साधनपादः · २.१३

   सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥

व्यासभाष्यम्

 सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुलाः अदग्धबीजभावाः प्ररोहसमर्था भवन्ति,

विवरणम्

 कथं पुनर्नारकाणां कर्मारम्भस्तिर्यगादीनां देवतानां च ? मनुष्याणां हि कर्माधिकारः । एषा च कर्मभूमिर्न नरकादिरित्युच्यते—न—नहुषादीनां कर्मदर्शनात् । श्रूयते च शतक्रतोरपि वृत्रादिवधेन ब्रह्महत्याप्राप्तिर्योगाद्यनुष्ठानश्रवणं च ॥

 यन्मनुष्याणां कर्माधिकारः इयं च कर्मभूमिरिति, तत्क्षिप्रफलसिद्ध्यपेक्षम् । तदुक्तम्—“क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा” इति । व्यासेन कीटोपाख्यान(श्रव)स्मरणाच्च तिरश्चामपि कर्मोपपत्तिः ॥

 किञ्च—देहेन्द्रियादिमतः क्रियोपपत्तेः । क्रियाणां च कायवाङ्मनःप्रभवानां फलारम्भकत्वं, क्लेशपूर्वकत्वात् ॥

 क्षीणक्लेशानामपि सम्यग्दर्शिनामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशयः क्लेशाभावादेव । न हि वीतरागो जातो दृश्यते । क्लेशानां कर्मारम्भ इव कर्मफलारम्भेऽपि हेतुत्वात् । क्षीणक्लेशस्यापि ज्ञानप्राप्तेः प्रागारब्धो दृष्टजन्मवेदनीयः सम्भवति कर्माशयः प्रवृत्तफलत्वान्मुक्तशरवदिति ॥ १२ ॥

 किञ्च—सति मूले तद्विपाको जात्यायुर्भोगाः । मूलं हि कर्मणां क्लेशः । अस्मिन् सति मूले क्लेशेषु सत्स्वित्यर्थः । तस्य लोभक्रोधप्रभवस्य पुण्यापुण्यकर्माशयस्य विपाकः फलनिष्पत्तिः तद्विपाकः । किं पुनस्तत्फलमित्याह—जात्यायुर्भोगाः ॥

 भाष्यं ‘सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल’ इति, मूलस्य व्याख्यानम् । तत्र सत्सु क्लेशेषु कर्माशयो विपाकारम्भीत्यस्य दृष्टान्तमाह—यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः ॥

व्यासभाष्यम्

नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति ।

तत्रेदं विचार्यते—

विवरणम्

 तुषावनद्धा अपि कदाचिद्दग्धबीजभावा न प्ररोहसमर्था भवन्ति । अदग्धबीजभावा अपि व्यपनीततुषा न प्ररोहायालं भवन्ति । उभयथा च दार्ष्टान्तिकप्रतिपादनार्थं दृष्टान्तविकल्पः ॥

 कथम् ? तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति क्लेशोपबन्धः तुषावनद्धशालितण्डुलवत् । नापनीतक्लेशो [न प्रसंख्यान] दग्धक्लेशबीजभावो वेति । अपनीततुषशालितण्डुलवदपनीतक्लेशो न विपाकप्ररोही ॥

 योगाङ्गानुष्ठानक्लेशक्षयपूर्वसम्यग्दर्शनानां योगिनाम[न]पनीतक्लेशोऽप्य[न]पनीततुषदग्धबीजशक्तिशालिवद्योगाङ्गानुष्ठानप्रणालिकेवलसम्यग्दर्शनानलदग्धबीजसामर्थ्यो न विपाकप्ररोही भवति ।

 तथा च व्यासः सांख्यानां योगिनां च पृथङ्मोक्षं दर्शयति ॥

 “बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ॥

 तथा “योगैश्वर्यमतिक्रान्तो योगी मुच्येत” इत्यादि । वक्ष्यति चात्रापि प्राप्ताप्राप्तैश्वर्ययोगयोः कैवल्यम् ॥

 कतिप्रकारोऽसौ विपाक इत्याह—स च विपाकस्त्रिविधः जातिरायुर्भोग इति ॥

 तत्रेदं विचार्यते । किं पुनर्विचारफलम् ? उच्यते—एकैकेन प्राणिना विरुद्धफलानि भूयिष्ठान्येकस्मिन्नेव जन्मनि कर्माणि क्रियन्ते । तद्यथा

 “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।

 वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥”
व्यासभाष्यम्

किमेकङ्कर्मैकस्य जन्मनः कारणम् ? अथैकं कर्मानेकं जन्माऽऽक्षिपतीति ।

 द्वितीया विचारणा—किमनेकं कर्मानेकं जन्म निर्वर्तयति ? अथानेकं कर्मैकं जन्म निर्वर्तयतीति ।

विवरणम्

 स्वर्गार्थानि च तावदनुतिष्ठति । नरकप्रापीणि च कर्माणि । तत्रैकस्य ब्रह्महत्यादिकर्मणोऽनेकजन्मकारकत्वं श्रूयते श्वसूकरखरोष्ट्राणामित्यादिस्मृतेः ॥

 तत्र विरुद्धदेशकालनिमित्तविपाकानां कर्मणामेकजन्मारम्भे विरुद्धविपाकतादर्थ्यं ह्रीयेत । ततश्च तादर्थ्यचोदनाः कर्मणां बाध्येरन् ॥

 अथ पर्यायेण जन्मारम्भित्वं, कर्मणामसंख्येयत्वात् केनचिदेव फलमारब्धं नान्यैरिति, तत्र नियमानुपपत्तिः, केनारब्धः केन वा नेति । तथा च कर्तॄणां कर्मफलं प्रत्य(प्य)विस्रम्भादुत्साहविभङ्गः स्यात् अभ्युदयनिःश्रेयसप्रवृत्तिषु ॥

 अथान्यतमेनारम्भे विनाश एवान्येषामिति, तथाऽपि स एव दोषः, किं विनष्टं किमारम्भकमित्यनियमात् ॥

 अथाविनाश एव, तथाप्यवशिष्टस्यारम्भकालाभावो मोक्षाभावश्चेति । तस्मात्प्रवृत्तिनिवृत्तिशास्त्रार्थवत्वप्रतिपादनार्थमिदं विचार्यते ॥

किमेकं कर्म एकस्य जन्मनः कारणं स्वर्गादिप्राप्तिनिमित्तेषु बहुषु कर्मसु सत्सु । अथैकं कर्मानेकं जन्माक्षिपतीति प्रथमा विचारणा । विरुद्धपक्षद्वयालम्बिनी हि विचारणा एकैव स्यात् ॥

 द्वितीया विचारणा—किमनेकं कर्मानेकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा । अथानेकं कर्मैकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा ॥

व्यासभाष्यम्

 न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । नचैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? अनेकेषु कर्मस्वेकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति ।

विवरणम्

 किञ्चातः ? न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात् ? बहुषु कर्मसु सत्स्वेकमेव कर्म जन्मैकं नारभत इति ॥

 यद्येकस्यैव जन्मारम्भित्वं, तदा अनादिकालप्रचितस्य संसारानादित्वादेकैकेन पुरुषेणासंख्येयमेकैकस्मिन् जन्मनि कर्म प्रचीयते विरुद्धफलमविरुद्धफलं च ॥

 तत्र अवशिष्टस्य जन्मारम्भिकर्मव्यतिरिक्तस्य असङ्ख्येयस्य अनेकजन्मान्तरप्रचितस्य कर्मणः कर्मकलापस्य साम्प्रतस्य च वर्तमानजन्मप्रचितस्यानारब्धकार्यस्य फलक्रमानियमात् किं पूर्वजन्मोपचितकर्मराशिगतस्य कस्यचिदेव भविष्यज्जन्मारम्भित्वं, आहोस्विदिदानीन्तनजन्मकर्मराशिगतस्य कस्यचिदिति फलक्रमो न नियम्येतेति अनाश्वासो लोकस्य ॥

 किं पूर्वजन्मकर्मणा दुष्टेनादुष्टेन वा फलमारब्धव्यम् ? अथेदानीन्तनकर्मणा दुष्टेनादुष्टेन वा ? इत्यविस्रम्भात् न कश्चिदग्निहोत्रादि कुर्वीत । नापि मोक्षाय समीहेतेत्यनाश्वासः प्रसक्तः, स चानिष्टः ॥

 इदानीं प्रथमविचारणायां द्वितीयं पक्षं निराकरोति—न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? एकैकस्मिंस्तावज्जन्मनि अनेकं कर्मानुष्टीयते, तत्रैकैकमेव चेत्कर्मानेकस्य जन्मविपाकस्य जन्मपरिणामस्य निमित्तं भवेत्, ततोऽवशिष्टस्य आरब्धकार्यान्यस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्टः । फलक्रमानियमश्चेति पूर्वदोषोऽपि । नैवंभूतमनिष्टमभ्युपगन्तव्यम् । यत्तु ब्रह्महत्यादिकर्मणामेकैकस्यानेकजन्मारम्भित्वं, तस्य शास्त्रगोचरत्वात् ब्रह्महत्यादिविषयत्वमेवाभ्युपगम्यते ॥
व्यासभाष्यम्

न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तदनेकं जन्म युगपन्न सम्भवतीति क्रमेणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ।

 तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति ।

विवरणम्

 द्वितीयविचारणायामिदानीं प्रथमः पक्षो निराक्रियते—न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मादेवं नाभ्युपगम्यते ? तदुच्यते, तदेवानेकं जन्म युगपन्न सम्भवति एकस्यानीश्वरस्य । ततश्च क्रमेण वाच्यमाने किमेकमनेकं जन्मारभत इति । तथा च पूर्वदोषानुषङ्गः सर्वत्र प्रथमदोषानुषङ्गः फलक्रमानियमादनाश्वास इति ॥

 तस्मात् एवं पक्षत्रयानुपपत्ताविदानीं सिद्धान्तमुपसंहरति—जन्मप्रायणान्तरे जन्ममरणयोरन्तरे मध्ये कृतः पुण्यपापकर्माशयः अविरुद्धजन्मदेशनिमित्त इति वाक्यशेषः । विरुद्धजन्मदेशनिमित्तः पुनः अदृष्टजन्मवेदनीयः अप्रतिनियतविपाकः । तस्य त्रिधा विनियोगं वक्ष्यति । तस्मादविरुद्धफलस्यैव पुण्यापुण्यकर्माशयस्यायं नियम उच्यते ॥

प्रचयविचित्रः तुल्यातुल्यानेककर्मप्रचितत्वात्प्रचयेन विचित्रः । प्रधानोपसर्जनभावेनावस्थितः किञ्चित्कर्म कस्यचित्कर्मणः प्रधानमपि कस्यचिदन्यस्योपसर्जनमुपसर्जनमपि प्रधानमित्येवमनेककर्मशबलिम्नाऽवस्थितः ॥

प्रायणाभिव्यक्तः यथा बीजक्षेत्रसंस्कारसंयोगोऽङ्कुरभावाभिव्यक्तिकारणं, तथा प्रायणमप्यविरुद्धानां कर्मणामभिव्यक्तिनिमित्तम् । एकप्रघट्टकेन एकलोलीभावेन समुच्चितः एकीभूतः एकमेव जन्म करोति ॥

तच्च जन्म तेनैव प्रायणाभिव्यक्तात्मना कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यते, येन जन्मायुषी कृते । यथा येन बीजेनाङ्कुरो निर्वृत्तस्तेनैव फलपुष्पादयोऽपि ॥

व्यासभाष्यम्

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति ।

 दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात्, नन्दीश्वरवत्, नहुषवद्वेति । क्लेशकर्मविपाकानु-

विवरणम्

 तेन च कर्मणा भोगायुर्निर्वृत्तिर्भवत्येवेत्यवधार्यते । न पुनरन्यस्यायुर्भोगादिनिमित्तस्य पुत्रपशुकामादियागादेः पुत्रायुरादिप्राप्तेर्हेतुत्वं निराक्रियते । इतरथा हि सर्वश्रुतिस्मृतिविप्रकोपः स्यात् । तस्मात्तेनैव कर्मणेति जन्ममात्रमारभ्य कृतकार्यत्वाद्विनिवृत्त्याशङ्कानिषेधमात्रं क्रियते ॥

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रयो विपाका जन्मादयो यस्य स त्रिविपाकोऽभिधीयते । अयमैकभविकः कर्माशय उक्तः एक(एव)- जन्मप्रयोजन एकभविकः ॥

दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी यथा—पुत्रग्रामादिकामयागः । द्विविपाकारम्भी वा भोगायुर्हेतुत्वात् । यथा आयुरादिकामयागः । त्रिविपाकारम्भी वा नन्दीश्वरनहुषवत् ॥

 ननु च नन्दीश्वरनहुषयोर्दृष्टजन्मवेदनीयत्वं त्रिविपाकारम्भित्वं च विरुद्धम् । दृष्टं हि जन्म नन्दीश्वरस्य मनुष्यत्वम् । यत्पुनर्नन्दीश्वरस्य देवत्वं, नहुषस्य चाजगरत्वं तत् द्वयमप्यदृष्टं, न हि मनुष्यत्व एव देवत्वं संवेद्यं नन्दीश्वरस्य, नापि देवत्व एव नहुषस्याजगरत्वं संवेद्यमिति, कथं त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेति ॥

 नैष दोषः । दृश्यमानजातिविशिष्टमेव शरीरं तयोर्जात्यन्तरत्वेन परिणतम् । न च यथाऽन्येषां दृष्टजातिविशिष्टशरीरोपमर्देन जात्यन्तरोपादाननिषेकादिनिमित्तापेक्षया जात्यन्तरप्राप्तिः, तथा नन्दीश्वरनहुषयोः । तस्मात् त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेत्युदाहृतम् ॥

 तत्र त्रिविधः कर्मराशिर्दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । दृष्टजन्मवेदनीयस्त्वनियतविपाकः कदाचिद्भोगहेतुरित्येकविपाकः । कदाचिद्भोगायुर्हेतुत्वात् द्विविपाकः । कदाचित् जात्यायुर्भोगहेतुत्वात् त्रिविपाको नन्दीश्वरनहुषयोरिव ॥

व्यासभाष्यम्

 भवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाः, ताश्चानादिकालीना इति ।

 यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च ।

विवरणम्

 अदृष्टजन्मवेदनीयस्तु द्विविधो नियतविपाकश्चानियतविपाकश्च । नियतविपाकस्तु प्रदर्शितः तस्माज्जन्मप्रायणान्तरे कृत इत्यादिना । यस्त्वनियतविपाकः स त्रिविधो वक्ष्यते ॥

 इदानीं तु कर्मविपाकजनितो वासनाराशिरपर आख्यायते—क्लेशकर्मविपाकानुभवनिर्वर्तिताभिः क्लेशानुभवश्च कर्मानुभवश्च विपाकानुभवश्च क्लेशकर्मविपाकानुभवाः, तैर्निर्वर्तिताभिः वासनाभिः संस्कारैः अनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव पटकुड्यादिवत् सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततं व्याप्तम् ॥

 अथैकैकस्मिन् जन्मनि अनेकभवपूर्विका वासनाः कर्मणि विपाके च तदङ्गीभावेन व्याप्रियन्ते । न हि वासनायाः कर्मविपाकानङ्गभावे सति जातमात्रस्य पृषदंशदारकस्य वृषयुवानं प्रति स्फुरितपरिकोपस्यावस्कन्दनं जाघटीति । न च सकृदनुभववासनामात्रतया तेन शक्यं भवितुम् ॥

यस्त्वयं कर्माशयः यस्त्वयं जन्मप्रायणान्तरे कृतोऽविरुद्धजन्मदेशनिमित्तः प्रधानोपसर्जनीभावेन त्रिविपाकारम्भी एष एवैकभविक उक्तः । न दृष्टजन्मवेदनीयः, नाप्यनियतविपक्तिरदृष्टजन्मवेदनीयः, नापि च वासनाः ॥

 तासां तावत्स्वरूपमाह—ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीनाः, संसारस्य क्लेशकर्मविपाकानुभवरूपस्यानादित्वात् ॥

 यस्त्वसावेकभविकः कर्माशयः पूर्वोक्तस्तस्यापवाद उच्यते एकदेशस्य । कथं ? स नियतविपाकश्चानियतविपाकश्च । कोऽसौ नियतविपाकः ? यः प्रायणाभिव्यक्तः कार्यमारभते । स एव चैकभविकः ॥  यस्तु विरुद्धजन्मदेशकालनिमित्तः सोऽदृष्टजन्मवेदनीयत्वसामान्ये सत्यप्यनियतविपाकः । कस्मात् ? नियतविपाकेन विरोधात् । न—चायमेकभविकः, विरोधादेव । यत्त्वस्यैकभविकत्वमुक्तं, यस्त्वसावेकभविकः कर्माशय इति, तददृष्टजन्मवेदनीयत्वसामान्येन ॥

 ननु च यद्येवं जन्मप्रायणान्तरे कृतः पुण्यपापकर्माशयः प्रचयविचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः एकप्रघट्टेन सम्मूर्छित एकजन्म करोतीत्येवमादिनियमो विरुध्येत । कुतः ? प्रायणस्य सर्वपूर्वकर्माभिव्यञ्जकत्वात्, आशयाधारोपमर्देन चाशयान्तरोत्पत्तेः, मानुष्यकाशयाधारे पूर्वं दैवतैर्यग्योनाशयानां समवस्थानं, तदाधारोपमर्दनकाले च प्रायणे साधारणे सर्वकर्माभिव्यक्तिकारणे दैवतैर्यग्योनाशयानां कस्यचिदेवाभिव्यक्तिर्नेतरेषामिति नास्ति हेतुः । न हि स्वगोचरापन्नं व्यङ्ग्यमेकदेशपरित्यागेनाभिव्यनक्ति प्रदीपः ॥

 अत्रोच्यते—नैतद्युक्तं, कर्मानर्थक्यप्रसङ्गात् । बहुप्रकाराणि हि कर्माणि परस्परविरुद्धानि क्रियन्ते । यो हि स्वर्गार्थं कर्म कृतवान् स एव पशुग्रामाद्यर्थं कर्मानुष्ठाय पुनर्ब्रह्महत्यां वा स्थावरादिप्राप्यर्थं वा बलवत्कर्मानुतिष्ठेत् । तत्र नरकस्थावरादिप्राप्तस्य न हि पशुग्रामादिलाभसंभवः । ततश्च तत्कर्मणामानर्थक्यं प्रसज्येत ॥

 अथ तत्रापि ग्रामादिलाभसुखं भवतीति चेत्—न हि ग्रामकाम इत्युक्ते ग्रामसुखत्वमभिप्रेतम् । न हि ग्रामसुखं प्राप्तो ग्रामं प्राप्तवान् ॥

 किञ्च—सर्वशास्त्रविप्रकोपश्च स्यात् । अदृष्टानां च स्वर्गनरकादीनां सुखदुःखमात्रप्रसङ्गः । ‘ततः शेषेण’ इति शेषसद्भावज्ञापनश्रुतिस्मृतयो बाध्येरन् । तस्मान्न सर्वं कर्म प्रायणेऽभिव्यज्यते । अत्यन्तविरुद्धानां कर्मणामानर्थक्यप्राप्तेः । कर्मशास्त्रानर्थक्ये च मोक्षशास्त्रेऽप्यनाश्वासप्रसङ्गः ॥

 अभिव्यञ्जकानामपि कस्यचिदभिव्यञ्जकत्वं कस्यचिन्नेति दृश्यते व्यभिचारः । यथा चक्षुषो रूपाभिव्यञ्जकत्वेऽपि चैत्रोलूकचक्षुषोरहोरात्रयोरितरेतरव्यभिचारः । आलोकस्य च समाने सर्वचक्षुस्सहकारित्वे, नोलूकचक्षुस्सहकारित्वम् । एकस्मिंश्च स्त्र्यादिपिण्डे सुखदुःखमोहानां सर्वेषामभिव्यक्तिनिमित्तेऽपि कस्यचिदेवाभिव्यक्तिः ॥

 तत्र कर्माद्यपेक्षया विरोधाददोष इति चेत्—इहापि विरोधादनभिव्यक्तिः सर्वकर्मणाम् । न चापि बीजाधारे क्षेत्रे उपमर्द्यमाने जलादिनिमित्तसंयोगे सत्यपि तद्गतानां बीजानां विरुद्धजातीयानामङ्कुरादिकार्यारम्भित्वम् । एवं मानुष्यकालीनाशयाधारेऽप्युपमर्द्यमाने, न विरुद्धजातीयदेवतैर्यग्योनाशयानां सर्वेषां युगपद्वृत्तिलाभः ॥

 न च प्रायणमेव कर्मणामभिव्यञ्जकम् । दृष्टजन्मवेदनीयानां भोगार्थानां दर्शनात् । येषां प्रायणमेवाभिव्यञ्जकं तेषां सर्वेषां भवत्वभिव्यक्तिरिति चेत्—न—विरोधाद्दैवतैर्यग्योनमानुष्यकाशयानाम् ॥

 प्रायणानां च भूतभविष्यत्कालविशेषैर्वि(षावि)शेषोपपत्तेर्न सर्वकर्माभिव्यञ्जकत्वम् । प्रायणविशेषश्रवणाच्च प्रायणभेदः यथा—‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कळेबरम्’ इति स्मरणविशेषभेदात् प्रायणभेदः । तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणस्य । अन्यथा विशेषणानर्थक्यप्रसङ्गात् ॥

 न च स्मरणादिविशेषणेन प्रकृतस्यान्यथात्वं नाशो वा स्यात् । तन्नाशान्यथात्वकरणे हि स्मरणस्य प्रकृतकर्मसहकारित्वं न स्यात् । स्वतन्त्रं हि स्मरणं स्यात् । तथा चानुष्ठितकर्मनैरर्थक्यं भवेत् ॥

 किंच—कललाद्यवस्थासु मृतानां मोक्षप्रसङ्गः । कर्मानारम्भात् । तासां फलत्ववत्कर्मत्वमपीति चेत्—न—करणाव्यूहात् । करणेषु हि व्यूहितेषु कर्मणां वृत्तिलाभः फलत्वं च । न तदा तद्व्यूह उपपद्यते ॥

 स्वप्नवदिति चेन्न । तत्रापि कर्मानभ्युपगमात् । श्रुतिश्च ‘स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवति’ इति कर्मणा स्वप्नदर्शनजेनासम्बन्धं दर्शयति । न कश्चित्स्वप्नैरपराधवानस्ति । ब्रह्महत्यादिकरणदर्शनात् । अथ स्कन्नप्रायश्चित्तादिदर्शनान्नेति चेन्न, रेतस्स्कन्दननिमित्तत्वात्प्रायश्चित्तस्य ॥

 तस्माद्यद्यपि स्वप्नाद्यवस्थायामिव कललाद्यवस्थासु फलमभ्युपगम्यते, तथाऽपि करणव्यापाराभावात् स्वप्नावस्थावदेव फलमात्रं तत्, न कर्मकर्तृत्वमिति मोक्षप्रसङ्ग एव गर्भप्रसृतानामापतित इति ॥

व्यासभाष्यम्

 तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात् ? यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः—कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्वस्य नाशो यथा—शुक्लकर्मोदयादिहैव नाशः कृष्णस्य ।

विवरणम्

 तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणानां, तेषां च विशेषोपपत्तेरित्यत इदमुच्यते—तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो योऽसौ ‘जन्मप्रायणान्तरे कृत’ इत्येवमादिभाष्येण त्रिविपाकारम्भित्वनियम उक्तः, न तु अदृष्टजन्मवेदनीयस्य अनियतविपाकस्य । कस्मात् ? यस्त्वदृष्टजन्मवेदनीयः अनियतविपाकस्तस्य त्रयी गतिः ॥

 कथम् ? कृतस्याविपक्वस्य विनाशः नाशकालमप्राप्तस्यैव नाशः । यथा—प्रायश्चित्तादिना प्रतिषिद्धस्य कृतस्य नाशः ॥

 प्रधानकर्मण्यावापगमनं प्रधानकर्मणि नियतवेदनीये आवापापत्तिः प्रधानकर्मफलातिरस्कारेण स्वयमपि मन्दमन्दं फलं मध्यमनुप्रविश्य प्रयच्छति । यथा—सकलेषु तण्डुलेषु विपच्यमानेषु असकला अपि तण्डुलकणा उप्ता अल्पीयांसमर्थं साधयन्त्येव । नियतविपाकप्रधानकर्माभिभूतस्य वाऽप्यवस्थानं नियतविपाकं यत्प्रधानकर्म प्रारब्धफलं तेनाभिभूतस्य न्यक्कृतस्य विरुद्धदेशकालनिमित्तविपाकत्वादवस्थानम् । यथा—विजिगीषमाणयोरन्यतरेण प्रवृत्तराज्येनाभिभूतस्येतरस्यावस्थानं देशकालनिमित्तापेक्षया ॥

 तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव तपस्स्वाध्याययोगादिलक्षणस्य शुद्धस्योदयात् प्रायश्चित्तादिलक्षणस्य च, कृष्णस्य अशुद्धिरूपस्य हिंसादिलक्षणस्य प्रागेव वृत्तिलाभात् नाशः । इहैवेति त्वविवक्षितम् । जन्मान्तरेऽपि प्राग्वृत्तिलाभान्नाशोपपत्तेः । यथा कौनख्यादिनिमित्तपापविशेषाणां कौनख्यादिचिह्नैरवगम्य प्रायश्चित्तेन नाशः क्रियते ॥

व्यासभाष्यम्

 यत्रेदमुक्तम्—“द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते” ।

 प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तम्—“स्यात्स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम् । कस्मात् ? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति ।

[ विवरणम् ]

 तदेतत्तन्त्रान्तरप्रसिद्धेनोदाहरणेन व्याचष्टे—यत्रेदमुक्तं द्वे द्वे ह वै कर्मणी शुक्लकृष्णे जन्मनि जन्मनि साधकस्य पुरुषस्याधिकृतस्य । एको राशिः स्वाध्यायादिपुण्येन कृतः पुण्यकृतः अपहन्तीतरमपुण्येन कृतं राशिम् । अथ वा पुण्यकृतः पुरुषस्य शुक्लकर्मराशिः कृष्णकर्मराशिमपहन्ति । तदिच्छस्व तस्मात् स्वच्छकर्माणि स्वकीयानि कर्माणि शुक्लानि सुकृतानि कर्तुम् । कुतः ? यतः इहैव अत्रैव तव शर्म सुखं शान्तिं कवयो वेदयन्ते कर्मविपाकविभागज्ञाः ज्ञापयन्ति ॥

 प्रधानकर्मण्यावापगमनमुदाहरणेन प्रदर्श्यते—स्वल्पसङ्करः अल्पीयान्, दोषावकरः । कुतः ? सपरिहारः परिहारसहितः । परिहारमपेक्षते, न तु परिहृतः । परिहारशक्त्युपायविज्ञानसमानाश्रय इत्यर्थः । सप्रत्यवमर्षः सप्रत्यवेक्षणः । कथमकार्यं मया क्रियते कदा नु निस्तरिष्याम्येतत् न पुनः करिष्यामीत्यापदि प्रवृत्तस्याकार्यं कुर्वतः प्राणस्थित्यादिनिमित्तम् ॥

कुशलस्य कर्मफलदोषपरिहारादिविभागविशारदस्य विदुषः । नायमपकर्षाय नायं स्वल्पः संकरः पुण्यफलात्प्रवृत्ताद्बहुतरादपक्रष्टुं, अपकृष्य च स्वकार्ये नियोक्तुं पर्याप्तः । अथ वा, कुशलस्य कर्मण एव नायमपकर्षाय पर्याप्तः । कस्मात् ? कुशलं हि मे । साधक एवं मन्यते । शुभं यस्मान्मम बह्वन्यदस्ति यत्रायं यस्मिन् बहुनि शुभे अयं सङ्कर आवापगतः स्वर्गेऽप्यपकर्षमल्पं करिष्यतीति ॥
व्यासभाष्यम्

 नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम् । कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न तु अदृष्टजन्मवेदनीयस्यानियतविपाकस्य ।  यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति । न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥

विवरणम्

नियतविपाकप्रधानकर्मभिभूतस्य वाऽप्यवस्थानम् । कथमिति दुष्टाभिप्रायः प्रश्नः । कथं ? प्रवृत्तराज्येनापरस्याप्रवृत्तराज्यस्याभिभवे युक्तो निमित्तभेदेन राज्यप्रवृत्तेः । इह तु निमित्तमभिव्यञ्जकं मरणं सर्वेषां कर्मणां तुल्यं तस्मिंस्तु निमित्ते सति सर्वेषां कर्मणां वृत्तिलाभो युक्त इति प्रधानकर्माभिभवो न युक्त इतरस्येति मन्यते । ततश्चावापगमनमेवास्त्विति ॥

 अत्रोच्यते—तत्रादृष्टजन्मवेदनीयस्यैव अविरुद्धदेशकालविपाकादिनिमित्तस्य नियतविपाकस्य पुण्यापुण्यरूपस्यानेकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् । न तु दृष्टजन्मवेदनीयस्य पुत्रग्रामादिविषयस्य, अनियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य यथाकृतव्याख्यानस्य ॥

 यत्त्वदृष्टजन्मवेदनीयमनियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत उदासीत, यावत्समानमविरुद्धं तुल्यजातीयमभिव्यञ्जकं निमित्तं कर्म । समानजातीयं हि कर्म विपच्यमानमेतदभिमुखं करोति ॥

 तद्विपाकस्यैव तस्यानियतविपाकस्य कर्मणो विपाकस्यैव । देशकालनिमित्तानवधारणात्कस्मिन्वा देशे कस्मिन्वा निमित्ते कस्मिन्काले वा तत्कर्म

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →