कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२
[ भाष्यम् ]
यत्र कायस्तत्राऽऽकाशं, तस्यावकाशदानात्कायस्य तेन संबन्धः⁵ । तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु तूलादिष्वा परमाणुभ्यः समापत्तेः⁶
[ विवरणम् ]
तथा चोक्तम्—तुल्यदेशश्रवणानाम् । श्रूयतेऽनेनेति श्रवणम् । तुल्यदेशानि श्रवणानि येषां ते तुल्यदेशश्रवणाः । तेषाम् एकश्रुतित्वं सर्वेषां भवति । तदेकस्मिन्नवकाशदायिनि निरावरणात्मके वस्तुनि सति युज्यते । तच्चैतदाकाशस्य सत्त्वे लिङ्गम् ॥ तथा अनावरणात्मकं चोक्तम् । (कुतः) तथा मूर्तस्यान्यत्राकाशात् आकाशविलक्षणस्य घटादेः आवरणदर्शनात् । अतो यस्य मणिवज्रादिमध्येष्वप्यावरणं नास्ति, तदाकाशम् । अत एव विभुत्वमपि प्रख्यातमाकाशस्य ॥ श्रोत्रस्य लिङ्गमाह—शब्दग्रहणानुमितं तु श्रोत्रम् । यस्मात् बधिराबधिरयोरेकः शब्दं गृह्णाति अपरो न गृह्णाति । यन्निमित्तमबधिरस्य शब्दग्रहणमितरस्य चाग्रहणं तच्छ्रोत्रम् । तस्माच्छ्रोत्रमेव शब्दविषयम् । बधिरेणाश्रवणात् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनः दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् । यत्र कायः तत्र आकाशम् । तस्य अवकाशदानात् कायस्य अविनाभावलक्षणः सम्बन्धः तेन आकाशेन । तत्र कायाकाशयोः इतरेतराविनाभावप्राप्ति-