वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥
तत्र हिंसा तावत्—कृता कारिता अनुमोदितेति त्रिधा । एकैका पुनस्त्रिधा—लोभेन मांसचर्मार्थेन, क्रोधेन अपकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधाः—मृदुमध्याधिमात्रा इति ।
श्वा वान्तावलेही तथा त्यक्तस्य पुनरादानं कुर्वन् इत्युपस्कारः। तेन पुरुषेण तुल्योऽहमिति । तथा कथमहं भवेयं, न युक्तमेतदिति भावयेत् ॥
इत्येवमादि सूत्रान्तरेऽपि नियमसूत्रेऽपि योज्यम् । शौचादीनां प्रत्येकं वितर्का द्रष्टव्याः शौचं न करिष्यामीत्यादयः । भाष्ये तु यमानामेव प्रदर्शनम्, तेषामवश्यकर्तव्यत्वात्, अकरणे च दोषगौरवात्, अत्यादरार्थम् ॥ ३३ ॥
वितर्काणां स्वरूपं भेदः प्रभवहेतुः फलं च सूत्रेणैव प्रदर्श्यते—वितर्का हिंसादय इति स्वरूपम् । कृतकारितानुमोदिता इति भेदः । लोभक्रोधमोहपूर्वका इति प्रभवहेतुः । मृदुमध्याधिमात्रा इति मन्दमध्योत्तमदोषत्वम् । दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । फलं वा तेनैव व्याख्यायते ॥
तत्र हिंसैव एका उदाह्रियते सर्वेषां प्रदर्शनाय । सा कृता कारिता अनुमोदितेति त्रिविधा । कृता स्वव्यापारेण । कारिता प्रयोज्यव्यापारेण । अनुमोदिता परेषां व्यापारेण मनसा अनुज्ञाता ॥
एकैका पुनस्त्रिधा। कथम् ? लोभेन, मांसचर्मा(स्थि)र्थी मृगं हिनस्ति । क्रोधेन, अपकृतमनेनेति। मोहेन, धर्मो मे भविष्यतीति । एवमेते नव भेदाः । एकैक(त्वेन)स्य पुनस्त्रिधा भेदः । कथम् ? लोभक्रोधमोहाः पुनस्त्रिधा
एवं सप्तविंशतिर्भेदाः भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिधा—मृदुमृदुः, मध्यमृदु, तीव्रमृदुः इति । तथा मृदुमध्यो मध्यमध्यः तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ॥
ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । दुःखमज्ञानं च अनन्तफलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत् प्रथमं वध्यस्य वीर्यमाक्षिपति । ततश्च शस्त्रादिनिपातनेन दुःखयति । ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतन
मृदुमध्याधिमात्रा इति । [एकैकं पुनः] त्रिधा भवति—मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति । एवं एकाशीतिभेदा हिंसा भवति ॥
सा च पुनः एकाशीतिभेदाऽपि सती नियोगविकल्पसमुच्चयभेदात् असङ्ख्येया । यथा नियोगभेदः—कश्चिन्नियुक्तः सन्नन्यं नियुङ्के ; यथा राज्ञः । स चापि नियुक्तः परम्, स चापि परमिति । ते च सर्वे नियुक्ताः समुच्चयेन विकल्पेन वा हिंसन्ति । तथा मूलनियोक्तापि नियोज्यैः संहत्य विकल्प्य च हिंसामनुतिष्ठतीति । वध्यघातकादिप्राणिभेदस्यासङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । कृतकारितानुमोदितादि योज्यम् ॥
ते खल्वमी वितर्का दुःखाज्ञानानन्तफलाः । दुःखं चाज्ञानं च दुःखाज्ञाने, ते एवानन्तं फलं येषां ते दुःखाज्ञानानन्तफलाः। दुःखमेषामनन्तं फलम् । अज्ञानं चैषामनन्तं फलम् । तस्मादेतान् वितर्कान् मनसाऽपि नोपेक्षयेदिति प्रतिपक्षं भावयेत् ।
तत्र हिंस्यस्य त्रिप्रकारा पीडा प्रतिपाद्यते तद्भेदद्वारेण फलभेदप्रदर्शनार्थम् । तथा च हिंसको वध्यस्य वीर्यमाक्षिपति । घातकरूपावलोकनभर्त्सनादिना त्रस्तस्य वीर्यमाक्षिप्य शस्त्रादिनिपातनेन दुःखयति । ततो जीवितादपि मोचयति । प्राणेभ्यो वियोजयति ॥
मुपकरणं क्षीणवीर्यं भवति । दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिदेवोच्छ्वसिति । यदि च कथंचित् पुण्यावापगता हिंसा भवेत्, तत्र सुखप्राप्तौ भवेदल्पायुरिति । एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां च अमुमेवानुगतं विपाकमनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥
प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदा च स्युरप्रसवधर्माणः, तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा—
तस्य वीर्याक्षेपादस्य हिंसितुः चेतनाचेतनं पशुक्षेत्रादिकं उपकरणं क्षीणवीर्यं भवति ॥ शस्त्रादिनिपातनदुःखोत्पादात् हिंसाविशेषात् नरकतिर्यक्प्रेतादिषु दुःखमनुभवति ॥ तथा जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो जन्ममरणान्तरे वर्त्मनि प्रतिक्षणं मरणमिच्छन्नपि दुःखविपाकस्य नियतवेदनीयत्वात् अवश्यानुभवितव्यत्वात् कथंचिदेवोच्छ्वसिति ॥
यदि च कथंचित्पुण्यावगमात् प्रभूतपुण्यावापगता अल्पीयसी हिंसा भवेत्, तत्र पुण्यभूम्ना सुखप्राप्तः सन्नपि भवेदल्पायुः आवापगतहिंसादोषेण ॥
इत्थमनृतादिष्वपि यथासंभवं हिंसायामुक्तं योज्यम् । एवं वितर्काणां हिंसादीनां छायामिवानुगतं विपाकमनिष्टं भावयेत्, न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥
प्रतिपक्षभावनाहेया वितर्काः यदा च स्युरप्रसवधर्मिणः अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः । यदा योगिनो मनसि नोत्पद्यन्ते निकृत्तमूलाः सन्तः, तदा तत्कृतं यमनियमस्थैर्येकृतम् ऐश्वर्यं योगिनः सिद्धिसूचकम् अहिंसादिफलसिद्धिज्ञापकं जायत इति योगसिद्धिफलमवस्थितमेव । अन्यदपि योगाङ्गस्तुतये ऐश्वर्यमनुषङ्गजातमुच्यते । कथम् ? एकैकस्याप्यहिंसादीनां स्थिरत्वलिङ्गमीदृशं यज्ञादिधर्मफलैरप्यसमानं प्रत्यक्षत उपलभ्यते, किमङ्ग संहतानां योगसिद्धिकरत्व