चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥
अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतन्ती ।
तथा तेषामन्या विरुद्धकल्पना—स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरामीत्युक्त्वा पुनस्तमेवाभ्युगतं सत्त्वस्य सत्त्व(साध्यसाधनसम्बन्ध)मपह्नुवते । विज्ञानमात्रं क्षणिकं शून्यं चेति आत्मानमपलपन्ति । (नमभिसन्दधीमहि । तदेवं) साङ्ख्ययोगादयस्तु प्रवादाः । स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमभ्युपयन्ति इति ॥ २१ ॥
कथं भोक्तारं स्वशब्देनैवाभ्युपयन्ति ? यतः चितेरप्रतिसंक्रमायास्तदाकारापत्तौ सत्यां स्वबुद्धिसंवेदनं भवति । चितिः चैतन्यं पुरुष इत्यर्थः । सा चापरिणामित्वात् अप्रतिसंक्रमा । तस्याः अप्रतिसंक्रमायाः अपि सत्याश्चितेः तदाकारापत्तिः । तदिति प्रकृतं चित्तं प्रत्याम्नायते । तस्याकारापत्तिस्तदाकारापत्तिः । तस्याश्चितेस्तदाकारापत्तौ सत्यां स्वबुद्धिसंवेदनं भवति । स्वस्य बौद्धस्य प्रत्ययस्योपलब्धिर्भवति । तदर्थमेव हि सा बुद्धिः शब्दादिप्रत्ययरूपेण परिणामते ॥
तदेतत् प्रतिपादयति(प्रतीत्य)—अपरिणामिनी हि भोक्तृशक्तिः दृक्शक्तिः यथाव्याख्याता । अप्रतिसंक्रमा च सती परिणामिन्यर्थे बौद्धप्रत्यये प्रतिसंक्रान्तेव प्रत्ययिविषयत्वात् तद्वृत्तिमनुपतन्तीवानुपतन्ती द्रष्टृत्वादुपलभमाना । बौद्धः प्रत्ययो जायमान एव तस्याः कर्मतामापद्यते । तं बौद्धं प्रत्ययं वृत्तिमनुपतन्त्युपलभमाना भोक्तृशक्तिः ॥
तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञवृत्तिरित्याख्यायते । तथा चोक्तम्—
“न पातालं नो विवरं गिरीणां
नैवान्धकारः कुक्षयो नोदधीनाम् ।
गुहा, यस्यां निहितं ब्रह्म शाश्वतं
बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥” इति ॥ २२ ॥
अतश्चैतदभ्युपगम्यते—