साधनपादः · २.४०

 शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ४० ॥

विवरणम्

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । ब्रह्मचर्यलाभादप्रतिघान् गुणानुत्कर्षयति । अप्रतिबन्धानात्मन उपपादयति । सर्वशुभार्थप्रवृत्तिष्वप्रतिबद्धवीर्यो भवति । न केनचित् प्रतिघातेन विवध्यत इत्यर्थः ॥

 किञ्च—विनेयेषु शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथा भगवान् व्यासः सं(ज्ञये)जज्ञे ॥ ३८ ॥

 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । जन्मनः कथंभावबोधोऽस्य भवति ।

 किंस्विदिदं(सम)मम जन्मनः किं सतत्त्वम्, कथं स्विदिदं केन प्रकारेण स्वित्, किं भविष्यामः प्राणो[प्रायणो]त्तरकालं किं वा न भविष्यामः, भविष्यन्तो वा के भविष्यामः, कथं भविष्यामः, इत्येवम् अस्य पूर्वापरान्तमध्येषु भूतभविष्यद्वर्तमानेषु आत्मजिज्ञासा सम्यग्दर्शनस्य पूर्वरूपं स्वरूपेणोपावर्तते ॥ बाह्यपरिग्रहासङ्गाभावात् स्वात्मविषयालोचनमयत्नेन प्रवर्तते । नान्येषां परिग्रहसन्तापवितानिततृषां यत्नेनापि जायते ॥ ३९ ॥

व्यासभाष्यम्

 स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च, परैरसंसर्गः । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परका(की)यैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥

 किञ्च—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →