एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमितानुभवावच्छिन्नेषु या समापत्तिः सा सविचरेत्युच्यते । तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु
[ विवरणम् ]
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु तन्मात्रेष्वेव देशकालनिमित्तानुभवावच्छिन्नेषु देशावच्छिन्नेषु कालावच्छिन्नेषु निमित्तावच्छिन्नेष्वनुभवावच्छिन्नेष्विति प्रत्येकमवच्छिन्नशब्दः । सर्वं हि वस्तु देशादिभिरवच्छिद्यमानं विषयिणा ज्ञात्रा संबध्यमानं व्यवहाराय कल्पते । तेष्वेवंभूतेष्वेवंभूतैव देशादिविकल्पाभिसंहितैव या समापत्तिः सा सविचारेत्युच्यते । ततश्च सविचारायाः सवितर्काविशेषत्वं सिद्धम् ॥
कथम् ? इहाप्यध्यासविशेषात् । अयन्तु विशेषः शब्दसङ्केतार्थज्ञानदेशादिसर्वाध्यासाः सवितर्कायाम् ॥
इह पुनस्तन्मात्रसूक्ष्मधर्मेषु शब्दसङ्केतस्याप्रसिद्धत्वाद्विशिष्टनामसङ्केतज्ञानानध्यासः देशाद्यध्यासश्च सूक्ष्मविषयत्वश्चेति सवितर्काविशेषत्वसिद्धिः ॥
तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं उक्तदेशादिधर्मविशिष्टमुद्भूतधर्मविशिष्टं वा भूतसूक्ष्ममालम्बनीभूतं न तु निर्विषयं ज्ञानमेव समाधिप्रज्ञायामुपतिष्ठते ॥
यदा पुनः सर्वथा सर्वप्रकारेण सर्वतः सर्वत्र शान्ताश्चोदिताश्चाव्यपदेश्याश्च ये धर्मास्ते शान्तोदिताव्यपदेश्यधर्माः तैः अनवच्छिन्नेषु । शान्त इति यो व्यापारं कृत्वोपरतो धर्मः । उदित इति यो व्यापारमारूढः । अव्यपदेश्य इति न शान्तो नाप्युदितः नाप्युद्भावयद् दृश्यमाननिमित्तः । तद्यथा— सुवर्णस्यादृष्टानेकाश्रुताकारोपजनशक्तयस्ता अव्यपदेश्या धर्माः । तैरनवच्छिन्नेषु
सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारित्युच्यते । एवंस्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति ।
प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति, तदा निर्विचारेत्युच्यते । तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च । सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥