साधनपादः · २.१७

 द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥

व्यासभाष्यम्

 द्रष्टा बुद्धे प्रतिसंवेदी पुरुषः । दृश्याः बुद्धिसत्त्वोपारूढाः सर्वे धर्माः ।

विवरणम्

 वर्तमानजन्मयियतिषायां हि सम्यग्दर्शनमशक्यविनियोगत्वादनर्थकं स्यात् । मुक्तबाणवत् प्रवृत्तफलत्वाद्वर्तमानदुःखस्य । भविष्यति पुनरप्रवृत्तत्वाद्बीजनिरोध उपकल्पत इति सम्यग्दर्शनार्थवत्त्वम् । स्वविषयो हि सम्यग्दर्शनस्य स इति ॥ १६ ॥

 तदेतच्छास्त्रं चतुर्व्यूहमभिधीयत इत्युक्तम् । एकश्चतुर्षु व्यूहः प्रतिपादितः हेयं दुःखमनागतमिति । इदानीं द्वितीयो व्यूहः तस्य दुःखस्य कारणं, हेतुः प्रतिनिर्दिश्यते ॥

 ननु निर्दिष्टमेव दुःखकारणमिति, तथैवोपसंहृतमन्ते—तस्यैतस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्येति । सत्यमेवम् । किन्तु दुःखस्वरूपमात्रं तत्कारणस्वरूपमात्रं च पूर्वं निर्दिष्टम् । न च तत्स्वरूपमात्रे, इति तत्कारणे निर्दिश्यते । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥  द्रष्टा च दृश्यं च द्रष्टृदृश्ये । तयोर्द्रष्टृदृश्ययोरिति । द्रष्टृदृश्यसंयोग इति तु वक्तव्ये पृथग्विभक्तिग्रहणं तयोर्भिन्नजातीयत्वख्यापनार्थम् । भोक्तृभोग्ययोः स्वस्वामिनोः प्रधानपुरुषयोरिति वा सूत्रयितुं शक्यत एव । तथापि द्रष्टृदृश्यग्रहणमनेन द्रष्टृदृश्यत्वेनैव संयोगो नान्यथेत्येवमर्थम् ॥

 द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषो वक्ष्यमाणलक्षणः । प्रतिसंवेदितुं शीलमस्य स प्रतिसंवेदी । कस्य ? बुद्धेरिति । दृश्या बुद्धिः अन्तःकरणं प्रत्ययरूपेण ॥

 ननु च शब्दादयोऽपि विषया दृश्या एवेत्यत आह—सत्त्वोपारूढाः सर्वे धर्माः शब्दादयो बुद्धिसत्त्वमुपारूढा बुद्धिप्रत्ययाकारा एव दृश्या न स्वतः । स्वतश्च दृश्यत्वे ज्ञाताज्ञातविषयत्वं पुरुषस्य स्यात् । सदा ज्ञातविषयत्वं च पुरुषस्य न्यायेन स्थाप्यते । तस्माद्बुद्धयुपारूढा एव सर्वे धर्मा दृश्याः ॥

व्यासभाष्यम्

 तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः । अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योः अनादिरर्थकृतः संयोगो हेयहेतुः, दुःखस्य

विवरणम्

तदेतद्दृश्यमयस्कान्तमणिकल्पम् अयसोऽपि क्रियार्थेनैवोपकर्ताऽयस्कान्तमणिर्यथा, तथा पुरुषस्य पुरुषार्थेन द्विविधेन भोगापवर्गलक्षणेनोपकर्तृत्वादयस्कान्तमणिरिव स्वं दृशिरूपस्य चितिस्वरूपमात्रस्य स्वामिनः ॥

 कथं स्वमित्यत आह—कर्मविषयत्वमापन्नं कर्मैव विषयः कर्मविषयः, कर्मत्वापत्तिरेव । विषयो दृशिरूपस्य दृश्यतामापन्न इत्येतत् । कथम्भूतं सत्कर्मविषयतामापद्यत इति तद्विशेषणार्थमाह—अन्यस्वरूपेण प्रतिलब्धात्मकमिति ।

 अन्यस्वरूपेण स्वपरपुरुषरूपेण शब्दादिरूपेण च प्रतिलब्धात्मकं प्रतिलब्धविशेषरूपं प्रतिलब्धपुरुषशब्दादिविशेषस्वभावं पुरुषस्वरूपेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नमपवर्गार्थेन स्वं भवति । शब्दाद्याकारेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नं भोगार्थेन स्वं भवति ॥

 ननु कथं स्वतन्त्रस्य स्वत्वम् । न हि किञ्चित् स्वतन्त्रं स्वयं व्याप्रियमाणमन्यदपेक्षते । यदपि स्वव्यापारानुनिष्पादिपुरुषार्थरूपं, तदपि स्वभावादेव । न पुरुषनियोगकारि । तस्मात् स्वतन्त्रस्य सतः स्वत्वं न युक्तमित्यत आह—स्वतन्त्रमपि पुरुषार्थद्वयकर्तृत्वेन परार्थत्वात् परतन्त्रम् । ततश्च स्वमेव ॥

 तयोर्दृग्दर्शनशक्त्योरिति द्रष्टृदृश्ययोरित्युपक्रम्य दृग्दर्शनशक्त्योरित्युपसंहारः, बुद्धिपुरुषसंयोगस्य बुद्ध्युत्पत्त्यनन्तरभावित्वादादिमत्त्वमाशङ्क्य तदनादिमत्त्वप्रदर्शनार्थं क्रियते । दृग्दर्शनशक्त्योरनादिः संयोगः । धर्मिणां नित्यत्वात् नित्यसम्बन्धोपपत्तेस्तच्छक्त्योरपि द्रष्टृदृश्यत्वलक्षणोऽनादिः संयोगोऽर्थकृतः पुरुषार्थप्रयोजनवश इत्यर्थः ॥

 तथा च सत्यनादित्वेऽपि प्रयोजननिवृत्तौ संयोगनिवृत्तिरुपपद्यते । धर्मिणां तु स्वरूपसंयोगः सत्तामात्रेण न प्रयोजनकृत इति नित्य एव । धर्ममात्राभिस्त्वनित्याभिरनित्यः संयोगः । स तु बुद्धिपुरुषसंयोगो हेयहेतुः दुःखस्य कारणम् इत्यर्थः ॥
व्यासभाष्यम्

 कारणमित्यर्थः । तथा चोक्तम्—“तत्संयोगहेतुविवर्जनात् स्यादयमात्यन्तिको दुःखप्रतीकारः । कस्मात् ? दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा—पादतलस्य भेद्यता, कण्टकस्य भेतृत्वं, परिहारः कण्टकस्य पदाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतद्द्वयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति । कस्मात् ? त्रित्वोपलब्धिसामर्थ्यात्” इति । अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम् ।

विवरणम्

तथा चोक्तं तन्त्रे—तत्संयोगहेतुविवर्जनात् तयोर्बुद्धिपुरुषयोः संयोगस्तस्य हेतुरविद्या तद्विवर्जनात् । कथं विवर्जनम् ? विद्यया सम्यग्दर्शनेन तत्प्रतिपक्षेण निवर्तनात् । तस्मात्तत्संयोगहेतुविवर्जनात् आत्यन्तिकोऽत्यन्ताय प्रभवति दुःखप्रतीकारः । कोऽसौ ? यत्सम्यग्दर्शित्वम् ॥

 कथमेतदिति, प्रसिद्धं दृष्टान्तमाह—तद्यथा—पादतलस्य भेद्यता सुकुमारतरत्वात् । कण्टकस्य भेतृत्वं कर्कशस्वभावत्वात् । तत्संयोगो विशिष्टो दुःखहेतुरित्यर्थसिद्धम् । तत्र कण्टकव्यथादुःखस्य परिहारः कण्टके पदा पादेन अनधिष्ठानम् अनाक्रमणम् । अथाधिष्ठानकारणं चेदस्ति पादत्राणव्यवहितेन वा पदाधिष्ठानम् । एतद्द्वयं यो वेद भेद्यभेतृद्वयं परिहारद्वयं वा यो वेद लोके स तत्रान्यतरं परिहारमारभते । स तत्र प्रतीकारमारभमाणो भेदजं कण्टकभेदजनितं दुःखं नाप्नोति ॥  तथेहापि पुरुषः सत्त्वद्वारेण कण्टकस्थानीयं प्रधानम्, तयोर्विशिष्टः संयोगोऽविद्यानिमित्तो दुःखकारणम्, दुःखपरिहारोऽप्ययम्—गुणगौणेभ्यः प्रधानमात्रविशेषेभ्यो दृश्येभ्यो निरपेक्षता, सम्यग्दर्शनेन प्रयोजनाभावं बुद्ध्वा पुरुषस्याविक्रियत्वात् कण्टकाधिष्ठानवच्छरीरारम्भिणो वा कर्मणो नियतवेदनीयत्वादवश्यं फलदायित्वं बुद्ध्वा अप्रार्थितोपनतानां शब्दादीनां सम्यग्दर्शनव्यवहितेन सत्त्वेन भोगः । एवं परिहारं सञ्जानानः कण्टकभेददुःखपरिहारमिव संसारदुःखं नाप्नोति ॥

व्यासभाष्यम्

कस्मात् ? तपिक्रियायाः कर्मस्थत्वात् । सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । दर्शितविषयत्वात् । सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ॥

दृश्यस्वरूपमुच्यते—

विवरणम्

कस्मादेतदेवमिति ? त्रित्वोपलब्धिसामर्थ्यात् । प्रधानपुरुषसंयोगत्रित्वोपलब्धिसामर्थ्यात् । एवं हि विज्ञानस्य सामर्थ्यं दृश्यते, पादतलकण्टकतत्संयोगेष्वज्ञानस्य च त्रित्वानुपलब्धेर्दुःखहेतुत्वं दृश्यत एव ॥

एतमर्थं प्रविच्छद्यापदिशन्नाह । अत्रापि तापकस्य रजसः । यद्यपि प्रधानं कण्टकस्थानीयं तापकं, तथापि रजसो दुःखात्मकत्वाद्रजोद्वारेणैव प्रधानस्य तापकत्वमित्युच्यते—तापकस्य रजस इति । तस्य रजसः कर्मभूतं सत्त्वमेव तप्यम् । कस्मात् ? छिदिक्रियावत् तपिक्रियायाः कर्मस्थत्वात् । कर्मणि हि तपिक्रिया वर्तते, न रजसस्तापकस्य विषयिणि पुरुषे । तप्तेश्च फलस्य पुरुषविषयत्वात् ॥

न हि परशुश्छेत्तरि स्वात्मनि वा वर्तते छिदिर्वा फलं, विषय एव छेद्ये काष्ठादौ । एवं पुरुषस्यैव तप्तिः कर्मणि सत्त्वे वर्तमाना फलं, रजश्च काष्ठादाविव परशुः सत्त्व एव पुरुषस्य दृश्ये वर्तते ॥

इतश्च पुरुषे तपिक्रिया न वर्तते । अपरिणामित्वात् द्रष्टुः । तपिरपि हि कर्मविक्रिया । यथा छेदनस्य फलं छेद्यस्य कर्मणो द्वैधीभावो विक्रिया, तद्वत् । नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । अपरिणामित्वं च सदा ज्ञातविषयत्वेन साधयिष्यति ॥

यद्येवं पुरुषश्चेन्न तप्यते पुरुषार्थं प्रधानं प्रवर्तत इत्येतदनुपपन्नम् । वृत्तिसारूप्येणोक्तोत्तरत्वात् । तदेवेदमुच्यते—दर्शितविषयत्वात् । अपरिणामिनोऽविक्रियत्वाद्दर्शितविषयत्वम् । तस्माद्दृशिकर्मणि सत्त्वे तप्ये तदाकारानुरोधी तदाकारानुवर्ती । तदाकारानुरोधित्वं तद्दृशिसन्निधौ बौद्धस्य प्रत्ययस्य दृशिरूपावभासता । यथा लाक्षारससन्निधौ स्फटिकस्य लाक्षाकारावभासता, तथा पुरुषोऽपि तप्यत इत्युपचर्यते ॥ १७ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →