परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥
सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः ।
कथं विषयसुखकाले योगिनः दु:खमस्ति ? तथा पूर्वत्र चोक्तं दु:खे सुखख्यातिं वक्ष्यतीति । तदुपपाद्यते प्रतिपाद्यते । तत्र चैतन्न प्रतिपादितम् । दुःखस्य कर्मकार्यत्वात्, कर्मानन्तरं प्रतिपादनं युक्तमिति, बहुवक्तव्यत्वाच्च । परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥
परिणतिः परिणामः, तप्तिस्तापः, संस्कृतिः संस्कारः, तापश्च संस्कारश्च तापसंस्कारौ, परिणामश्च तापसंस्कारौ च परिणामतापसंस्काराः, त एव दुःखा दुःखनिमित्तानि, एतैः परिणामतापसंस्कारदुःखैर्हेतुभिः सर्वमेव दुःखम् । किन्तत्सर्वं ? क्लेशा दुःखकारणत्वादेव हेतोः । कर्माणि ह्लादपरितापफलत्वात् । जात्यायुर्भोगाश्च क्लेशादीनामाश्रयनिमित्तविषयाश्च दुःखहेतुत्वादित्येतत्सर्वमेव दुःखम् ॥
किं सर्वस्यैव ? नेत्याह—विवेकिन इति । क्लेशादीनां विभागविवेको यस्य विद्यते स विवेकी ; तस्य क्लेशकर्मविपाकाभिज्ञस्य परिणामतापसंस्कारगुणवृत्तिविरोधात्मक(धाच्च)सर्वदुःखत्वोपपादक(प्रतिपादक)हेत्वभिदर्शिन इत्यर्थः । नेतरस्यानित्यंदर्शिनः ॥
तस्य तु तप्तिमात्रं दुःखम् । तदपि ‘अहं तप्य’ इत्यात्मत्वेन प्रतिपद्यमानः तत्रापि संशयानोऽसौ ममेदं दुःखमित्येतावन्मात्रमपि विविङ्क्ते । यदि ह्येतावदप्यन्तरं विविञ्चीत, ततो दुःखसाधनमप्येतद्दुःख(साधन)मिति मन्वीत ।
तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा, नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् ।
तथा च सर्वमिदं दुःखमिति तितिक्षेदिति सोऽपि विवेकी स्यात् । तस्माद्यद्यपि तापकाले दुःखमात्रं पश्यन्ति, तथाऽपि न तत्साधनादि सर्वं दुःखमिति मन्यन्ते निर्विवेकिनः । यस्य पुनः परिणामदुःखहेतुदर्शनं तस्य विवेकिनः सर्वमेव दुःखम् ॥
तत्र तावत्परिणामदुःखतां व्याचष्टे—सर्वस्यायं रागानुविद्धः । सर्वस्येत्यनेन सर्वप्राणिप्रसिद्धत्वादव्यभिचारिप्रत्यक्षावगम्यत्वं दर्शयति । चेतनाचेतनाधीनः पुत्रपशुहिरण्यादिसाधनायत्तः सुखानुभव इति । सुखानुभवकाले रागो मनोव्यापारः तद्विशिष्टो हि सुखमनुभवति । स सर्वो व्यापारः क्लेशोपसंहितत्वाद्धर्माधर्महेतुः । तत्पूर्वश्च कर्माशयः प्रारब्धफल उपभुज्यते, भोगकाले चापर उपचीयते । ततश्च क्लेशमूलः कर्माशयः सति मूले तद्विपाक इत्युपपन्नं भवति ॥
तथा, सुखवेलायां सुखप्रत्यनीकभूतानि दुःखसाधनानि उपलभमानो द्वेष्टि, तथा सुखोपभोगपरिपालनव्यग्रतरमानसो मुह्यति चेति द्वेषमोहपूर्वव्यापारजनितोऽप्यस्ति कर्माशयः । अथवा द्वेषमोहावेव व्यापाररूपाविति तत्कृत एव ॥
तथा, यश्चासौ सुखोपभोगः स नानुपहत्य नानुपहिंस्य भूतान्युपभोगः सम्भवतीति । उपभोग एवोपघातहेतुत्वादुपहन्तृत्वेन विवक्षित इति, समानकर्तृकत्वम् । अन्योऽपि मदीयमेवोपभोक्ष्यत इति मन्यते, तत्रापि सर्वोपभोगसामर्थ्ययुक्तं धनमिति तस्मिन्नुपादीयमाने ध्रुवं परपीडा स्यात् । किमुत पीडयित्वैव यदुपादीयते । ततश्च हिंसाकृतोऽप्यस्ति कर्माशयः शारीरः । तदुपादानव्यापारस्य शरीरनिर्वर्त्यत्वात् ॥
एवमेकस्मिन्नुपभोगकाले बहुधा कर्माशयो लोभक्रोधमोहनिमित्त उपचीयते । तथा च रागद्वेषमोहविशिष्टत्वादनेकमुखकर्माशयविशिष्टः सुखानुभवः परिणममानः सन्ननुबन्धे दुःखीभवतीति परिणामदुःखतेत्युच्यते । विवेकिनस्त्वेवं पश्यतः सुखानुभवकालेऽपि दुःखमस्त्येव । तद्यथा—विषदिग्धतां ज्ञात्वा दध्योदनं भुञ्जानस्य ॥या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति ।
इतश्च सर्वं दुःखमेव, अविद्यात्वाद्विषयसुखस्य । अविवेकप्रत्ययात्मको हि विषयसुखानुभवः । तदेतदाह--विषयसुखं चाविद्येत्युक्तमिति । क्वोक्तम् ? इहैव पर्यायशब्देन “अत्यन्तविवि[भ]क्तयोरत्यन्तासङ्कीर्णयोरविवेकप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति” इत्यनेन भाष्येण ॥
यद्वा, सूत्रकारेणोक्तमुपरिष्टात् “प्रत्ययाविशेषो भोगः” इति । अविद्या च परिणममाना सर्वमनर्थं करोति । ततश्च दुःखबीजत्वाद्दुःखमेव विषयसुखम् । यथा व्याधिनिमित्तत्वात् स्वादुतरमपि भक्ष्यमाणम् ॥ विषयसुखं चाविद्येत्यस्यैवार्थस्य प्रकाशनार्थं तन्त्रसिद्धमुदाहरणं दर्शयति—या भोगेष्विन्द्रियाणां भुज्यन्त इति भोगाः शब्दादयः तेषु निमित्तेषु या तृप्तिः तत इन्द्रियाणां उपशान्तिः उपशमः किमनर्थायासहेतुकया वृत्त्येति निराकुलतयावस्थानं तत् सुखम् ॥
या तु लौल्यादीप्सया तृष्णातः सकाशादनुपशान्तिः अनुपरतिः तद्दुःखम् । तदुक्तम्—
“नास्ति तृष्णासमं दुःखं नास्त्यतृष्णासमं सुखम्” इति ॥
ननु चोपभोगेनैव वैतृष्ण्यं भवति उपभोगान्ते । उपभोगश्च सुखं भविष्यति । तत आह—न चेन्द्रियाणां भोगाभ्यासेन शक्यं वैतृष्ण्यं कर्तुम् । कस्मात् ? अत आह—यतो भोगाभ्यासमनु विवर्धन्ते इन्द्रियाणां रागाः । तथा चोक्तम्—
“न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥” इति ।
तस्मादनुपायः सुखस्य भोगाभ्यास इति । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टः, यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति ।
अथ का तापदुःखता ? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः ।
कौशलानि नैपुणानि च भोगाभ्यासेष्विन्द्रियाणामनु विवर्धन्ते । यद्यपि मनःकौशलपूर्वकमिन्द्रियाणां कौशलं, तथाऽपि दृश्यत एव भिक्षा[क्ष्वा]दीनामिन्द्रियस्यापि कौशलम् । तस्मादनुपायः सुखस्य भोगाभ्यास इति भोगाभ्यासान्निवृत्तिरेव सुखम् ॥
स खल्वयं वृश्चिकभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानन्ववसितः अन्ववबद्धः अनुप्रवृत्तोऽनुव्यवसितो वा, यथा मन्दविषाद्वृश्चिकादुपजातभीतिः पटुतरेणाशीविषेण ग्रस्तो महतरं दु:खमभिप्रपद्यते,
तथाऽयमप्रदुःखाभासायाः परिणाममहासुखाया निवृत्तो दुःखबुद्ध्या भीतः सन्नपारे महति दुखपङ्के मग्न इत्येषा परिणामदु:खता सुखस्य प्रतिकूला सुखावस्थायामपि योगिनः । स हि योगी प्रवृत्तवेपथुनैव हृदयेन प्रतिनियतवेदनीयस्य कर्मणो बलीयस्त्वादनुभुङ्क्ते सुखम् । तस्मात् सर्वं दुःखं विवेकिनः ॥
अथ तापदुःखता व्याख्यायते—सुखोपभोगस्तु परिणममानः सन्ननुबन्धे विज्ञाते विषदिग्धस्वादुदध्योदनोपभोगवद्दुःखीभवति, स्वरूपतः पुनरविद्यारूपोऽनुकूलवेदनागन्धोऽपि । इह पुनः स्वरूपत एव दुःखता तापस्य प्रतिकूलात्मकत्वात् ॥
कथम् ? सर्वस्य द्वेषानुविद्धः द्वेषानुगतः चेतनाचेतनसाधनाधीनः शत्रुकण्टकादिसाधनायत्तः तापानुभवः पूर्ववदेवाधर्मफलमनुभवति अपूर्वश्चोपचीयमानः तत्रास्ति द्वेषजः कर्माशयः ॥सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते, ततः परमनुगृह्णात्यपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । का पुनः संस्कारदु:खता ? सुखानुभवात्सुखसंस्काराशयो दु:खानुभवादपि दुःखसंस्काराशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दु:खे वा पुनः कर्माशयप्रचय इति । एवमिदमनादि दु:खस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ।
तेन च दुःखेन परितप्यमानः सुखसाधनानि चन्दनादीनि प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते चेष्टते । तच्च परिस्पन्दनं परानुग्रहाय परपीडनाय वा भवति । ततः परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स च परानुग्रहपीडाकृतो धर्माधर्माख्यः कर्माशयो लोभान्मोहाच्च प्रभवतीत्येषा तावत् तापदु:खता द्राघीयसी विप्रसृता । एवं पश्यतो विवेकिनः सर्वमेवाश्रयविषयनिमित्तैर्दुःखमिति ॥
अधुना ह्लादपरितापानुभवजनितसंस्कारदुःखमुच्यते—का पुनः संस्कारदुःखता ? सुखानुभवात् सुखसंस्काराशयः, दुःखानुभवादपि दुःखसंस्काराशयः । सुखदुःखयो रागद्वेषानुविद्धत्वात्तत्संस्काराशयावपि रागद्वेषानुविद्धौ । एवं कर्मणो विपाके जात्यायुर्भोगाख्येऽनुभूयमाने सुखदुःखे भवतः ॥
ततोऽपि सुखदुःखानुभवसंस्काराशयः यथा नैरन्तर्येण सुखदु:खानुभवस्तथैव तदनुभवसंस्कारावपि रागद्वेषानुविद्धौ निरन्तरतया भवतः । तौ च संस्काराशयौ क्रियाया उपभोगस्य चाङ्गीभवतः । एवं संस्काराशयस्य दुःखहेतुत्वम् । संस्कारहेतुकं संस्कारदु:खं, तथा च तत्संस्कारदुःखता । न ह्यस्मरन्नुपभोगाय क्रियायै वा साधनमुपादत्ते । स्मृतेश्च संस्कारनिमित्तत्वमुपपादितम् ॥
यद्यपि संस्कारस्य स्वरूपतो दुःखता नास्ति, तथापि संस्कारस्य दु:खहेतुतां जानतो विवेकिनः सत्तामात्रेण दु:खत्वं, भक्षितमात्रविषवत् । इत्थमेतैः परिणामतापसंस्कारहेतुभिः सर्वमेव दुःखमित्यनादिदुःखस्रोतो योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ॥कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति, न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति, नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दु:खमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवविद्यया हातव्य एवाहङ्कारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते ।
ननु चेतरस्यापि प्रतिकूलात्मकमेव, कस्मान्न तमुद्वेजयति । नात्यन्तक्लेशादिकालुष्याविवेककिणीकृतचेतस्त्वादितरमुद्वेजयति । न प्रतिकूलात्मकता प्रभाव्यते । यो हि दयितामुष्टिघातं मुद्गराभिघातदेशीयमपि मस्तकेन प्रतीच्छति । पुत्रस्य वा मूत्रपुरीषमुरसा धारयति । असावानन्दमहोदन्वत्तरङ्गायमाणः [णं] स्वात्मन्यपि न वातितराम् [स्वात्मानमपि न वेति तराम्] । न हि तस्य तत्प्रतिकूलात्मकम् । रागमेव हि तदितरस्य प्रतिपत्तृत्वादभिवर्धयति तराम् ॥
ननु च योगिनोऽपि तत्समानं निमित्तं, कस्मात्तमुद्वेजयतीति । उद्वेजयत्येव तम् । कस्मात् ? अक्षिपात्रकल्पो हि सः । प्रसन्नत्वाद्विरक्तत्वादित्यर्थः । तस्मान्न समानं निमित्तं तस्य, यतोऽसौ विद्वानिति । न हि विदुषः क्लेशादिकालुष्याविवेकाकिणीकृतचेतस्त्वम् । न च तत्किणीकृतचेतस्त्वतिरस्कारादृते विद्वत्ता । तस्मादक्षिपात्रकल्पत्वाद्विद्वांसमेवोद्वेजयति, नेतरम् ॥
तत्र दृष्टान्ताभ्यां विद्वदविदुषोरन्तरमाचष्टे—यथोर्णातन्तुरतिमृदुस्पर्शोऽप्यक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति स्वच्छतरत्वादक्षिपात्रस्य, तथा योगिनं विविक्ततरप्रज्ञानमकलुषहृदयमुद्वेजयति दुःखम् । स एवोर्णातन्तुरन्येषु गात्रेषु क्षिप्तः खरतरसंस्पर्शेनापि न दुःखयति, तथा नेतरं प्रतिपत्तारं दुःखं पीडयति, क्लेशादिकिणीकृतचेतस्त्वात् कठिनतरेतरगात्रावयवकल्पो हि सः ॥
तदिदमाह—एवमेतानि दु:खानि अक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरस्य तु प्रतिपत्तुरितरगात्रावयवस्वभावतां दर्शयन्नाह—इतरं त्विति । तापा अनुप्लवन्त इत्येवमन्तेन वाक्यसमाप्तिः ॥
तमे(दे)वमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते इति ।
स्वकारणोपहृतं दुःखप्राप्तिनिमित्तैश्चेतनाचेतनादिभिरुपहृतमुपनीतं बुद्धिवृत्तिद्वारेण पुरुषस्य कर्मतामापादितं, दुःखमुपात्तं त्यजन्तं शरीरत्यागेन, अन्यत्र च त्यक्तं पुनरन्यं शरीरादिलक्षणमेव दुःखसमुदायमुपाददानमनादिवासनाचित्रया अविद्यया चित्तवृत्त्या सर्वतोऽनुविद्धमिव ॥
इतरं प्रतिपत्तारं किंविशिष्टम् ? हातव्याहङ्कारममकारानुपातिनम् । कार्यकरणेषु तद्धर्मेषु च क्रियागुणफलेषु विपर्ययेण प्रतिपत्तिरहङ्कारः । ममकारस्तु तेषु बाह्येषु च चेतनाचेतनेषु ममेति प्रत्ययः । तौ च विपर्ययत्वात् समस्तक्लेशकर्मविपाकबीजत्वाच्च हातव्यौ । न हि तावन्तरेण रागादयः कर्मविपाका वा समुदाचरन्ति । तस्माद्धातव्यौ तौ तावनुपतितुं शीलमस्येति हातव्याहङ्कारममकारानुपाती, तम् ॥
जातं जातम् अन्यगात्रावयवकल्पं बाह्याध्यात्मिकोभयनिमित्ताः बाह्यं देवता भूतानि च, आध्यात्मिकं कार्यं कारणं च, बाह्याध्यात्मिकानि चोभयानि च निमित्तं येषां ते बाह्याध्यात्मिकोभयनिमित्ताः ।
त्रिपर्वाणः बाह्यादिनिमित्तमेव त्रिपर्वत्वम् । भूतभविष्यद्वर्तमानत्वं वा त्रिपर्वत्वम् । वक्ष्यति च “हेयं दुःखमनागतम्" इति । यद्वा, क्लेशकर्मविपाकात्मकत्वम् । यद्वा, परिणामतापसंस्कारदुःखत्वम् । अतस्ते त्रिपर्वाणस्तापा अनुप्लवन्ते अनुषज्यन्ति ।
त(मे)देवं अविवेकं प्रतिपत्तारम् अनादिदुःखस्रोतसोह्यमानमात्मानं च दुःखस्रोतसि मग्नं तथा भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकरं सम्यग्दर्शनं शरणं प्रपद्यत इति ॥
ननु च योगित्वादेव सम्यग्दर्शनं प्रतिपक्षः । उच्यते—योगाङ्गानुष्ठानादेव योगित्वं, ऋतेऽपि सम्यग्दर्शनात् । तस्मात् सम्यग्दर्शनसाधनत्वं योगस्य
गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते ।
दर्शयति । योगं योगफलं च सर्वमेव दुःखं पश्यन् सम्यग्दर्शनैकशरणं प्रतिपद्यते । तथा च वक्ष्यति—"तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्" इति ॥
इतश्च सर्वं दुःखं विवेकिनः । कुतश्च ? गुणवृत्तिविरोधाच्चापि। ननु च किमर्थं सूत्रे पृथग्विभक्तिक्रिया ? यावता परिणामतापसंस्कारगुणवृत्तिविरोधैरित्येव कर्तव्यम् । नैष दोषः । सुखदुःखानुभवतद्वासनाः सर्वजनप्रसिद्धा इति परिणामतापसंस्कारदुःखैरिति निर्दिष्टाः । तत्कारणविभागज्ञानविशारदस्यैव विवेकप्रकर्षवतो गुणवृत्तिविरोधा विज्ञेया इति पृथक्करणम् । सर्वदुःखहेतुत्वसामान्याच्चैकसूत्रविन्यासः ॥
गुणाः सत्त्वादयः , तेषां वृत्तयो गुणवृत्तयः, तासां विरोधाद्गुणवृत्ति- विरोधात् । ते च गुणा अन्तःकरणाद्याकारसन्निविष्टाः । तेषां गुणप्रधानभावेनाभिन्नपरिणामत्वाच्च विरुद्धवृत्तित्वं भवति । अन्यतमवृत्तिरुद्भवन्त्याऽन्यतमवृत्त्याऽभिभूयते ॥
एवं त्रयाणामपि प्रतिक्षण(पक्ष)मन्योन्यवृत्तितिरस्कार इतरेतरवृत्त्युद्भावित्वं च । न सुखदुःखमोहात्मकानां गुणानामन्यतमवृत्तिलाभोऽन्यतमाननुसंहितः । तत एतत्सिद्धं भवति—यदा दुःखात्मकं रज उद्भवति, तदा दुःखत्वादेव तद्वृत्तेर्न दुःखमिति वक्तव्यम् । सत्त्वतमसोरपि रजोऽनुगतिरस्त्येवेति तयोरपि दुःखत्वमेव । सत्त्वतमःप्रवृत्तिनिवृत्त्योरपि रजोव्यापारानुजत्वाद्दुःखत्वमेव सर्वस्येति ।
एतदुपव्याचष्टे—प्रख्याप्रवृत्तिस्थितिशीलाभिर्वृत्तिभिर्गुणाः परस्परानुग्रहतन्त्राः परस्परविरुद्धा अपि परस्परोपकार्योपकारकभावेन तैलवर्त्यग्निवत् शान्तं सात्त्विकं घोरं राजसं मूढं तामसं प्रत्ययं त्रिगुणमेवारभन्ते । इ(तरे)तरयोरङ्गभावेनानुगतत्वाद्यदा सात्त्विकः शान्तः प्रत्यय उद्भूतः सोऽनन्तरमेवोद्बुभूषता तमोऽनुसंहितेन घोरेण राजसेन प्रत्ययेन हन्यते ॥
एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वं विवेकिन इति ।
यदा च राजसो घोरः प्रत्यय इतरगुणानुगत उद्भूतो भवति सोऽनन्तरमेवोद्बुभूषता तामसेन प्रत्ययेन मूढेन सत्त्वानुगतेन सात्त्विकेन वा तमोऽनुगतेन हन्यते । तथा तामसोऽपीतरप्रत्ययाभ्यां पर्यायेण । तथा सात्त्विकेन इतरावित्यन्योन्योदयाभिभवप्रवृत्त्या गुणाः ॥
कस्मात्? यतः चलं गुणवृत्तं गुणस्वभावत्वं चित्ताकारेण गुणाः सन्निविष्टा इति क्षिप्रपरिणामं चित्तमुक्तम् । क्व ? तन्त्रे ॥
कस्मात् पुनर्गुणा विरुध्यन्त इति । अनेकातिशयानामेकत्रासम्भवात् । यथा अपवरके तमःप्रकाशयोरतिशयवतोः, एवमन्तःकरणाकारसन्निवेशिनां सुखदुःखमोहरूपाणां प्रकाशप्रवृत्तिनियमवृत्तीनां गुणानां रूपेण वा सुखादिना वृत्त्या वा ज्ञानादिलक्षणया युगपदतिशयो न सम्भवति ॥
सामान्यानां त्वविरोधादव्यक्तरूपाणामतिशयैर्व्यक्तैः सह वृत्तिर्युक्ता । तेन 'रूपातिशया वृत्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्ते' इत्युच्यते । यदा सुखरूपातिशयस्तदा न दुःखरूपातिशयो मोहरूपातिशयो वा तथा इतरातिशये नेतरातिशयः । तथा, ज्ञानवृत्त्यतिशये न लोभप्रत्ययवृत्त्यतिशयः । तथा, अन्यतमवृत्त्यतिशये नान्यतमवृत्त्यतिशयः ॥
एवमेते गुणा इतरेतरोपाश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः। सत्त्वेन रजस्तमउपाश्रयेणोपार्जितः सुखप्रत्ययः । रजसापि सत्त्वतमउपाश्रयेणोपार्जितो दुःखप्रत्ययः । तमसापि सत्त्वरजउपाश्रयेणोपार्जितो मोहप्रत्ययः । ततः सर्वे सर्वकार्या भवन्ति ॥ यद्येवमयं प्रत्ययः सात्त्विकः, तामसोऽयं, राजसश्चायमिति विशेषः क इत्याह—गुणप्रधानभावकृतस्त्वेषां विशेष इति । प्रधानोपसर्जनतया संज्ञालाभालाभौ । यथा पाञ्चभौतिकत्वेऽपि पार्थिवं तैजसमाप्यमिति ॥
यत एवं गुणवृत्तिविरोधः, तस्मात् सर्वमेव दुःखं विवेकिन इति । गुणवृत्तिविरोधादित्येतत्परवैराग्यार्थम् । कथं ? परिणामतापसंस्कारदुःखैरिति दृष्टानुश्रविकविषयवितृष्णस्यैव
तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः ।
यथा चिकित्साशास्त्रं चतुर्व्यूहम्—रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा—संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति ।
तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् ।
सर्वस्य दुःखप्रतिपादनार्थं पृथग्विभक्तिकं कृतम् । न हि तत्र दुःखत्वमपश्यतो वैराग्यमुपकल्प्यत इति ॥
एतत्तु गुणवृत्तिविरोधाच्चेति गुणानां परस्परविरोधिवृत्तित्वेन दुःखत्वप्रतिपादनात्तेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः परं वैराग्यमुपकल्प्यत इत्येवमर्थम् । तथा चात्रापि प्रधानोपसर्जनभावेन सर्वे सर्वरूपा भवन्तीति व्यक्ताव्यक्तधर्मत्वं प्रतिपादितम् । एवं च कृत्वा सूत्रेऽपि गुणवृत्तिविरोधाच्चेति पृथक् पठितम् ॥
परिणामतापसंस्कारदुःखधर्मत्वात् तस्यैतस्य महतो गुणगौणलक्षणस्य दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः प्रतिपक्षत्वात् । भूतार्थाश्रयत्वाद्विद्याया अभूतार्थाश्रयत्वाच्चाविद्याया विद्यैवाभावहेतुः । यथा सद्विषयेणैकचन्द्रदर्शनेनासद्विषयस्यानेकचन्द्रदर्शनस्य बाधनम् ॥
सह दुःखनिदानेन क्लेशकर्मविपाकलक्षणेन सर्वं दुःखमित्युपपादितम् । अनेन दुःखेन यो दुःखी विवेकी स एतस्य सम्यग्दर्शनशास्त्रस्य विषयः अधिकृतो, नेतरो दुःखस्यैव प्रतिपत्तृत्वादित्येतद्दृष्टान्तेन प्रतिपिपादयिषन्नाह—यथा चिकित्साशास्त्रं चतुर्व्यूहम्—रोगो रोगहेतुरारोग्यं भैषज्यमिति । रोगरोगहेतुमांस्तन्निवर्तयिषुर्भैषज्यस्य शास्त्रस्यारोग्यस्य प्रयोजनस्य विषयः ॥
एवमिदमपि शास्त्रं चतुर्व्यूहमेव । यथा—संसारः संसारहेतुर्मोक्षो मोक्षहेतुः । तत्र दुःखबहुलः संसारो हेयः । प्रधानपुरुषसंयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनमित्येते चत्वारो व्यूहाः ॥
तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति, हाने त्वस्योच्छेदवादप्रसङ्गः,
यथा चिकित्साशास्त्रं रोगे रोगहेतौ चारोग्ये च तत्प्रयोजनके भैषज्ये च चतुष्टये स्वरूपप्रतिपादनाय व्यूहितं, तत एव च रोगादयोऽस्य चत्वारो व्यूहा इति चतुर्व्यूहं, तथा अस्य शास्त्रस्य । दुःखबहुलः संसारः [हेयः], अविद्याहेतुकश्च प्रधानपुरुषसंयोगो हेतुः, सनिमित्तस्य संसारस्य हानं सम्यग्दर्शनशास्त्रस्य प्रयोजनं, तथा सम्यग्दर्शनं चेति चत्वार एते व्यूहा अस्यापि इति चतुर्व्यूहं शास्त्रम् । एषु वाऽर्थेषु चतुर्धा व्यूहोऽस्येति चतुर्व्यूहम् ॥
तत्र हातुः स्वरूपमिति । ननु ‘द्रष्टा दृशिमात्र.’ इति हातृलक्षणसूत्र एतद्वदितव्यम् । नैष दोषः । शास्त्रारम्भप्रयोजनप्रतिपिपादयिषुणा क्लेशादिकः समस्तो दुःखावसानः संसारो निर्वर्णितः । संसारी च यः संसारदुःखेन निर्विण्णो विवेकी सोऽस्य शास्त्रस्य विषय उपपादितः । तस्य विवेकिनः शास्त्रमतःपरमारभ्यते । एतच्च प्रथमसूत्रे प्रदर्शितम् । आरभ्यमाणस्य शास्त्रस्य सम्यग्दर्शनमेव प्रयोजनम् । तच्च संसारदुःखनिर्वर्णनानन्तरमवसरप्राप्तं प्रतिपादयितव्यमित्येतदुच्यते—तत्र हातुः स्वरूपमिति ॥
हाता पुरुषः, तस्य स्वरूपमुपादेयं वा हेयं वा न भवति । कुत एतदेवम् ? हेयोपादेयव्यतिरेकेण वस्त्वदर्शनात् । यथा लोके सुखं तत्कारणं चोपादेयं, दुःखं तत्कारणं च हेयम्, एवमयमपि पुरुषो वस्तुत्वादन्यतरधर्मा भवितुमर्हतीत्यभिप्रायः । किमतो यद्येवम् ? अत एतद्भवति, हाने त्वस्योच्छेदवादप्रसङ्ग इति ॥
यद्यसौ हेयत्वधर्मा, तत एष हातव्यः । हाने त्वस्य किं स्यात् ? आत्मोच्छेदवादप्रसङ्गः स्यात् । अतः को दोषः स्यात् ? दोषं कैवल्यपादे प्रतिपादयिष्यामः ॥
किञ्चान्यत्—अस्य हात्रन्तरस्य (किञ्चान्यतरस्य) अभावाद्धानानुपपत्तित्वम् । स्वयमेवात्मन आत्मा हातेति चेत्—न—स्वात्मनि क्रियाविरोधाद्भेदाभावाच्च । हेयादात्मन आत्मा हाता चेदन्यस्तदाऽनवस्थासङ्गः । यो यो हाता तस्यापि हेयत्वात् । न च युगपद्द्वयोर्हात्रोः संभवोऽस्ति । भिन्नकालभाविनोस्तु हेयहातृत्वानुपपत्तिः ॥
उपादाने च हेतुवादः, उभयप्रत्याख्याने शाश्वतवाद, इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥
हातुश्च हेयत्वाभ्युपगमे तस्यानवस्थितत्वाद्धेयसम्बन्धानुपपत्तिः । हातुरनवस्थितत्वे च स्वयमेव हेयत्वप्रतिपत्तेर्हातुर्हानायोद्यमानर्थक्यप्रसङ्गः । हानफलानुपपत्तिश्च । न हि बद्धस्य स्वरूपनाश एव फलम् । मोक्षो हि तस्य फलम् । नापि म्रियमाणोऽपि ज्ञातक्षणान्तरमरणः स्वरूपविनाशमिच्छति । विनाशस्यार्थप्राप्तत्वादेवमनवस्थितश्चेद्धाता न स्वरूपहानमिच्छेत्, अर्थप्राप्तेर्हानस्य ॥
यथा च हातुर्नित्यत्वं तथा द्रष्टृसूत्रे कैवल्यपादे च व्याख्यास्यामहे । तस्मान्न हेयत्वधर्मा पुरुषः । संसारस्तु महदादिव्यक्तिः दुःखबहुलो हेयः । तत्तुल्यधर्मकः पुरुषो न भवतीत्यर्थः । तत्तुल्यधर्मकत्वे तस्योच्छेदवादप्रसङ्ग इति ॥
अस्तु तर्ह्युपादेयः, यथा सुखार्थं सुखकारणं द्रव्यम् । नैतदेवम् । कस्मात् ? उपादाने त्वस्य हेतुवादप्रसङ्गात् । यस्य द्रव्याद्युपादानफलेन सम्बन्धः स चेदुपादीयेत, तन्निर्हेतुकमस्योपादानं स्यात् । अन्यस्योपादातुरभावात् । न हि पटः पटेनैवोपादीयते । अन्यस्य ह्यन्यदुपादेयम् । उपादात्रन्तरसम्भवे हि तदनवस्थाप्रसङ्गः; सोऽप्यन्येनोपादीयते सोऽपि चान्येनेति ॥
किं च—पारार्थ्यप्रसङ्गश्च । अन्यस्य हि हेतोरन्यदुपादीयते, सत्त्वादिलक्षणस्य प्रधानस्योपादाने पुरुषो हेतुरभ्युपेयते, यथा घटाय मृत्पिण्डोपादाने कुलालो हेतुः । स चेत्पुरुषः प्रधानोपादानहेतुः प्रधानवदुपादीयेत, तस्यापि सत्त्वादिधर्मत्वं स्यात्, उपादेयत्वान्मृत्पिण्डवत् । ततोऽस्य प्रधानस्य निर्हेतुकं कार्यार्थमुपादानं प्राप्नोति ॥
अथेश्वरार्थमुपादेयः, पुरुषाणां वा परस्परार्थमिति चेत्, भोग्यत्वाचेतनत्वपरिणामित्वादिदोषसामग्री प्रसज्येत, तस्मान्नापि प्रधानधर्मकः पुरुष इत्युपादाने च हेतुवादप्रसङ्ग इत्युच्यते ॥
तदुक्तम्—हेतुस्त्वपुरुषो भवतीति । तस्य चोपादाने अहेतुः प्रधानवृत्तिर्निर्हेतुकी स्यात् । न च स्वयं स्वार्थं शक्यं विज्ञातुम् । प्रकाशादिषु स्वार्थत्वादर्शनात् ॥
तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते—