[ भाष्यम् ]
प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चाऽऽनाभिवृत्तिः । अपनयनादपान आपादतलवृत्तिः । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । एषां प्रधानः प्राणः । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति । तां ¹वशीकृत्य प्रतिपद्यते ॥ ३९ ॥
समानजयाज्ज्वलनम् ॥ ४० ॥
[ भाष्यम् ]
जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥