तज्जपस्तदर्थभावनम् ॥ २८ ॥ [ भाष्यम् ]
प्रणवस्य जपः, प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतः चित्तमेकाग्रं सम्पद्यते । तथा चोक्तम्—
“ स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमामनेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥” इति ॥ २८ ॥
किञ्चास्य भवति—
विवरणम्
वाच्यवाचकयोरस्थितसंबन्धत्वे तु प्रणवरूपेणाभिमुखीभवतीश्वर इति नावकल्पते । न हि पाच्यपाचकसंबन्धे न च स्थिते पाचकाग्न्युपादानं पाकार्थं कल्पते । स्थिते तु वाच्यवाचकसंबन्धे भगवदाराधनसाधनस्य प्रणवस्योपादानमवकल्पत इति तत्प्रतिपादनार्थं सर्वं भाष्यम् ॥ २७ ॥
एवमवगतवाच्यवाचकसंबन्धस्य योगिनः परमेश्वरप्रसादनं कथं क्रियत इति तदर्थमाह—तज्जपस्तदर्थभावनम् । तस्येश्वरवाचकस्य प्रणवस्यार्धचतुर्मात्रस्य त्रिमात्रस्य वा जपः मनसोपांशु वा आवर्तनं जपः, तदर्थस्य चेश्वरस्य प्रणवेन वाचकेन समर्पितस्य बुद्धौ समारोपितस्य भावनमभिध्यानं तदर्थभावनम् । कर्तव्यमिति वाक्यशेषः ॥ तदेवमुभयं कुर्वतो योगिनः चित्तमेकाग्रं सम्पद्यते । एकाग्रसम्पत्तिं च तदाराधनफलं दर्शयति—तथा चोक्तम्—स्वाध्यायाद्योगमा(तिष्ठेत्)सीत स्वाध्यायात् प्रणवजपादीश्वरं प्रत्यवनतचित्तः सन् योगमासीत । तदर्थमीश्वरं ध्यायेत् । (रस्ययत्)तदर्थध्यानाच्चाप्रचलितमनाः स्वाध्यायं प्रणवमामनेत् मनसाऽभिजपेत् । मानसोऽभिजपः प्रशस्यते ध्यानस्यासन्नतरत्वात् । मा विषयप्रवणचित्तो भूदिति । एवं स्वाध्याययोगसम्पत्त्या तद्विरोधिना प्रत्ययान्तरेणानभिघातः स्वाध्याययोगसम्पत्तिः । तया च प्रणवजपपरमेश्वरध्यानसम्पत्त्या पर आत्मा परमेष्ठी प्रकाशते योगिन इति ॥ २८ ॥