विभूतिपादः · ३.१४

  शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥

विवरणम्

 [घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ॥ ]

 तथा घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि मृदादेः धर्मान्तरं पिण्डादिकं अवस्था । धर्मी पिण्डकपालादिरूपावस्थामासीदति ।

 धर्मस्यापि घटादेः लक्षणान्तरं अतीतादिकं अवस्था । स एव हि घटो धर्मोऽतीतानागतवर्तमानावस्थामुपारोहति ॥

 तत एक एव परिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि मृदः अन्येष्वपि शरीरेन्द्रियादिषु योज्यम् । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव धर्मिणः परिणामः सर्वान् धर्मलक्षणावस्थापरिणामान् विशेषानभिप्लवते । कुतः ? येन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति धर्मी परिणाम एवेति शक्यं प्रतिपत्तुम् ॥ १३ ॥

 कः पुनरसौ धर्मी ? यस्मिन् अवस्थिते धर्मान्तरविरामे धर्मान्तरोदयः परिणाम इति । तत्र शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । शान्तोदितान् अव्यपदेश्यांश्च धर्माननुपतितुं शीलं यस्य सोऽन्वयी भिन्नेष्वभिन्नात्मा धर्मीति व्यपदिश्यते । धर्मः नाम योग्यतावच्छिन्ना शक्नोति रशनाकुण्डलादिभावमापत्तुमिति या सुवर्णस्य धर्मिणः कुण्डलत्वादिका शक्तिः स एव धर्मः ॥

[ भाष्यम् ]

 योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भावः एकस्य अन्यश्चान्यश्च । दृष्टः तत्र वर्तमानः स्वं व्यापारं अनुभवन् धर्मीं धर्मान्तरेभ्यः शान्तेभ्यश्च अव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति, तदा धर्मिस्वरूपमात्रत्वात् कोऽसौ केन भिद्येत ॥

 ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारम् उपरताः । सव्यापाराः उदिताः । ते च अनागतलक्षणस्य समनन्तराः । वर्तमानस्य अनन्तरा अतीताः । किमर्थं अतीतस्य अनन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमाभावात् ।

विवरणम्

 स च अव्यक्तोऽपि सन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । यथा देशान्तरे कालान्तरे च ताटङ्कादिकं फलं कनकपिण्डः प्रसूयते । तत्फलप्रसवभेददर्शनेनान्यानन्यानपि प्रकारानयं प्रसवितुं विभवतीति तस्मिन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । एकस्य धर्मिणः अन्यश्चान्यश्च धर्म इत्यननैकस्य धर्मिणो धर्मासंख्यत्वमाह ॥

तत्र यो दृष्टः स वर्तमानः स्वं व्यापारमुदकाहरणादिकं अनुभवन् धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते ॥

यदा तु सामान्येन धर्मिरूपेण समन्वागतो भवति, अथ तदा धर्मिस्वरूपमात्रत्वात् धर्मिस्वरूपात्मभूतत्वात् कोऽसौ विशेषतः केन वा भिद्येत । व्यापाराधिरूढरूपाणामेव भेदो, न कारणसमनुगमनिरीक्षितात्मनामित्यर्थः ॥

 के पुनः शान्ता उदिता अव्यपदेश्या वा ? ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारमुपरताः । सव्यापारा उदिताः । ते चानागतलक्षणस्य समनन्तराः । तथा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति । न सन्तीत्यर्थ: । पूर्वपश्चिमाभावात् । यो यस्य पश्चाद्भवति स तस्य

व्यासभाष्यम्

 यथा अनागतवर्तमानयोः पूर्वपश्चिमता, नैवं अतीतस्य । तस्मात् नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्य इति ॥

 अथ अव्यपदेश्याः के ?

 सर्वं सर्वात्मकम् इति । तत्रोक्तम्—जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु इत्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति ॥

विवरणम्

पश्चिमोऽनन्तरः । इतरश्च तदपेक्षया पूर्वः । तदिह पश्चिमाभावात् एष स्वयमपि पूर्वो न भवतीति पूर्वपश्चिमाभावादतीतस्यानन्तरा न सन्ति । यथा अनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मात् न[नाती]तस्यास्ति समनन्तरः ॥  यस्त्वयं पाठः । तदनागत एव समनन्तरीभवति वर्तमानस्य इति, न तस्य प्रकृतेन सम्बन्धः । तस्मात् तदनागत एव समनन्तरो भवत्यतीतस्य इत्ययमेव पाठः । अर्थोपपत्तेः । कथम् ? यदा व्युत्थानसंस्कारो निरोधसंस्कारेण आद्योऽभिभूयते, तदा वर्तमानमध्वानं हित्वा व्युत्थानसंस्कारोऽतीतमध्वानमुपसम्पद्य पुनरनागतः सन् वर्तमानीभवतीत्यसमनन्तरोऽप्यनागत एव समनन्तरीभवत्यतीतस्येत्युच्यते । अतीतानागतयोर्लक्षणयोर्धर्माणां धर्मिस्वरूपमात्राविशेषात् ॥

 अथ अव्यपदेश्याः के? तदव्यपदेश्याभिप्रदर्शनार्थमाह—सर्वं सर्वात्मकं इति । कथम् ? तत्रोक्तम्—जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । यथा रस एक एव इक्षुशृङ्गिबेरकादिषु मधुरकटुकत्वादि वैश्वरूप्यं प्रतिपद्यते । तथा, रूपस्य शुक्लकृष्णत्वादिविचित्ररूपत्वम् । एवं गन्धादिष्वपि । तथा स्थावराणां जङ्गमेषु रसादिवैश्वरूप्यम् । स्थावराणामुपयुक्तानां जङ्गमेषु रसलोहितादिविश्वभेदः । तथा जङ्गमानां स्थावरेषु उपयुक्तानाम् वृक्षायुर्वेदप्रसिद्धं रसादिवैश्वरूप्यम् ॥

 एवं स्थावराणां स्थावरेषु, जङ्गमानां च जङ्गमेषु, इत्येवं जात्यनुच्छेदेन सत्त्वाद्यविनाशेन सर्वं सर्वात्मकम् । अङ्गुलिशिखरे लोकत्रयमप्यस्ति । तथा च ‘अङ्गुष्ठादसृजत् ब्रह्मा रोमकूपेभ्यः’ इत्यादिश्रुतिस्मृतिशतप्रस्थानम् ॥

[ भाष्यम् ]

 देशकालाकारनिमित्तापबन्धात् न खलु समानकालम् आत्मनाम् अभिव्यक्तिः इति । य एतेषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणः अन्यत् कथं भोक्तृत्वेन अधिक्रियेत ? । स्मृत्यभावश्च, नान्यदृष्टस्य स्मरणम् अन्यस्यास्ति इति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी, यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मात् नेदं धर्ममात्रं निरन्वयम् इति ॥ १४ ॥

विवरणम्

 यदि सर्वं सर्वात्मकं, तदा सर्वं सर्वत्रोपलभ्येत, सम्मतविप्रयोगजन्मा च शोको मा प्र(ति)वर्तिष्टेत्यादेरुत्तरं पठति—देशकालाकारनिमित्तापबन्धात् देशादीनामपबन्धः अवबन्धः तस्मात्, न समानकालं आत्मनां सर्ववस्तूनां अभिव्यक्तिः । कस्य चित् क्वचिदेव देशे काले च केन चिदेवाकारेण तनुभृतां च धर्मादिनिमित्ताभिसमीक्षया क्वचिदेवाभिव्यक्तिः, यथा राहुप्रभृतीनाम् । एतेनैव सम्मतविप्रयोगनिमित्तशोकाद्युपपत्तिः । अत एकैकस्मिन् अतिलङ्घितसंख्यागोचरत्वात् धर्मा न शक्या व्यपदेष्टुम् ॥

 य एतेषु शान्तोदिताव्यपदेश्येषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सत्त्वादिशब्दादिरूपेण सोऽन्वयी धर्मी । यस्य तु वादिनः धर्ममात्रमेवेदं निरन्वयं बाह्यमाध्यात्मिकं च, यस्य च ज्ञानमात्रमेव, तस्य धर्माणां क्षणप्रणाशित्वादतीतानागतवर्तमानपथारोहिणां समानकालानां च भोक्तृभोग्यत्वादिसंबन्धानुपपत्तेः भोगाभावः ॥

 सम्बन्धाभावं दर्शयति—कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् विज्ञानमकर्तृ भविष्यत् कथं भोक्तृत्वेनाधिक्रियेत । कर्तुश्च फलाभिप्रवृत्तेः फलेन संबन्धो युज्यते । अन्यः कर्ता फलेन चान्यः सम्बध्यत इति विरुध्यते ॥

 स्मृत्यभावश्च । कृतकरणीयादिविषयस्मृत्यभावश्च । अन्यदृष्टस्य स्मरणमन्यस्य नास्तीति । न हि चैत्रदृष्टस्य वसुमित्रः स्मरति । [वस्तु]प्रत्यभिज्ञानाच्च, यस्मात् तदेवेदमिति वस्तु प्रत्यभिजानीमः, तस्मात् स्थितोऽन्वयी धर्मी धर्मान्यथात्वं धर्मैरन्यथात्वं अभ्युपगतः प्रतिपन्नः । न तु स्वरूपेणान्यथात्वम् । यथा रुचकादिभेदानुगतमपि कनकमेवेति प्रत्यभिजानीमः । तस्मात् नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →