हृदये चित्तसंवित् ॥ ३४ ॥
कूर्मनाड्यां स्थैर्यम् । कूपस्याधस्तादुरसि कूर्मा नाम नाडी । तस्यां कृतसंयमः स्थिरपदं लभते चित्तस्थैर्यं लभते । यथा सर्पो गोधा वा धारणादुरसा अत्यन्तं स्थिरीभवति ॥ ३१ ॥
मूर्धज्योतिषि सिद्धदर्शनम् । शिरःकपालेऽन्तश्छिद्रं प्रभास्वरत्वात् ज्योतिः इत्युच्यते । तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनं भवति ॥ ३२ ॥
प्रातिभाद्वा सर्वम् । आत्मनि संयमं कुर्वतः, ईश्वरं वा अत्यर्थं प्रणिदधानस्य योगिनः प्रातिभं तारकं स्वयमुत्थितं मानसं ज्ञानम्, तत् वक्ष्यमाणलक्षणस्य विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथा उदये प्रभा औषसी किञ्चिदुन्मीलन्ती लोहितायमाना भास्करस्य उज्जिगमिषतः पूर्वरूपम् । तस्माद्वा सर्वं विजानन्ति योगिनः प्रातिभस्य ज्ञानस्योत्पादादिति ॥ ३३ ॥
यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, तत्र विज्ञानं, तस्मिन् संयमाच्चित्तसंवित् ॥ ३४ ॥