शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
स न प्रमाणोपारोही,
द्विचन्द्रोऽपि पात्रादिषु द्रष्टव्यः । द्वौ चन्द्रौ यस्मिन् दर्शन इति बहुव्रीहिः । एकचन्द्रशब्दस्य अद्विगुत्वादेव चोद्याभावः । सा च पञ्चपर्वा अविद्या; सा विपर्ययवृत्तिरविद्या पञ्च पर्वाणि अस्या इति ॥
कानि पुनस्तानीत्याह-अविद्यास्मितेत्यादि । एत एव अविद्यादयः क्लेशाः स्वसंज्ञाभिः स्वाभिः शास्त्रान्तरप्रसिद्धाभिस्तमआदिसंज्ञाभिः विशिष्टाः चित्तमलप्रसङ्गेनाभिधायिष्यन्ते द्वितीयपादे ॥ ८ ॥
इदानीं विकल्पं दर्शयति-शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ शब्दस्य ज्ञानं शब्दज्ञानम्, वाच्यवाचकनियमेन साध्वसाधुशब्दज्ञानं, तदनुपतितुं शीलमस्येति शब्दज्ञानानुपाती । वस्तुशून्य इति ॥ यथावाच्यार्थशून्यः, यस्य शब्दस्य ज्ञानमनुपतति तस्य शब्दस्य यथाभूताभिधेयेन शून्य इति यावत् । यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्पः ॥
तस्य हि शब्दज्ञानानुपातित्वादागमान्तःपातित्वं प्राप्तम्, अत आह—स न प्रमाणोपारोहीति ॥ न प्रमाणान्तःपाती वस्तुशून्यत्वात् । न ह्यागमस्य शब्दज्ञानानुपातित्वेऽपि वस्तुशून्यता । यतः शब्दार्थविषया वृत्तिरागमः, विकल्पस्तु वस्तुशून्यत्वान्न प्रमाणम् ॥
किञ्च-वक्तृश्रोत्रोश्च तुल्यो विकल्पः । द्वयोरपि शब्दादुच्चरिताद्विकल्प्यैव हि बुद्धिर्जायते । न तथा आगमे । श्रोतुरेव ह्यागमः । वक्ता तु दृष्टानुमितार्थः ॥
किञ्च-निर्वितर्कसमापन्नस्य विकल्पो निवर्तते नागमः । तस्मान्न प्रमाणोपारोही ॥
व्यासभाष्यम्
न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा---चैतन्यं पुरुषस्य स्वरूपम्” इति । यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते? भवति च व्यपदेशे वृत्तिः,'यथा - चैत्रस्य गौः?' इति |
यद्येवं वस्तुशून्यत्वाद्विपर्ययान्त:पातित्वं प्राप्तम्, अत आह-न विपर्ययोपारोहीति । कुतः ? शब्दज्ञानानुपातित्वात् । न हि वस्तुशून्यत्वेऽपि विपर्ययः शब्दज्ञानमपेक्षते । यतः "विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्" इत्युक्तम् ।प्रमाणपरिच्छेद्यप्रत्ययं प्रत्यतिगुणभूतत्वाच्च विकल्पस्य। न हि यथा सर्वेषां विपर्ययो विरोधाद्वाध्यते, तथा विकल्पः । प्रमाणप्रत्ययगुणभावादेव ॥
तस्माद्वस्तुशून्यत्वग्रहणेन शब्दज्ञानानुपातित्वग्रहणेन च परस्परसंबन्धेन प्रमाणविपर्ययाभ्यां प्रमाणविपर्ययगन्धमात्रानुलिप्तमपि भिन्नं विकल्पाख्यं वृत्त्यन्तरं दर्शितम् ! तद्गन्धानुलेपनादेव तदानन्तर्येण विकल्पस्यारम्भः ! नापि स्मृतित्वम् । स्मृतेः केवलानुभूतास्पदत्वातू॥
अथ न त्वीदृशी चित्तवृत्तिः प्रसिद्धा । न हि स्वभावं किंचिद्वृत्तिनिमित्तमिति चेदाह-वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्य[मात्र]निबन्धनो व्यवहारो दृश्यते इति । मात्रग्रहणं शब्दज्ञानव्यतिरिक्तकारणाभावख्यापनार्थम् । क्व दृश्यत इति चेदाह-तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । चितिशक्तिरपरिणामिनीत्युक्तत्वाचैतन्यमेव पुरुषः, तदेव च स्वरूपमिति व्यतिरेकाभावाद्वयतिरेकोपनिबन्धनो व्यपदेशो न स्यात्-'पुरुषस्य चैतन्यम्' इति । तथा चेममेवार्थमुपाश्रित्य शब्दविदा वार्तिककारेणोक्तम्-‘सिद्धं तु व्यपदेशिवद्भावात्' इति । तथैवेहापि यथा सति व्यतिरेके चैत्रस्य गौरिति तद्वदेव चैतन्यं पुरुषस्येति । न हि यथा गोरन्यश्चैत्रो व्यपदेशहेतुः, तथा चितेरर्थान्तरं पुरुषोऽस्ति, येन व्यपदिश्येत । नापि चितिः पुरुषादर्थान्तरं व्यपदिश्येत । तथाऽपि व्यतिरेकसंबन्धविषये भवति "चैतन्यं पुरुषस्य स्वरूपम्" इति व्यपदेशे वृत्तिः ॥
तथा, प्रतिषिद्धवस्तुधर्मो[र्मो] निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथा, अनुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः। तस्मात् विकल्पितः स धर्मः, तेन चास्ति व्यवहार इति ॥ ९ ॥
प्रतिषिद्धवस्तुधर्मेति । वस्तुनो धर्मो वस्तुधर्मः । प्रतिषिद्धो वस्तुधर्मोऽस्येति प्रतिषिद्धवस्तुधर्मा ।। "धर्मादनिच् केवलात्" इति वचनात् समासान्तश्चिन्त्यसमाधिः । वस्तुशब्देन सत्त्वादिगुणा उच्यन्ते, तेषां धर्माः प्रतिषिद्धा अस्येति ।।
न हि प्रतिषिद्धाः सत्त्वादिधर्माः प्रतिषिद्धत्वादेवास्य पुरुषस्य संबन्धिनो भवन्ति । येन ते पुरुषेण अस्येति व्यपदिश्येरन् । तदभावमात्रमेव तु तत्रार्थः । तथापि यथा चित्रा गावोऽस्येति व्यपदेशे बुद्धिः तथा प्रतिषिद्धा वस्तुधर्मा अस्येति व्यपदेशे बुद्धिः ॥
निर्गता क्रिया अस्मादित्यत्रापि निर्गतिरपायः । अपायश्च सम्बन्धपूर्वः । यथा चैत्रानिर्गता क्रिया । न चैवं पुरुषे क्रियाया असम्भवानिर्गतिः पुरुषात् सम्भवति । तथाऽपि ‘निष्क्रियः पुरुष' इति व्यपदेशे भवति वृत्तिः ॥
तथाऽनुत्पत्तिधर्मा पुरुष इति ॥ न विद्यते उत्पत्तिधर्मोऽस्येति पूर्ववदेव । अत्र स्वयमेवार्थमाचष्टे भाष्यकारः---उत्पत्तिधर्मस्याभाव(ज्ञान)मात्रमव(मत्र)गम्यते । यथा निर्गुणो निरञ्जनो निष्कल इत्येवमादीन्यप्युदाहरणानि ॥आत्मविषयानेकोदाहरणप्रदर्शनमात्मतत्त्वनिर्धारणार्थत्वात् ॥
तिष्ठति बाण इति लोकप्रसिद्धोदाहरणप्रतिपादनमप्रसिद्धयाशङ्कानिवृत्त्यर्थम् ॥ तिष्ठतीति गतिनिवृत्तिर्गत्यभावः । न चाभावस्य कालत्रययोगो भवति । नापि बाणस्य क्रियानिरपेक्षस्य द्रव्यस्य । नापि चाभावेन गतिनिवृत्त्या बाणस्य वस्तुनः संबन्धः । तिष्ठति बाणः [स्थास्यति स्थितः] इत्येवं त्रीण्युदाहरणानि ॥