विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५ ॥
तत्रोपेक्षाया अक्रियारूपत्वाद्धर्माहेतुत्वे सति किमर्थमिहोपादानम् ? उच्यते—उपेक्षानुपादाने चापुण्यशीलेष्वपि चित्तं व्यापारं यायात् । ततश्च तद्व्यापारोपधानकालुष्यान्मैत्र्यादिभावनाया न योग्यं भवति । अपुण्यशीलनिमित्तनैमित्तिकाकारव्यापारादधर्मो वा मा संजनिष्टेति चित्तस्थितिरेवोपेक्षेति तस्या उपादानम् । चित्तस्थितिश्चेह समीहिता ॥
तस्मादित्थं समाहितचित्तस्य मैत्रीकरुणाद्येकतत्त्वालम्बनं चित्तं शीलयतः प्रागभिहिता अन्तराया न जनिष्यन्ते ॥ ३३ ॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो मैत्र्यादिभावनोपायान्तरविकल्पार्थः । मैत्र्यादिभावनाद्युपायानामन्यतमेन येन केनचित् चित्तस्थितिः सम्पादनीयेति प्रकरणार्थः । अनेकोपायप्रदर्शनं कस्यचित् क्वचित् सुकरताभिप्रायेण । प्रच्छर्दनविधारणाभ्यां व्यस्ताभ्यां समस्ताभ्यां वा । प्रच्छर्दनम् कौष्ठ्यस्य वायोरातमितोरुद्वमनं नासिकाभ्याम्, न मुखेन । विधारणं प्राणायाम आतमितेरेव । यद्यपि प्रच्छर्दनेनापि प्राणः आयम्यते, तथापि बहिर्वृत्तिर्न निरुध्यत इति विधारणं प्राणायाम इति विशेष्यते ॥ ३४ ॥
विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी । चित्तस्येति वाक्यशेषः । विषया गन्धादयो यस्या योगप्रवृत्तेर्गन्धादिसंवेदनलक्षणाया आलम्बनीभूताः, स विषयवतीत्युच्यते ॥
प्रवृत्तिर्नाम योगिनो योगमभ्यस्यतः अभिमुखीभावं प्रतिपद्यमानस्य योगस्य यः प्रथमोऽभिमुखीभावः प्रत्ययकरणो योगानुष्ठानं प्रत्युत्साहजननो
नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् । तालुनि रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित्, इत्येता वृत्तय उत्पन्नाश्रितं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति इति ।
एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या ।
यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति । एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् । तथाऽपि यावदेक- देशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति, तावत् सर्वं परोक्षमिवापवर्गा- दिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योप- देशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः ।
निर्मथ्यमानस्याग्नेरिव धूमसमुद्भवः, सा प्रवृत्तिः । सा च तादृशी प्रवृत्तिरुत्पन्ना प्रत्ययकरणात् प्रहर्षयन्ती योगिनश्चित्तं स्थितौ निबध्नाति ॥
नासिकाग्रे चित्तं धारयतो गन्धसंवित् प्रह्लादनकरसुरभिगन्धसंवेदनं निरन्तरतया सम्मतसंयोगमिवाचक्षाणा जायते । सा गन्धप्रवृत्तिः । तथा जिह्वादिषु । धारयत इति सम्बध्यते । ता एताः प्रवृत्तयः स्थितौ चित्तं निबध्नन्ति । संशयं विधमन्ति समाधिप्रज्ञायाश्च द्वारीभवन्ति ॥
एतेन रश्मिचन्द्रादित्यग्रहप्रदीपादिषु चित्तं धारयतो हृदयपुण्डरीके- वा धारयतो वैषम्याद्रश्मिचन्द्राद्याकारा प्रवृत्तिरुत्पन्ना विषयवतीत्येव वेदितव्या ॥
यद्यपि शास्त्रानुमानाचार्येभ्योऽवगतमर्थतत्त्वं तथाभूतमेव अव्यभिचारिस्वरूपमेव । तेषामन्यथाभूताप्रतिपादकत्वात् । तथाऽपि यावदेक- देशोऽपि स्वकरणसंवेद्यो न भवति प्रत्यक्षो न भवति शास्त्राद्युपदिष्टस्यार्थ- स्यैकदेशोऽपि, तावत् सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धि- मुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपोद्बलनार्थमवश्यं कश्चिद्विशेषः प्रत्यक्षीकर्तव्यः ॥
तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गात् श्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति ।
तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥