श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥
[ भाष्यम् ]
सर्वश्रोत्राणामाकाशं प्रतिष्ठा ²शब्दानां च ।
[ विवरणम् ] तत्र प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात् समानः आनाभिवृत्तिः आनाभिदेशं वर्तते । मूत्रपुरीषादीनाम् अपनयनादपानः, स च नाभिप्रभृति आपादतलं वर्तते । ऊर्ध्वं शरीरस्य नयनादुदानः, स च पादतलादारभ्य आमस्तकवृत्तिः । समस्तशरीरव्यापी व्यान इति ॥
एतेषां प्रधानः प्राणः । तज्जयाच्च सर्वेषामपानादीनां तु जयो भवति । तेषां तु जयोपायो विस्तरेण हैरण्यगर्भे व्याख्यातः । इह तु मनोजयानुजितत्वात् तेषां जयोपायो न पृथगभिहितः । प्राणायामजयात्तु जीयन्त एव । न पृथगेषां जयोपायप्रतिपादनमादृतमिति फलमात्रमुदानजितेरुच्यते— उदानजयात् जलपङ्ककण्टकादिषु, आदिना कृपाणधारादिषु असङ्गः । किं च, उत्क्रान्तिश्च प्रायणकाले भवति । तां प्रायणकाले भवन्तीमुत्क्रान्तिमुदानजयात् वशीकृत्य स्वतन्त्रतया प्रतिपद्यते ॥ ३९ ॥ समानजयात् ज्वलनम् । जितसमानः तेजस उपध्मानं कृत्वा समानवाय्वाश्रयत्वात् उदानतेजसोः तदुपध्मानकर्मकारकस्तावद्योगी जाठरं ज्वलयति ॥ ४० ॥
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् । कः पुनरसौ संबन्धो यत्र संयम इत्याह—सर्वश्रोत्राणामाकाशं प्रतिष्ठा । शब्दानां चाकाशगुणत्वादाकाशमेव प्रतिष्ठा । ग्राह्यं शब्दं प्रति श्रोत्रस्य व्यवधानाभावः श्रोत्राकाशयोः सम्बन्धः ॥
[ भाष्यम् ] ¹तथा चोक्तम्— तुल्यदेशश्रवणानामे२कश्रुतित्वं सर्वेषां भवतीति । तच्चैतदाकाशस्य लिङ्गम् । अनावर३णात्मकं चोक्तम् । तथा⁴ मूर्तस्यान्यत्राकाशादावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणानुमितं तु श्रोत्रम् । बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति । तस्माच्छ्रोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं
प्रवर्तते ॥ ४१ ॥