कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥
व्यासभाष्यम्
जिह्वाया अधस्तात्तन्तुः, तन्तोरधस्तात् कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात् क्षुत्पिपासे न प्रतिबाधेते ॥ ३० ॥