साधनपादः · २.९

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥

व्यासभाष्यम्

सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति 'मरणं माऽन्वभूवं, भूयासम्’ इति ।

विवरणम्

दुःखानुजन्मा दुःखानुशयी द्वेषः । दुःखमुक्तम् 'येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते' इति । दुःखाभिज्ञस्येति पूर्ववद्व्याख्यानम् । दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा सतस्करादौ यो मन्युरुज्जिहासा उद्धातुमिच्छा क्रोधः स द्वेषः । रागेण तुल्यं व्याख्यानं सर्वम् ॥ ८ ॥

 स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः स्वरसेन स्वभावेन चित्तस्याविद्यामात्रेण वोढुं प्रवर्तितुं शीलमस्य । वहतेरकर्मकस्यापि दर्शनात् यथा नदी वहतीति । अथवा स्वरसं स्वभावं वोढुं शीलमस्य स्वरसवाही विदुषोऽपि सम्यग्दर्शनस्यापि । अपिशब्दादविदुष एव युक्तो मरणत्रास आत्मोच्छेदमानिन इत्यभिप्रायः । सम्यग्दर्शनस्यात्मानुच्छेदमानिनोऽयुक्त इति । तथा विमूढतरबुद्धिष्वात्मोच्छेददर्शिष्वयमभिप्रायो मरणत्रासो रूढोऽभिनिविष्टः स्थिरो यथा तथैव विदुषोऽप्यात्मानुच्छेददर्शित्वादयुक्तोऽपि रूढः ॥


 कस्मात् पुनरयं मरणत्रासः स्वरसेनैव रूढ इति ? यतः सर्वस्य प्राणिनः इयमात्माशीर्नित्या भवति, यदसौ मरणं मान्वभूवम् उच्छेदं मा प्रापम् । इयमाशीर्वा, भूयासं गुणैः शुभात्मभिः सम्पत्सीयेति न तैर्वियोगो भूयादिति । मूढेषु भोगसम्पदामात्मनश्चानुच्छेदः प्रार्थनीयः ॥

व्यासभाष्यम्

 न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति ।

 यथा चायमत्यन्तमूढेषु दृश्यते क्लेशः, तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् ? समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९ ॥

विवरणम्

 किमेतयाऽऽशिषा अवगम्यत इत्याह—न चाननुभूतमरणधर्मकस्य भवत्येषा आत्माशीरिति । एतया च आत्माशिषा पूर्वजन्मानुभवः प्रतीयते । तदेतदुक्तं भवति—न ह्यननुभूते सुखे भवति प्रार्थना, नाप्यननुभूते दुःखे तत्परिहारवाञ्छा भवतीति । येनापि प्रत्यक्षानुमानाभ्यामननुभूतं मरणदुःखं तस्याप्यनयात्माशिषा पूर्वो मरणानुभवः प्रतीयते, सोऽपि नान्तरेण जन्मेति जन्मानुभवः । तया पूर्वः पूर्वो जन्ममरणानुभवोऽनादिरिति मतः । स चायमभिनिवेशः क्लेशः कृमेरपि जातमात्रस्येति ॥

 मरणानुभवकारणमाचष्टे—प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मक आत्मभोगोच्छेदप्रतिपत्तिहेतुः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते कृमिप्रभृतिषु क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तिकस्यापि पूर्वान्तिकं बन्धः अपरान्तिकं मुक्तिः । ज्ञातजन्ममरणान्तिकस्य वा रूढः । कस्मात् पुनर्मूढस्येव विदुषो रूढ इति, तत आह—समाना हि कुशलाकुशलयोर्विद्वदविदुषोर्मरणानुभवादियं वासना मरणभयवासना ॥ ९ ॥

 'क्लेशमूलः कर्माशयः' ‘सति मूले तद्विपाकः' इति वक्ष्यते । तस्मात्ते क्लेशा हातव्याः । हानार्थश्च ते प्रदर्शिताः । तदवहानौ चोपायं वक्ष्यति—‘ध्यान

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →