साधनपादः · २.३१

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥

व्यासभाष्यम्

तत्राहिंसा जात्यवच्छिन्ना—मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा ।

विवरणम्

 उक्तं च—

 “सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।

 प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥” इति ।

स्तेयं अशास्त्रपूर्वं द्रव्याणां परतः स्वीकरणं स्पृहानिमित्तम् । यत् स्तेयं तत्प्रतिषेधस्तु न स्पृहालूनां सम्भवतीति तस्यैव स्तेयस्य प्रतिषेधस्तु । सः अस्पृहारूपमस्तेयमुच्यते ॥

 ब्रह्मचर्यं गुप्तेन्द्रियस्य गुप्तान्येन्द्रियस्य पुरुषस्य अब्रह्मचर्यार्थवाङ्मनसादिवृत्तिशून्यस्य उपस्थेन्द्रियसंयम इति ॥

 विषयाणामार्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणम् अनुपादानं अपरिग्रहः । न पुनरसामर्थ्येनास्वीकरणम् । इत्येते यमाः ॥ ३० ॥

 अन्यधर्माणां जातिदेशकालाद्यवच्छेदेनानुष्ठानादिहापि तथा प्रसङ्ग इति तत्प्रतिषेधायाह—एते त्विति । एते त्वहिंसादयो महाव्रतसंज्ञाः संन्यासवतामनुष्ठानीयाः । कीदृशास्ते महाव्रतनामान इति—जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । महश्च तत् व्रतं च महाव्रतम् । महत्त्वं च सार्वभौमत्वम् ॥

 कथं पुनर्जात्याद्यनवच्छिन्नत्वमेषामिति अनवच्छेदप्रतिपादनाय व्यतिरेकेण अहिंसामुदाहरति—तत्र अहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र मत्स्यजातेर्हिंसा । सा च मत्स्यजात्यवच्छिन्ना मत्स्यभूमिमनश्नुवाना वर्तत इति असार्वभौम्येव ॥ 

सैव देशावच्छिन्ना—न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना—न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना—देवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →