शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करः, तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ १७ ॥
तत्र वाक् वर्णेष्वेव अर्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् ।
[ विवरणम् ]
वश्यतां योगिन उपयाति । धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन संयमेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु परिणामेषु सम्पादयति । सकलपदार्थानां परिणामित्वात् तेषां चातीतादियोगात् कालत्रययुक्तसमस्तपदार्थविषयपरिणामत्रयसंयमेन सर्वं प्रत्यक्षीभवति । तथा प्रतिक्षणपरिणामधर्मकमनवस्थितं विश्वमीक्षमाणस्य वैराग्यं जायते ॥ १६ ॥
अयमन्यः संयमविषयः उपक्षिप्यते सर्वशब्दार्थप्रतिपत्त्यर्थः शब्दार्थप्रत्ययानामितरेतराध्यासात् संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानं सम्पद्यते । तत्र कः शब्दः, कोवा अर्थः, प्रत्ययो वा, संकरश्च किन्निमित्तः, कथं च तेषां प्रविभागः ? इति ॥
तत्र किं वागुच्चार्यः श्रोत्रग्राह्यः (स) शब्दः, उतार्थान्तरं, किं वागेव, तद्व्यतिरिक्तो वा, इति तावद्विचार्यते—वाक् तावन्न शब्दः । कस्मात् ? वाक् वर्णेष्वेवार्थवती । वागिति वर्णाभिव्यञ्जकमष्टसु स्थानेषु विषक्तमिन्द्रियं वर्णाभिव्यक्तिमात्रप्रयोजनोपक्षयं, न तावदर्थाभिव्यक्तौ शब्दाभिव्यक्तौ वा व्यापारं करोति ॥
तथा श्रोत्रं च न स्वयं शब्दः, नापि शब्दविषयम् । कस्मात् ? ध्वनिपरिणाममात्रविषयं हि तत् । ध्वनिरिति सामान्यं वर्णावर्णरूपम् । तस्य विशेषः परिणामः अकारादिवर्णात्मकः, काकादिवाशितात्मकश्च मूढकरणव्यङ्ग्यः । तत् ध्वनिपरिणाममात्रप्रकाशावसानं श्रोत्रं नार्थशब्दयोर्व्याप्रियते ॥
पदं पुनः नादानुसंहारबुद्धिनिर्ग्राह्यम् इति । वर्णाः एकसमयासम्भवित्वात् परस्परनिरनुग्रहात्मानः । ते पदम् अनुपसंस्पृश्य अनुपस्थाप्य आविर्भूताः तिरोभूताश्च इति प्रत्येकम् अपदस्वरूपा उच्यन्ते ॥
ननु च श्रोत्रग्राह्य एव शब्दः । न—अर्थप्रत्यायकत्वात् । अर्थं यः सम्प्रत्याययति स शब्दः । कः पुनरसौ ? पदम् । तत् पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं नादानां ध्वनीनां श्रोत्रविषयभूतानां प्रत्येकं प्रत्ययिनि संस्कारमाधाय निवर्तमानानाम् अन्त्येन ध्वनिना या समुपस्थापिता बुद्धिः सा नादानुसंहारबुद्धिः प्रथमध्वनिक्रमानुसंहारासादितसंस्कारस्य प्रत्ययिनश्चित्तस्य जायते, तयैकया बुद्ध्या अयं निर्गृह्यते । तत् पदम् । तच्च प्रत्यक्षत्वात् रूपादिवन्नान्यप्रमाणापेक्षम् ॥
ननु च “गकारौकारविसर्जनीयाः” इति भगवानुपवर्षः । तन्न—अवाचकत्वात् । कथम् ? समुदायासम्भवात् । समुदायासम्भवश्च एकसमयासम्भवित्वात् । न हि गकारोच्चारणकाले औकारविसर्जनीयौ । नाप्यौकारोच्चारणकाले गकारविसर्जनीयौ । नापि विसर्जनीयप्रवृत्तिवेलायामितरयोः समवस्थानमिति वर्णसमुदायासम्भवादवाचकत्वम् ॥
यथैव वर्णानां युगपत्समयानवस्थानम्, एवं संस्काराणाम् स्मृतीनां च तज्जनितानामयुगपत्कालत्वादवाचकत्वम् । स्मृत्युपयोगार्थत्वाच्च संस्कारस्यानुभूतविषय एवोपयोगात्, प्रत्याय्यस्य चापूर्वत्वात् ॥
अपि च संस्काराणां वाचकत्वाभ्युपगमे, ‘शब्दादर्थप्रतिपत्तिः’ ‘पूर्वीपरीभूतं भावमाख्यातेनाचष्टे’ ‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्’ इति प्रसिद्धिरपह्नूयेत ॥
अथापि वर्णभावभावित्वेन स्मृतिसंस्कारयोरपि शब्दत्वमुपचर्येत । नैतदपि—तद्भावभावित्वं नाम तस्मिन्नेव सति भवत्यसत्यभाव एव यत्र, तत्र स्यात् । (न च) तच्च वर्णानां शब्दत्वे सिद्धे भवेत् । लोकस्तु शरीरादावात्माभिमानादविवेकादतस्मिन्नपि तद्बुद्धिं करोतीति न सर्वत्र वस्तुनिर्णये हेतुर्भवति ॥
अपि च, वाक्श्रोत्रव्यापार एव सत्यर्थप्रतिपत्तिरिति तस्याव्यभिचारात् तद्भावभावित्वे शब्दत्वं प्राप्नोति । तस्मादन्त्यो वर्णो न वाचकः, वर्णत्वात् आद्यवर्णवत् । तथा, तत्स्मृतिसंस्कारा न वाचकाः, स्मृतिसंस्कारत्वात्, आद्यवर्णस्मृतिसंस्कारवत् ॥
यदि चान्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः वाचक इत्युच्यते—नैतदेवम् । कस्मात् ? अन्त्यवर्णोच्चारणमात्रादेवार्थप्रत्ययप्रसङ्गात् । कथम् ? अतीतदिवसोच्चरितगकारादिवर्णाहितसंस्कारो हि समस्तः श्रोता । तत्रान्त्यवर्णोच्चारणमात्रादर्थः प्रतीयेत । अथापि नियमार्थमाद्यवर्णोच्चारणमिति चेत् न—पूर्ववर्णानां पश्चिमवर्णेनातुल्यकालत्वात् साहायकाभावे नियमानुपपत्तिः ॥
तवापि वर्णानां पदव्यञ्जकत्वे नियमार्थं पूर्ववर्णा उच्चारयितव्या इति । दोष एवेति, पदव्यञ्जकत्वकल्पनातो वर्णानामेव वाचकत्वं युक्तमिति चेत्, न—वर्णानां बुद्धौ स्वकीयसंस्काराधानमात्राभ्युपगमात् । उच्चरितप्रध्वंसमानवर्णसंस्कारपरम्परोपचितायां हि बुद्धौ पदं निर्भासते । एतदेव हि वर्णानां पदव्यञ्जकत्वम् । न पदं प्रति दीपवत् साक्षात् प्रवर्तते ॥
न बुद्धौ धर्मिद्वारेण संस्काराणामेकाश्रयावस्थानादन्योन्योपकार्योपकारकभावः समीचीनतरः । इष्टानिष्टविषयोपलब्धिस्मृतीच्छाद्वेषादिवत् । न कदाचिदन्येन वर्णेन पूर्ववर्णानां तदीयस्मृतिसंस्काराणां वा सम्बन्ध उपकल्पते ॥
अथ ममापि नियतक्रमवर्णसम्पादितसंस्कारपरम्परोपचितबुद्ध्युत्पादकत्वेनैव वर्णानां वाचकत्वमिति चेत्—न—अभ्युपेतपरिवर्जनात् । यदि तावद्वर्णानेकसंस्कारविशिष्टा बुद्धिः अर्थविषया वा पदविषया वा ? यद्यर्थविषया, सैव शब्दः प्राप्नोति । अर्थप्रत्यायकत्वात् । अथ पदविषया, तथाऽपि पदादर्थप्रतिपत्तिरिति बाध्येत ॥
तस्मादेकबुद्धिविषयो वर्णव्यतिरिक्तः शब्दोऽभ्युपगन्तव्यः । तेन पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः, तत्स्मृतिः, संस्कारो वा, न वाचकः । संस्कारसाहायकापेक्षत्वात्, बुद्धिवत् ।
एवं गते कथं वर्णानामर्थविषयः पदविषयो वा व्यापारो नास्तीत्याह—वर्णाः एकसमयासम्भवित्वात् । एककालासम्भवित्वं च वाचः क्रमवर्तित्वात् । अतः परस्परनिरनुग्रहात्मानः कस्यचिदभिसम्बन्धस्याभावादितरेतरनिरुपकाराः । ते पदमनुपसंस्पृश्यानुपस्थाप्य कञ्चन पदे व्यापारमविधाय आविर्भूताश्च तिरोभूताश्च व्यस्ता वा समस्ता वा न पदात्मानमपाङ्गविक्षेपेणापि परामृशन्ति । प्रत्येकमपदस्वरूपाः युगपदनवस्थानात् समुदायात्मनाऽप्यपदस्वरूपा एव । किमङ्ग पुनः प्रत्येकमनर्थकानामवस्थितानामिति ॥
वर्णः पुनः एकैकः सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वात् वैश्वरूप्यमिवापन्नः उत्तरश्च पूर्वेण पूर्वश्चोत्तरेण विशेषेऽवस्थापितः, इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेन अवच्छिन्नाः इयन्त एते सर्वाभिधानशक्तिपरिच्युताः गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्ति इति ॥
तदेषाम् अर्थसङ्केतेन अवच्छिन्नानाम् अनुगृहीतध्वनिक्रमाणां य एको बुद्धिनिर्भासः तत् पदं वाचकं वाच्यस्य सङ्केत्यते । तदेकं पदम् एकबुद्धिविषयम् एकप्रयत्नाक्षिप्तं अविभागम् अक्रमम् अवर्णात्मकम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेव अभिधीयमानैः श्रूयमाणैश्च श्रोतृभिः अनादिवाग्व्यवहारवासनाऽनुविद्धया लोकबुद्ध्या सिद्धवत् सम्प्रतिपत्या प्रतीयते ॥
वर्णः पुनरेकैकः सर्वाभिधानशक्तिप्रचितः । अभिधीयते यैः तान्यभिधानानि पदानि, तेषां सर्वेषामभिधानानां पदानामभिव्यञ्जिकाभिः शक्तिभिः प्रचितः, अराणामेकैक इव नाभौ । तद्यथा—गकारः गोवर्गाग्निगगनादिसर्वपदाभिद्योतनसामर्थ्यप्रचितः ॥
सहकारिवर्णान्तरप्रतियोगित्वात् । यथा गौरिति गकारौकारविसर्जनीयसहकारिसव्यपेक्षः अग्निरितीकारप्रतियोगी । तस्मादनेकवर्णान्तरोपाधिसम्बन्धात् प्रतिपदं वैश्वरूप्यमिवापन्नः । उत्तरश्च वर्णः पूर्वेण विशेषे पदविशेषप्रद्योतने अवस्थापितः । पूर्वश्चोत्तरेण, मध्यमोऽपि पूर्वोत्तराभ्याम् ॥
एवं बहवो वर्णाः क्रमानुरोधिनः विशिष्टक्रमं, आनुपूर्वीम् अनुरुध्यमानाः॥ अर्थसङ्केतेन अमी अस्मिन्नर्थे एतत्क्रमावलम्बिनः इयन्त इति सङ्केतः समयः, तेन अर्थसङ्केतेन अवच्छिन्नाः ॥
वर्णसङ्केतद्वारेण पदं सङ्केत्यते । वर्णाव्यभिचरितचारित्रम् असाधारणवर्णक्रमापेक्षितसङ्केतसमयं हि पदम् । वर्णसङ्केत एव तस्य सङ्केतः । इयन्त एते वर्णाः सर्वाभिधानशक्तिपरिच्युताः विशिष्टसास्नादिमदर्थप्रतिपादकासाधारण
पदावभासनव्यापारपरत्वादेव अपरपदान्तरप्रतिपादकशक्त्यन्तरेभ्यः परिच्युताः निवृत्ताः इतरेतरविशेषविनियोगपरवशावेशादुदासीनपदान्तरप्रकाशनशक्तयः गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्ति पदमभिव्यञ्जयन्तः ॥
तदेषामर्थसङ्केतेनावच्छिन्नानाम् अभिहितेन न्यायमार्गेण अनुगृहीतध्वनिक्रमाणां विशिष्टानुपरिपटिसमायोगिनाम् इत्थंक्रमविशेषक्रमलब्धजन्मनां वर्णानां सम्बन्धः य एको बुद्धिनिर्भासः बुद्धेर्निर्भासः तत् पदं भूमिः (भूमिषुमेव) भूमिकेव वाचकं वाच्यस्य न वर्णाः । वर्णद्वारेण तु सङ्केत्यते ॥
तत् पदमेकम् एकमपि, यद्वस्तु सावयवं घटादि तदनेकबुद्धिविषयं दृष्टं, न तु पदं तथा । तत् एकबुद्धिविषयं सर्वलोकप्रत्यक्षम् । वर्णाः पुनरनेकत्वादयुगपत्कालजन्मानः एकबुद्धिविषयतां न समुपाश्नुवते । यस्त्वेवमेकबुद्धिनिर्ग्राह्यमनुमानेन
निराचिकीर्षति, तस्य प्रत्यक्षविरोधिनी प्रतिज्ञा स्यात् ॥
एवम् एकप्रयत्नाक्षिप्तं वर्णक्रमजन्मप्रत्युपनीतसंस्कारनिमित्तबुद्धिपरिपाकाभिसमीक्षया पश्चिमबुद्धौ झटिति परिस्फुरितं, अविभागं अवयवशून्यं, अत एव अक्रममवर्णात्मकमन्त्यवर्णप्रत्ययव्यापारोपस्थापितम् आद्यवर्णव्यापारपरम्परानुगृहीतपश्चिमवर्णग्रहणमात्रप्रत्युद्भासितम् ॥
परत्र परबुद्धिप्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः अभिधातृभिः, श्रूयमाणैश्च श्रोतृभिः, अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत् संप्रतिपत्त्या प्रतीयते । (नापि) अनादिसंसारचक्रमण्डले परिवर्तते । शब्दादेवार्थप्रतिपत्तिपूर्वको व्यवहारः, तद्वासनावासितया लोकधिया सिद्धवत् प्रतीयत इति, लौकिकानां सम्मुग्धाकारप्रवर्तितव्यवहारमात्रचरितप्रयोजनानां आत्मनीव पदे विप्रतिपत्तिः ॥
तस्मात् [पदं] वर्णव्यतिरिक्तम्, एकबुद्धिनिर्ग्राह्यत्वे सति प्रत्यायकत्वात्, प्रदीपवत् । अर्थप्रतिपत्तौ च कारणत्वात्, प्रदीपवत्, बुद्धिवच्च । न वर्णाः पदम्, एकेन कर्त्रा क्रमेण प्रयुज्यमानत्वात्, करणत्वाच्च, वासीवृक्षादानादिवत् ॥
अत्र कश्चित् आह—
वर्णा वा ध्वनयो वापि स्फोटं न पदवाक्ययोः ।
व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥
सत्त्वात् घटादिवच्चेति साधनानि यथारुचि ।
लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥
नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः ।
घटादिवन्न दृष्टेन विरोधो धर्म्यसिद्धितः ॥
प्रतिषेधेत् तु यो वर्णास्तज्ज्ञानानन्तरोद्भवात् ।
दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
वर्णोत्था वाऽर्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।
यादृशी सा तदुत्था हि धूमादेरिव वह्निधीः ॥
दीपवद्वा गकारादिर्गवादेः प्रतिपादकः ।
ध्रुवं प्रतीयमानत्वात्तत्पूर्वं प्रतिपादनात् ॥” इति ।
अत्रोच्यते—वर्णा वा ध्वनयो वाऽपि स्फोटं न पदवाक्ययोः इति, पदं वाक्यं वा स्वतस्तावत् न प्रसिद्धम् । तत्रासति वर्णव्यतिरिक्ते पदे वाक्ये वा, पदवाक्ययोः स्फोटं न व्यञ्जयन्तीति कथं चेतस्विनां वचनावकाशः स्यात् । एवं च सति, उद्दिश्य पदवाक्ययोः स्फोटं प्रतिषेधता पदं वाक्यं चाभ्युपगतं भवेत् ॥
अथापि पराभिप्रायेणोच्येत, तथाऽपि सिद्धसाध्यता । न परस्य पदवाक्ययोरन्यः स्फोटो विद्यते, यः प्रतिषिध्येत । पदवाक्ये एव हि तस्य स्फोटः ॥
अथापि ब्रूयात्—अर्थावच्छेदका विशिष्टक्रमोपनिवेशिनो वर्णाः पदं वाक्यं च प्रतिषिध्यते इति । तच्च न युक्तम्, स्वतो विरोधात् ॥
अथाऽपि ब्रूयात्—वर्णव्यतिरिक्तं पदं वाक्यं वा प्रतिषिध्यते इति । तथाऽपि व्यतिरिक्तमुद्दिश्य तस्य व्यञ्जनप्रतिषेधात् व्यतिरिक्तपदवाक्याभ्युपगमः प्रसक्तः ॥
1. “ध्वनिमात्रोपादाने शङ्खादिध्वनीनां स्फोटाभिव्यञ्जकत्वस्य परैरनिष्टत्वादंशे सिद्धसाध्यत्वं स्यात् । तन्मा भूदिति पदवाक्ययोरिति विशेषणम्, पदवाक्ययोर्वर्तमाना वर्णा ध्वनयो वा स्फोटं नाभिव्यञ्जयन्तीत्यन्वयः ” इति श्लोकवार्तिकव्याख्यायां न्यायरत्नाकरे पार्थसारथिमिश्राः ॥
अथाऽपि परकल्पितपदवाक्यप्रतिषेधः, एवमपि व्यञ्जकत्वादित्यसिद्धो हेतुः । कथम् ? स्वात्मव्यतिरिक्तस्य वा पदस्य व्यञ्जकत्वं, अव्यतिरिक्तस्य वा व्यञ्जकत्वं, अर्थस्य वा व्यञ्जकत्वं वर्णानामिति त्रयी विकल्पना । यदि व्यतिरिक्तस्य व्यञ्जकत्वं, तदा स्वतोऽसिद्धः स्यात् ॥
अथाव्यतिरिक्तस्य, तथाऽपि परस्यासिद्धः । किं च, व्यञ्जकत्वाच्च व्यतिरिक्तस्यैव व्यञ्जकत्वं, नाव्यतिरिक्तस्य, प्रदीपादेरिव । अन्यव्यञ्जनार्थं हि व्यञ्जकः प्रदीपादिरुपादीयते, न स्वात्मव्यञ्जनाय । स्वात्मव्यक्त्यर्थं चेदुपादास्यते, जनुषाऽन्धस्यापि व्यज्येत ॥
अथ व्यतिरिक्तव्यञ्जकत्वे सिद्धे, पदस्य व्यञ्जका भवेयुः, अर्थस्य वा । तत्रानेकसाध्यं यथा शिबिकोद्वहनादि, तत् अन्यतमेन न शक्यं अनुष्ठातुं, एवमन्यतमेन वर्णानामर्थस्य प्रतिपादनमनेकसाध्यत्वादशक्यमिति प्रतिपादितम् ॥
न च कूपखानकन्यायेनापि कंचित् कंचित् व्यङ्ग्ये संस्कारमाधाय वर्णा निवर्तन्ते इति शक्यं वक्तुम् । अभिधेयस्यैकबुद्धिविषयत्वात् ॥
यथा च सुगतकृतान्ते प्रध्वंसमानं विज्ञानमुत्पत्स्यमानस्य विज्ञानस्य संस्कारमाधातुमपर्याप्तं, स्थितस्य धर्मिणः कस्यचिदभावात् । एवमन्योन्यसंबन्धाभावादयुगपत्समयजन्मनां वर्णानां पूर्वस्य पूर्वस्य विनश्यत उत्तरस्योत्तरस्य चोपजनिष्यमाणस्य बलाधानानुपपत्तिरिति नार्थस्य व्यञ्जका वर्णाः ॥
परिशेषात् पदस्यैव व्यतिरिक्तस्याभिव्यञ्जितारः इति स्थितधर्मः । अस्माकं तु स्थिते धर्मिणि चेतसि पूर्वपूर्ववर्णप्रत्युपस्थितसंस्कारपरम्परापरिपाकविशारदे पश्चिमवर्णजन्मवेलायां निरवयवमेकबुद्धिनिर्ग्राह्यबुद्धिनिर्भासात्मकं झटिति समुन्मिषतीति न संस्काराधानासामर्थ्यदोषप्रसङ्गः ॥
किं च, यद्यपि वर्णाः स्वबुद्धिं व्यञ्जयन्ति । सा बुद्धिरर्थप्रतीतिं प्रति करणभूतैवाभिव्यज्यते, न तु फलं प्रति वर्णाः करणत्वेन व्याप्रियन्ते । करणभूतबुद्ध्युत्पादनोपक्षयत्वात् । बुद्धेरेव हि फलं प्रति व्यापारः । यस्य हि फलं प्रति व्यापारः तत् प्रमाणं, स शब्दः । ततश्च अर्थप्रतीतिं प्रति कारणभूतबुद्धिव्यवहितत्वात् न वर्णानां वाचकत्वम् । परम्परया तु पदं प्रत्युपायत्वं न वर्णानां प्रतिषिध्यते ॥
तस्मादेवमयं श्लोकः पठितव्यः—
वर्णा वा ध्वनयो वाऽपि भिन्नमेवार्थमात्मनः ॥
व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥
तथा, घटादीनामप्यर्थान्तरप्रत्युपस्थानमात्रत्वमभ्युपगम्यत एव । घटादयो हि दर्शनमात्रेण पचनाहरणधारणादियोग्यताबुद्धिम् अन्यद्वा किंचित् उपस्थापयन्त्येव । तथा वर्णानां पारम्पर्येण आत्मव्यतिरिक्तपदप्रत्युपस्थापकत्वं सत्त्वात् घटादिवदिष्यत एवेति तुल्यमेतदपि ॥
सत्त्वाद्घटादिवच्चेति साधनानि यथारुचि ।
लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥
सर्वथा जातिर्वा बुद्धिर्वा भवतु, यतो वा कुतश्चित् उच्चारितप्रध्वस्तवर्णानसंभविनो वर्णव्यतिरिक्तात् अर्थप्रतिपत्तिः, स स्फोटः । स च अवश्यं वर्णासंभावित्वात् कार्यस्याभ्युपगमनीयः । तथा च—
‘नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः’
इति ब्रुवतोऽभ्युपगमविरोधः स्यात् । अपि च, वर्णेभ्यो व्यतिरेकतः इत्यन्यतरासिद्धः । स्वतो व्यतिरेकस्यासिद्धत्वात् ॥
किं च, नामाख्यातोपसर्गनिपातपदजातिचतुष्टयमभ्युपगच्छता जातिव्यञ्जकं वर्णव्यतिरिक्तम् अन्यदभ्युपगन्तव्यम् । न वर्णाः पदजातिमभिव्यञ्जितुमुत्सहन्ते । वर्णा हि वर्णजातिमभिव्यञ्जयन्ति । न चावयवेषु भिन्नकालजन्मविनाशेष्ववयविजातिव्यञ्जनमुपपद्यते । व्यवस्थितेष्वपि नाम तावदवयवेषु न पाणिपादादयः शरीरदृते शरीरत्वमभिव्यञ्जयन्ति । किं पुनरनवस्थितेषु ॥
किं च, अश्वः अयातमयातमक्षः भवति, तेन मम वायुर्वायुः, इत्यादिषु तुल्यस्वरूपेषु नामत्वाख्यातत्वे परस्परविरुद्धजातीये नैक एव वर्णोऽभिव्यनक्ति ॥
यदि वा अश्वः इति नामजात्या अभिव्यञ्जकाः अकारशकारवकाराकारविसर्जनीयाः आख्यातजात्यभिव्यञ्जकेभ्यो भिन्ना भवेयुः, तदा उपपद्यते भिन्नानां भिन्नजात्यभिव्यञ्जकत्वम् । तदेकत्वे नोपपद्यते ॥
यद्यपि अर्थप्रकरणशब्दान्तरसन्निधानादिभिः इदं नाम इदमाख्यातं इति परिकल्प्येत, तथाऽपि नामाख्यातजात्यभिव्यक्तिम् अर्थप्रकरणादिभिरेक एव वर्णो न शक्नोति कर्तुम् । न हि ब्राह्मण एव ब्राह्मणत्वं क्षत्रियत्वं चाभिव्यनक्ति ॥
तस्मात् भिन्ना अकाराः शकारा वकारादयश्च बहव एषितव्याः । एवं गोशब्दादयोऽपि भिन्ना एव । तथा गोशब्दत्वमश्वशब्दत्वं च सिद्धम् । एवं अत्वमात्वमित्वमीत्वं च सिद्धम् । एवं च सति अकारादयो वर्णा अत्वादीन्येव सामान्यान्यभिव्यञ्जयन्ति । नाश्वादीन् नामाख्यातजातिभेदानिति ॥
तस्मात् वर्णव्यतिरिक्तं पदत्वसामान्याभिव्यञ्जकं पदमभ्युपगन्तव्यम् । एवं च सत्येष श्लोक एवं पठितव्यः—
प्रतिषेधेत् तु यः स्फोटं वर्णधीसमनन्तरम् ।
दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
वर्णोत्थाऽवर्णधीरेषा तज्ज्ञानानन्तरोद्भवा । इति ॥
करणबुद्धिव्यवहितत्वादनन्तरोद्भवत्वमसिद्धम् । पारम्पर्येण चेत् सिद्धसाध्यता । धूमस्यापि न वह्निधियं प्रति कारणत्वम् । धूमधियः कारणत्वात् । धूमादीनां पारम्पर्यवत् वर्णादीनामपि पारम्पर्येणोपकारकत्वमिष्यत इत्युक्तम् ॥
तस्मादयमपि श्लोक एवं पठितव्यः—
वर्णोत्था नार्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।
येदृशी सा तदुत्था न धूमादेरिव वह्निधीः ॥
न च दीपवत् सन्निपत्य गकारौकारौ सास्नादिमदर्थव्यञ्जकौ । अर्थव्यक्तिकालानवस्थानादनयोर्दृष्टो व्यभिचारः विसर्जनीयविषयेऽपि समुन्नीयते निरवस्थानादि । वर्णा नार्थव्यक्तिसमानकालावस्थायिनः, प्रदीपस्तु व्यङ्ग्यकालेन तुल्यकालावस्थानः कारणत्वं प्रतिलभते ॥
तस्मादयमप्येवं श्लोकः पठितव्यः—
दीपवद्वा गकारादिर्गवादीनामवाचकः ।
ध्रुवं प्रतीयमानत्वात् तत्पूर्वं प्रतिपादनात् ॥
प्रमाणं चात्र भवति—अर्थस्य न वाचकाः, नाप्यर्थं प्रति प्रमाणं वर्णाः, साक्षात् सङ्केतापेक्षत्वात्, अङ्कप्रतिमादिवत् । यथा शताद्यङ्का विष्णुप्रतिमाश्च सङ्केतापेक्षा आगममेवावद्योतयन्ति । न विष्णुशताद्यर्थं प्रति प्रमाणत्वमुपयान्ति ॥
यत्तु नापेक्षते सङ्केतं, तत् प्रमाणम्, यथा वाक्यं, दीपादिजात्यन्तरं च । न तथा वर्ण इति प्रतिमावदेषां अप्रामाण्यमापातितम् । तथा, वर्णा अर्थप्रतिपादकमात्मव्यतिरिक्तमभिव्यञ्जयन्ति, साक्षात् सङ्केतापेक्षत्वात्, अङ्कविष्णुप्रतिमादिवत् । स्फोटः तत्सङ्केतं न साक्षादपेक्षते इत्यवादिष्म ॥
तस्य सङ्केतबुद्धितः प्रविभागः, एतावतामेवंजातीयकोऽनुसंहारः एतस्यार्थस्य वाचक इति । सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः सोऽयं शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति ॥
एवमितरेतराध्यासरूपः सङ्केतो भवतीति । एवमेते शब्दार्थप्रत्ययाः इतरेतराध्यासात् सङ्कीर्णाः, गौरिति शब्दो, गौरित्यर्थो, गौरिति ज्ञानम् । य एषां प्रविभागज्ञः, स सर्ववित् ॥
तस्मादेवम् अनेकयुक्तिपरिवारप्रत्युपानीतबलाधानं कः स्फोटम् अपाकर्तुं शक्नोति ॥
तदेवं गते भाष्यमिदानीमुच्यते—तस्य पदस्य सङ्केतबुद्धितः प्रविभागः । शब्दार्थज्ञानव्यतिभिन्नरूपा हि सङ्केतबुद्धिः । तस्याः सकाशात् पदस्य प्रविभागः करणीयः ॥
सङ्केतरूपं दर्शयति—एतावतां वर्णानाम् एवंजातीयकोऽनुसंहार एतस्यार्थस्य वाचकः इति । यथा अयमङ्कः शतं सहस्रं, विष्णुरेषा प्रतिमा इति च ॥
संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मा, न प्रमाणभूतः । यथा विष्णुरेषा प्रतिमा, एष एव चतुर्भुज इति, तथा प्रत्यय उभयमिदं उभयं नु प्रत्यय इत्यन्योन्याध्यस्तरूपा विष्णुप्रतिमाप्रत्ययाः ॥
तथा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः स शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति, एवमितरेतराध्यासरूपः संकेतो भवति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णाः । तद्यथा गौरिति शब्दो, गौरित्यर्थो, गौरिति ज्ञानम् इति ॥
य एषां शब्दार्थप्रत्ययानां प्रविभागज्ञः, स सर्वज्ञः । कस्मात् ? अशक्यत्वात् प्रविभागज्ञानस्य । न ह्यसर्वज्ञः शक्नोति प्रविभागेन तानवगन्तुम् ॥
सर्वपदेषु चास्ति वाक्यशक्तिः, वृक्ष इत्युक्ते अस्तीति गम्यते ।
न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्यसाधना क्रिया अस्ति इति ।
सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्ते अस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ॥
किमर्थमेतदुच्यते ? इह सर्वभूतरुतज्ञानोपायः प्रतिपिपादयिषितः । सर्वभूतरुतं च वाक्यार्थविषयमेव, न पदार्थविषयम् । पदानां केवलानां वर्णानामिवानर्थकत्वात्, संव्यवहाराभावाच्च । यथैव वर्णानां वर्णान्तराभिसमीक्षया पदावद्योतनप्रयोजनवत्त्वम्, एवं पदानामपि पदान्तरापेक्षया वाक्योपस्थापनोपायत्वम् । एवं सति वाक्यस्यैव प्रामाण्यं, केवलपदप्रयोगेऽर्थाप्रतीतेः ॥
किं च, केवलं पदमप्रमाणं, तावता निर्णयाभावात्, एकैकवर्णवत् । नापि पदं वाचकम्, सङ्केतार्थापेक्षत्वात्, शताद्यङ्कवत् । नामाख्याते केवले न वाचके, केवलाप्रयोगात्, उपसर्गवत् । यत्रापि केवलं पदं प्रयुयुक्षितं तत्राप्यवश्यम्, अस्ति तिष्ठति देवदत्त इत्यादिपदं बुद्धौ विपरिवर्तत इति न केवलाप्रयोगसिद्धिः ॥
प्रलम्बते, पर्यागच्छति, अभ्यागच्छति, इत्यादिषु उपसर्गकर्मप्रवचनीयानां न कश्चिदर्थः । तथा अभिमनायते, सुमनायते, दुर्मनायते, इत्यादिषु च उपसर्गाणां द्योतकत्वं सिद्धम् । तथा, प्रतिष्ठते, अधीत इत्यादिष्वप्युपसर्गाणां द्योतकत्वमेव न वाचकत्वमिति । तथा न ह्यसाधना क्रिया अस्ति । केवलकर्मप्रयोगे किमपि साधनं द्रव्यं गुणो वावगम्यते ॥
किं च, प्रकृतिप्रत्ययानामनवस्थितावधिकत्वात् व्यभिचारादवाचकत्वम् । तद्यथा—दरिद्रातिः केषाञ्चित् द्रव्यमात्र एव पठ्यते । दरिद्रशब्दस्तु निपातोपसर्गस्थानीयः पुनरागच्छति, द्राति, निद्राति, दरिद्राति, इति । तत्र का प्रकृतिरिति वक्तव्यम् । किं (द्राक्त्विदं) द्रा, इति, किं वा दरिद्रेति । केषाञ्चित्तु दरिद्रेत्येतावत् पठ्यते । तथा द्राशब्दोऽपि पृथगाम्नायते ॥
एवमस्ति सकारमात्रं पठन्ति । वीति च प्रत्यये कारमागमं कुर्वन्ति । केचित्तु सह कारेण पठित्वा (अविति) वीति च प्रत्यये लोपं कारस्य कुर्वन्ति । तत्र का प्रकृतिरिति वक्तव्यम् । न निर्ज्ञायते । प्रकृत्यवधौ प्रत्ययावधौ वा
प्रकृतिप्रत्ययार्थौ शक्यौ विवेक्तुम् ॥
35 क्वचिदुपसर्गोऽपि ‘असंग्रामयत शूर’ इत्यादिषु प्रकृत्येकदेशतामापन्नः । तथा, अततेर्नः, अः, अस्यापत्यमिः, इयान्, अधुना, इत्यादौ कः प्रकृत्यर्थभागम् असत्यां प्रकृतौ ब्रूयात् । अग्निचित्, सोमसुत्, भिदा, छिदा, अथो, कति, अमा, पच, पठ, इत्यादिषु प्रत्ययार्थमसति प्रत्यये को ब्रूयात् ॥
एवमादिषु लक्षितापचाराणां प्रकृतिप्रत्ययानां कः शक्नुयादर्थवत्त्वं कल्पयितुम् । अत्र भवतु नान्यत्रेति नार्धजरतीयं लभ्यम् । उद्दालकपुष्पभञ्जिकापारं न पुष्पप्रचायिका, इत्यत्र कः पूर्वपदोत्तरपदार्थः ? प्रज्ञः, संज्ञ, इत्यादिषु प्रत्यन्वयोऽपि नास्तीति कस्य कोऽर्थः ? इति ॥
ऋषभो, वृषभो, वृषः, उदकं, उदकुम्भः, क्षीरोदः, यावो, यावकः, कूपः, सूपः, यूपः, इत्यादिषु कस्य कोऽर्थः इति वक्तव्यम् । दध्यशान, मध्वत्र, इत्यादिषु, किमवधि किं पदं वाचकम् ? ॥
तस्मात् सर्वत्र दृष्टापचाराणां वर्णप्रकृतिप्रत्ययपदानाम् अनर्थकानाम् अदृष्टापचारनिरवयववाक्योपायत्वमेव । तानि निःसन्धिबन्धनात् निरवयवात् मिथ्याभूतवर्णपदध्वनिकृतचित्रीभावाद्वाक्यादपोद्धृत्य व्याकरणीयानि ॥
तानि च वाक्यस्यानवयवभूतानि, उपायत्वात् वाक्यावयववदवभासमानानि, यावत्फलम् असत्त्वात् शताद्यङ्कवदेव मिथ्याभूतानि, अनुच्चार्यमाणवाक्यावद्योतनार्थं करणसन्निपाते विशेषेणोपादाय परिहीयमाणानि, स्वकीयक्रमनिष्पत्तिविनिवृत्तिकालादिभेदविचित्रतया वाक्यात्मानं क्रमवन्तमिव, निष्पद्यमानमिव, निवर्तमानमिव, द्राघीयांसमिव, कालवन्तमिव, भेदवन्तमिव, विचित्राकारतामापादयन्ति ॥
एवं च सति, यदुच्यते शशविषाणादपोद्धृत्य खरविषाणस्य, किं तदिति एतदलीकं, यथैव मृगतृष्णिकातोयमलीकमपि सत्यादूषरादपोद्ध्रियते, यथा च स्थाणोः पुरुषः, पुरुषाच्च स्थाणुः, शुक्तिकातश्च रजतमपोद्ध्रियते, यथैव च मृगतोयादयो यथाभूतोषरादिवस्तुप्रतिपत्तिहेतवः, तथा वर्णपदप्रकृतिप्रत्यया यथाभूतवाक्यार्थप्रतिपत्तिकारणे तत्प्रतिपत्तौ चापोद्ध्रियन्ते ॥
क्वचिदर्थप्राप्तमपोद्ध्रियते, यथा मृगतोयादिकम् । क्वचित्तु प्रयोजनत्वेन विवक्षितं, यथा शतादिसङ्ख्यातः शताद्यङ्कापोद्धारः क्रियते, यथा च लिप्यक्षराणि सङ्केतापेक्षत्वात् कृतसमयरूपाणि अकारादिवर्णादपोद्ध्रियन्ते । अथ च सर्वाण्येतानि यथाभूतार्थप्रतिपादनोपायत्वं प्रतिपद्यन्ते । न च तावता मिथ्यात्वमेषां नास्ति । तथा पदादीन्यपि ॥
यो हि प्रकृतिप्रत्ययपदवर्णानां संकेतद्वारेणान्योपायानां मिथ्याभूतलिप्यक्षरकल्पानां स्वयमपि स्वसंकेतेन वाक्यार्थप्रतिपत्त्युपायमनेकधा निर्माय व्यवहरमाणः सत्यत्वमेषां मन्यते, नूनमसावभ्रे चन्द्रमसं दिदृक्षमाणः चन्द्रदर्शनोपायभूतमभ्रमपि चन्द्रत्वेन प्रतिपद्यत इति ॥
यथा च वाक्यमेव सत्यं, तथा वाक्यार्थस्यैव सत्यत्वं, न पदानि, पदार्था वा केवलाः, सत्यत्वमुपयान्ति । सर्वमेव सामान्याविशेषात्मकं वस्तु । न हि सामान्यव्यावृत्तो विशेषः, विशेषव्यावृत्तं वा सामान्यमस्ति । गौरित्युक्ते अस्तीति गम्यते । तेन केवलपदप्रयोगेऽप्यन्तर्नीतपदान्तरार्थो वाक्यार्थ एव प्रतीयते, न केवलपदार्थः ॥
एवं च सति
पदार्था गमयन्त्येतं प्रत्येकं संशये सति ॥ सामस्त्ये निर्णयोत्पादात् स्थाणुमूर्धस्थकाकवत् ॥
इत्यसिद्धमस्माकम् । न हि स्थाणुर्नाम वाक्यार्थः पृथक्पदार्थत्वेन प्रसिद्धः । यस्मात् वृक्षः सन् स्थाणुः सन् मूर्धा सन् काकः सन् मूर्धनि स्थाणोः इत्यन्तर्नीतप्रतीयमानपदान्तरास्थानपेक्षायां स्थाणुमूर्धस्थकाकबुद्धिरेव न स्यात् । सत्स्वपि तेषु सद्बुद्धिसमुत्पत्तेः सत्पदार्थान्तरबुद्धिरवश्यंभाविनी ॥
तस्मात् वाक्यार्थ एव प्रत्येकमपि संशयात्मक इति कुतः पदार्थाः प्रत्येकमसन्तो वाक्यार्थं गमयेयुः । तस्मादेवमयं श्लोकः पठितव्यः—
वाक्यं तु गमयत्येनं प्रत्येकं संशये सति ॥ सामस्त्ये निर्णयोत्पादात् स्थाणुमूर्धस्थकाकवत् ॥
एवम्—
वाक्येनैवोच्यते तस्मात् वाक्यार्थोऽन्यैररूपणात् ।
अन्ते चास्तीति बोधाच्च वृक्षेणैव च वृक्षता ॥
यत्तु—पलाशशब्देन वृक्षता नोच्यते इति, सत्यमेवमेतत् । न हि पलाशवाक्येन वृक्षवाक्यार्थस्याभिधानम् । भिन्नविषयत्वात् । अन्यो हि पलाशवाक्यार्थः पलाशोऽस्ति तिष्ठतीति वा । अन्यो वृक्षवाक्यार्थः । यदा च पदवर्णानां निरवयवानां पृथगस्तित्वमभ्युपगम्यते, तदा निरवयववर्णपदोपादानं वाक्यं सावयवं कथमवकल्पेत । न हि क्रियाकाशादिभिः सावयवं शक्यमारब्धुम् । अथ सावयवत्वमभ्युपायिष्यते, तत्रापि दोष एव प्रसज्येत ॥
नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति । दृष्टं च वाक्यार्थे पदम् । श्रोत्रियः छन्दोऽधीते, जीवति प्राणान् धारयति इति वाक्ये पदार्थाभिव्यक्तिः । ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवति, अश्वः, अजापयः, इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेत इति ॥
सद्भावे पदवर्णानां भेदो यः परमाणुवत् ।
सर्वाभावस्ततश्चेति सेयं बालविभीषिका ॥
परमाणूनां सत्त्वादिधर्ममात्रत्वाभ्युपगमात् विवृत्य सुष्टु भाषामहे—सेयं वृद्धविभीषिकेति ॥
अथ केवलपदप्रयोगे पदार्थान्तरस्यापि संग्रहात् किमनेकपदप्रयोगेणेति चेत्, नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानां क्रियावचनात् साधनानि विद्यन्त इत्यर्थप्राप्तानां नियमः, चैत्र एव कर्ता, अग्निनैव करणेन, तण्डुलानेव कर्म, इति ॥
अपि च नियमार्थमात्रे(मन्तरे)णानुवादः । दृष्टं च वाक्यार्थे केवलं पदम् । यथा श्रोत्रियः छन्दोऽधीते इति । साधनवचनमेव केवलश्रोत्रियपदं छन्दोऽधीते इत्यस्मिन् क्रियासाधनसमुदाये वर्तते । तथा जीवति इति क्रियापदमाक्षिप्तक्रियासाधनविशेषम् । (छत्रं) छन्दोऽधीते, प्राणान् धारयति, इति वाक्ये श्रोत्रियो जीवतीति च पदार्थाभिव्यक्तिः । सर्वथा सर्वपदेषु वाक्यशक्तिरित्यङ्गीकृतपदान्तरार्थान्येव सर्वाणि पदानीत्येतदुच्यते ॥
तस्मात् क्वचित् क्रियापदेनैव साधनमुपक्षिप्तम् । क्वचिच्च नामपदेनैव क्रिया अभिहिता । तस्मात् तेषां विभागो दुरवबोध इति । ततः वाक्यात् प्रविभज्य [पदं] व्याकरणीयं क्रियावाचकं वा जीवतीत्यादि, कारकवाचकं वा श्रोत्रियः क्षत्रियः इत्यादि ॥
अन्यथा यदि वाक्यात् प्रविभज्य न व्याक्रियेत, तदा ततो भवत्यश्वोऽजापयः इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्या[क्रि]प्रियेत । भवति निधेहीति सर्वनाम्नः शत्रन्तस्य वा सप्तम्यां रूपम् । भवति बीजादङ्कुर इत्याख्यातम् ॥
तेषां शब्दार्थप्रत्ययानां विभागः । तद्यथा—श्वेतते प्रासाद इति क्रियाऽर्थः । श्वेतः प्रासाद इति कारकार्थः । क्रियाकारकात्मा तदर्थः प्रत्ययश्च । कस्मात् ? सोऽयमित्यभिसम्बन्धात् अभेदाकारप्रत्ययः सङ्केत इति ॥
यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि स्वाभिरवस्थाभिः विक्रियमाणः न शब्दसहगतो न बुद्धिसहगतः ।
अश्वश्चरतीति जातिवाचकम् । अश्वस्त्वं ग्राममिति श्वयतेर्लुङन्तस्य मध्यमपुरुषैकवचनान्तस्य प्रयोगः । अजापयः पीयतामिति नामपदम् । अजापयस्त्वं राजानमिति जपतेर्णिजन्तस्य लङ्मध्यमपुरुषैकवचनान्तस्य रूपम् ॥ तेषां शब्दार्थप्रत्ययानां सङ्करं प्रदर्श्य विभागः प्रतिपाद्यते—श्वेतते प्रासाद इति क्रियार्थः । श्वेतः प्रासाद इति कारकार्थः । क्रियाकारकत्वाद्वस्तुनः श्वेतते श्वेत इति च क्रियार्थेन च कारकार्थेन चाभिधानम् ॥
यथा शब्दः क्रियाकारकात्मा, यः श्वेतः स श्वेतते यः श्वेतते स श्वेतः इत्येवं क्रियाकारकाव्यतिरिक्तः एकः शब्दः, तथा अर्थः तद्वाच्यः क्रियाकारकात्मा । तथा तद्विषयः प्रत्ययः क्रियाकारकात्मा । तथा अर्थः शब्दप्रत्ययात्मा । प्रत्ययोऽपि शब्दार्थात्मा । कस्मात् ? सोऽयमित्यभिसम्बन्धात् । योऽर्थः स शब्दः, यः शब्दः सोऽर्थः प्रत्ययश्च, यः प्रत्ययः सोऽर्थः शब्दश्च, इत्येवं अभेदाकारप्रत्ययः स्मृत्यात्मा सङ्केतः इति । एवं सङ्कररूपतः प्रविभागः कार्यः ॥
कथम् ? यस्तु श्वेतोऽर्थः श्वेतगुणः प्रासादादिरर्थः स शब्दप्रत्यययोः आलम्बनीभूतः वाच्यत्वेन विषयत्वेन च । स हि स्वाभिरवस्थाभिः नवपुराणत्वादिभिः विक्रियमाणः न शब्दसहगतो न अपि बुद्धिसहगतः । शब्द-
एवं प्रत्ययः एवं शब्दः नेतरेतरसहगत इति, अन्यथा शब्दः, अन्यथा अर्थः, अन्यथा प्रत्ययः, इति प्रविभागः । एवं तत्प्रविभागसंयमात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥