर्वं विज्ञानपरिजृम्भितमेव, विज्ञानभावभावित्वात् । कथं तद्भावभावित्वमित्याह—नास्त्यर्थो विज्ञानविसहचरः पृथग्विज्ञानादुपलब्धः पृथग्भावी वा । विज्ञानमर्थविसहचरं पृथक्त्वेनोपलब्धं पृथग्भावि वा अस्ति। तस्मादर्थो विज्ञानव्यतिरेकेण नास्तीति प्रतिजानीमहे ।
प्रमाणमप्यत्र भवति—विज्ञानव्यतिरेकेण नास्ति ग्राह्यं वस्तु, विज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, विज्ञानस्वरूपवत् । बाह्यार्थशून्यानि जाग्रद्विज्ञानानि, विज्ञानत्वात्, स्वप्नसमयविज्ञानवत् । विज्ञानपरिकल्पिता वा जाग्रद्विषयाः, विषयत्वात्, स्वप्नविषयवत् । विज्ञानं वा विषयाव्यतिरेकि, विज्ञानत्वात्, स्वप्नविज्ञानवदिति ॥
यद्येवं स्यात् किं नश्छिन्नं स्यात् ? पुरुषस्य दृश्यवियोगात् कैवल्यं प्रस्तुतं न सिद्धं स्यात् ॥
यथा उपलभ्यमानस्य स्तम्भादेरभावः एवमुपलभ्यमानत्वाद्विज्ञानस्याप्यभावः । तदभावे च लिङ्गाभावादुपलब्धुरप्यभावः प्राप्नुयादिति, कस्य कैवल्यम् ? केन दृश्येन वियोगः स्यात् ? केन सम्प्रयोगे वा बन्धः प्रतिज्ञायेत ? बन्धाभावे चाभ्युदयनिःश्रेयसार्थप्रवृत्तिफलता न प्रसज्येत ॥
किं चान्यत्—विज्ञानव्यतिरेकेणार्थो नास्तीति ब्रुवता विज्ञानमर्थ इति चैकः पदार्थोऽभ्युपगतो भवति, यथा—अग्निरनल इति । एवं च सति विज्ञानं ग्राह्यं ग्राहकम्, अर्थः ग्राह्यो ग्राहकश्चेति नाममात्रे त्रिप्रतिपत्तिः, न पुनरेकस्य ग्राह्यग्राहकभावः प्रत्याख्यायते । तथा च सति पुरुषस्यापि ग्राह्यग्राहकभावः प्राप्तः । तथाऽपि विप्रमोक्षानवक्लृप्तिः, इत्येवमादयो भूयांसो दोषाः प्राप्नुवन्ति ॥
तस्मात् अमुया दिशा अनेन न्यायाभासबलेन ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमम्, न तु परमार्थतोऽस्तीति,
मिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु स्वयमुपगृह्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥
कुतश्चैतदन्याय्यम्—