॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥
तेषां तनूकरणानुजन्मा पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः समाप्ताधिकारा प्रज्ञा प्रतिप्रसवाय [कल्पिष्यते] संसाराभिमुखतायै पुनर्न कल्पिष्यते ॥
यद्यपि शास्त्राचार्योपदेशेन योगाङ्गानुष्ठानादृतेऽपि सत्त्वपुरुषान्यतामात्रख्यातिरुपजायते, तथाऽपि न क्लेशाधर्मादीनतीवातिरस्कृत्य सा जायेतेति पुनः पुनः क्लेशादिभिः परामृश्यत इत्येतद्दर्शयति पुनः क्लेशैरपरामृष्टेत्यनेन ॥ २ ॥
के ते क्लेशाः स्वरूपेण, कियन्तो वा संख्यया इति संख्यास्वरूपप्रतिपादनार्थं सूत्रं प्रणीयते—अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः एषामेकैकस्य लक्षणं सूत्रैरेव व्याख्यायिष्यत इति [न] व्याख्येयत्वे यत्नः क्रियते, व्याख्येयं त्वेतावदेव ॥
यथा प्रमाणविपर्ययविकल्पादयः परस्परभिन्नाः, न तथा क्लेशानां विपर्ययाद्भेदः । किन्तर्हि ? विपर्ययस्यैवैते भेदा इति । कस्मात् ? विपर्ययभावभावित्वादित्येतदाह—पञ्च विपर्यया इत्यर्थः ॥
ननु च यथा वृत्तिभेदव्याख्याने प्रमाणवृत्तेः "प्रत्यक्षानुमानागमाः प्रमाणानि" इति त्रिधा भेदस्तत्रैव व्याख्यातः, तथा कस्मात्तत्रैवास्य विपर्ययस्यापि भेदः पञ्चधा नोपव्याख्यातः ? चित्तवृत्तिरेव च विपर्यय इत्युक्तम् । तथा चोदाहृतं, "सद्विषयेणैकचन्द्रदर्शनेन द्विचन्द्रदर्शनं बाध्यते इति ॥क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकरणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकञ्चाभिनिर्हरन्तीति ॥ ३ ॥
नैष दोषः—क्लेशानामवृत्तित्वात् । न हि क्लेशाः प्रत्ययमात्राः, प्रत्ययमात्रा हि वृत्तयः । क्लेशास्तु चित्तस्य मलं, यथा चक्षुषस्तिमिरम् । क्लेशमलवियोगे चित्तस्य विपर्ययप्रत्ययाभावात् ॥
यदि हि प्रत्यय एव विपर्ययः, तदा यथा क्लेशनिरोधेऽपि योगिनः स्मृतिप्रमाणप्रत्यया भवन्ति, तथा विपर्ययोऽपि भवेत् । न तु विपर्ययः क्षीणक्लेशानाम् । तस्माच्चक्षुष इव अयथार्थग्रहणनिमित्तं प्रत्ययस्य मलं विपर्यय इत्युच्यते ॥
तत्पुनः प्रत्ययव्यतिरेकेण प्रतिपत्तुमाख्यातुं चाशक्यमिति प्रत्ययेनैवाख्यायते 'विपर्ययो वृत्तिः' इति । तथा च वृत्तयः क्लिष्टाक्लिष्टश्चेति क्लेशेन विशेषिताः । न च वृत्तिभिरेव वृत्तीनां विशेषणं युक्तम् । तथा 'क्लेशहेतुका' इति च व्याख्यातम् । न च वृत्तय एव वृत्तिहेतुका इति युक्तम् ॥
तस्माच्चावृत्तित्वाद्वृत्तिभेदत्वेन न तत्र क्लेशा व्याख्याताः । तथा चोक्तम्—“चित्तमलप्रसङ्गेनाभिधायिष्यन्ते” इति क्लेशानां न वृत्तित्वं, मलत्वमेवेत्यभिप्रायेण । अभेदोपचारेण तु प्रत्ययेन सामानाधिकरण्यं, यथा धूमो मलैरग्निं गर्भादशान्तवृत्तास्तथा ज्ञानमेतेनेति, (?) तथैवात्रापि ॥
प्रत्ययविपरीतत्वमाह—ते स्पन्दमाना इत्यादिना । स्पन्दमानाः प्रत्ययद्वारेणोद्भासमानाः, न हि स्वतस्तेषाञ्चलनमस्ति, वस्त्रादिरागवत् । गुणाधिकारं द्रढयन्ति गुणानामधिकारं प्रवृत्तिं (सं)कर्तव्यत्वं स्थिरीकुर्वन्ति । न हि तेषु परिस्पन्दमानेषु कर्तव्यताशून्यं चित्तं भवति ॥
परिणाममवस्थापयन्ति पुनः पुनः परिणमयन्तीति यावत् । कार्यकरणस्रोत उन्नमयन्ति शरीरस्य करणादीनां चक्षुरादीनां प्रवृत्तिस्रोत उच्छ्रा(व)ययन्ति । कथमित्याह—परस्परानुग्रहतन्त्रीभूत्वा अविद्यादय इतरेतरनिमित्तनैमित्तिकभावेनेति ॥