परिणामत्रयसंयमात् अतीतानागतज्ञानम् ॥ १६ ॥
[ते च] स्वविषयवृत्तिसद्भावैः सप्तैव भवन्ति । ते कथमवगम्यन्त इति ? अनुमानेन प्रापितवस्तुमात्रसद्भावाः कार्यलिङ्गेनावगतसद्भावाः । स्वरूपेण तु नानीश्वरैरुपलभ्यन्ते । ततश्चैकैकत्वेनोच्यन्ते ॥
निरोधधर्मसंस्काराः । निरोधः उक्तः । धर्मः इति, धर्माधर्मौ । संस्काराः वासनारूपाः । परिणामः उक्तलक्षणः । अथ जीवनम् इति, धर्माद्यपेक्षया सकलकरणवृत्तिः प्राणलक्षणा येन चित्तधर्मेण भवति, स जीवनम् इत्युच्यते । चेष्टा व्यापारः । शक्तिः सामर्थ्यं, चित्तस्य धर्माः । दर्शनवर्जिताः अप्रत्यक्षाः । इति एते सप्त निरोधादयश्चित्तधर्मा अपरिदृष्टा उच्यन्ते ॥ १५ ॥
एते त्रयः परिणामा धर्मलक्षणावस्थारूपाः योगिनः उपात्तसर्वसाधनस्य समासादितयमादिसकलसाधनस्य स्थिरतरसंयमस्य, अतीतानागतप्रत्युपस्थितबुभुत्सितार्थप्रतिपत्तये संयमस्य विषयः उपक्षिप्यते । त्रयोऽप्येको विषयः संयमस्य ॥
परिणामत्रयसंयमादतीतानागतज्ञानम् । परिणामत्रये तावत् संयमः करणीयः, यावत् समाधिप्रज्ञाऽऽलोकः । स च यद्विषय उपस्थितः, तं विषयं यथाभूतं प्रत्यक्षतामापादयति । सूक्ष्मं व्यवहितमतीतमनागतं विप्रकृष्टं वा यमुद्दिश्य प्रापणाभिप्रायेण सूक्ष्मादिषु संयमः क्रियते, तदा सोऽर्थो
धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयं एकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥