समाधिपादः · १.१८

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥

विवरणम्

 यः पुनः क्लेशः स विपर्ययविशिष्ट एव । यथा---अहं गच्छामि कृशोऽहमिति । योगिचित्तस्य तन्न्यग्भूते रजस्तमसी इति न तथा ॥

 तत्र पूर्वः पूर्वः स्वकीयोत्तरोत्तरधर्मानुगतः । परः परस्तु पूर्वपूर्वधर्मविकलः । यस्माच्चैतद्धर्मचतुष्टयानुगत एवायं सम्प्रज्ञातः समाधिस्तस्मादेतल्लक्षण इति लक्षणार्थं सूत्रम् । लोकेऽपि यो यदसाधारणधर्मानुयातः स तल्लक्षणः, यथा सास्नादिलक्षणो गौरिति ॥

 अस्मितामात्रग्रहणान्निरालम्बनतामेषां समाधीनां मा कश्चिदाशङ्किष्टेत्याह-सर्वे एते सालम्बना इति । यः पुनर्मन्यते निर्विकल्पत्वमस्मितेति--तदसत् । अस्मिताशब्दस्याहङ्कारे प्रसिद्धत्वात् । तथा चाह--अस्मिभावोऽस्मिता ॥ १७ ॥

 अथ असम्प्रज्ञातः 'योगश्चित्तवृत्तिनिरोध इत्युपपादितलक्षणः किमुपायः किंसाधनः केनोपायेनोपेत्य इत्यर्थः । किंस्वभावः किंस्वरूपः किमवस्थ इति स्वभावविशिष्टसाधनसंबन्धप्रदर्शनार्थमाह-विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥

 विरामप्रत्ययाभ्यासपूर्व इत्येतावता साधनसम्बन्धमाचष्टे । संस्कारशेष इति तु स्वभावव्याख्यानम् । अन्य इति अनन्तरोक्तलक्षणात् सम्प्रज्ञातान्योऽयं निर्बीजः असम्प्रज्ञातः ॥

 अन्य इत्युभाभ्यां संबध्यते --विरामप्रत्ययाभ्यासपूर्वश्च संस्कारशेषश्च । कोऽसावुभयविशिष्ट इत्याह-अन्य इति ॥

व्यासभाष्यम्

 सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः ॥ १८ ॥

विवरणम्

 विरमणं विरामः । विरामश्चासौ प्रत्ययश्च विरामप्रत्ययः । विरामरूपत्वात्स एव प्रत्ययो विराम इत्युच्यते । सर्वविषयेभ्यो विनिवर्तमानस्य विनिवर्तनकाले प्रागप्रत्ययापत्तेः प्रत्ययरूपत्वम् । एतद्यथा-पावकस्य ज्वलतः प्रक्षीयमाणेन्धनस्य शनैश्शनैरुपशाम्यतः प्रागङ्गारतापत्तेर्ज्वलात्मकता ॥

 तस्माद्विरामरूपः प्रत्ययो विरामप्रत्ययः तस्य अभ्यासः पूर्वो मुखं यस्य सः विरामप्रत्ययाभ्यासपूर्वः । संस्कार एव शेषो यस्य स संस्कारशेषः । । प्रत्ययोपरमे तु प्रत्ययसंस्कार एवावशिष्यते । विषयप्रत्ययेभ्य उपरतं चित्तं संस्कारशेषमेवेत्यर्थः । तस्य परं वैराग्यमुपायः तस्य समाधेः परमुत्तरम् ॥

 ननु च परं वैराग्यं चेति वक्तव्यम्, अभ्यासवैराग्याभ्यां वृत्तिनिरोधस्याभिप्रेतत्वात् । नैष दोषः । विरामप्रत्ययाभ्यासस्य सूत्रोपात्तत्वादनाशङ्कयस्तदभ्यासः । वैराग्यं पुनरनुपात्तत्वादाशङ्कयेत । तस्मात्तदेव प्रापयता न चा [चः] पठितः ।

 यद्येवं कस्मान्न सूत्र एव वैराग्यग्रहणं कृतम् ? पूर्वत्र पठितत्वात् । तत्र किमर्थं पठितमिति चेत्--वैराग्यप्रसङ्गात् । पूर्ववैराग्यविशेष एवोत्तरं वैराग्यमिति प्रसङ्गादुत्तरम् [दुक्तम्] । पूर्वस्य च वैराग्यस्य सम्प्रज्ञातविषये(ऽपि)विनियोगादवशिष्टत्य परस्य साधनसत्वादन्यविषयत्वाच्च निर्बीजेनैव सम्बन्ध इति न सूत्रे वैराग्यग्रहणं कृतम् । सामर्थ्यप्राप्तं तु भाष्यकारो दर्शयति॥

 “अभ्यासवैराग्याभ्यां तन्निरोध’ इति हि प्रतिपादितम् । सालम्बनो ह्यभ्यासो विरुद्धत्वान्निरालम्बनस्य समाधेः साधनत्वाय न कल्पत इति निर्वस्तुकोऽपि विरामप्रत्ययो निरालम्बनसमाध्यनुरूपत्वादालम्बनीक्रियते । तस्मात्तदभ्यासवैराग्योपायपूर्वकं चित्तं निरालम्बनमभावप्राप्तमिव भवति। स एष निर्बीजः संस्कारशेषस्वभावः समाधिरसम्प्रज्ञात इति ॥ १८ ॥

व्यासभाष्यम्

 स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति ।

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →