प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
अथ क्लिष्टपङ्क्तिमध्य(मानु)जन्मानोऽक्लिष्टा वृत्तयः किं क्लिष्टा एव क्षीरकुम्भप्रक्षिप्ताम्बुबिन्दुवत् ? एवमक्लिष्टप्रवाहपतिता अपि क्लिष्टाः किमक्लिष्टा एव ? किं चातः ; यदि क्लिष्टप्रवाहगता अक्लिष्टाः क्लिष्टाः स्युः, तदा वृत्तिसंस्कारानुविधायिनी स्मृतिः, तदनुरूप एव व्यवहारः । स चापि न सिध्यति स्वरूपव्यभिचारे । तस्मादाह-क्लिष्टच्छिद्रेष्वप्यक्लिष्टाः अक्लिष्टा एव भवन्ति । अक्लिष्टच्छिद्रेषु अपि क्लिष्टाः क्लिष्टा एव । यस्मादेवं तस्मात् तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते ॥
यद्यपि क्लेशादयोऽपि संस्कारमारभन्ते, तथापि वृत्तिद्वारैव तेषामपि संस्कार इति वृत्तिभिरेवेत्येवकारार्थः । तथा संस्कारैरपि वृत्तयः स्वानुरूपं क्रियन्त इत्येवं-वृत्तिसंस्कारचक्रमनिशमनवरतमावर्तते । तदेवंभूतं चित्तं एवं हेतुहेतुमद्वृत्तिसंस्कारधर्मकम् । अवसिताधिकारं-निवृत्ताविद्याहेतुप्रवृत्तिकं हेतुमात्रावस्थत्वात् । आत्मकल्पेन-पुरुषकल्पेन ख्यातिमात्रेणैव कञ्चित्कालमवतिष्ठते-प्रारब्धसंस्कारशेषानुवृत्त्या । प्रलयं वा गच्छति -संस्कारावसानादिति ॥ ५ ॥
काः पुनस्ताः क्लिष्टाक्लिष्टाः पञ्चप्रकारा वृत्तय इत्याह--प्रमाणविपर्यय- विकल्पनिद्रास्मृतय इति ॥
एतावत्य एव वृत्तयः । तत्र-प्रत्यक्षानुमानागमाः प्रमाणानि ॥ प्रमाणाख्या वृत्तिस्त्रिधैव भिद्यते । तत्र प्रमाणाख्यायाश्चित्तवृत्तेः प्रथमो भेदः
इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।
प्रत्यक्षम् । अतस्तल्लक्षणमेवाभिधीयते । तत्पूर्वकत्वात् भेदद्वयस्य ॥ इन्द्रियप्रनाडिकया ॥ इन्द्रियमिति श्रोत्रादिपञ्चकं न कर्मेन्द्रियं, तस्य चित्तवृत्त्यहेतुत्वात् । क्रियार्थं हि तत् । तस्मादिन्द्रियशब्दस्य सामान्यार्थत्वेऽपि चित्तवृत्तेरुपव्याचिख्यासितत्वाच्छ्रोत्रादिविषयतैव । वृत्त्यर्थत्वाच्च श्रोत्रादीनाम्। इन्द्रियमेव प्रनाडिका द्वारं शब्दाद्याकारवृत्तिरूपेण परिणममानस्य चित्तस्य । अतस्तत् तेनेन्द्रियद्वारेण सामान्यविशेषात्मकबाह्यवस्त्वाकारतया परिणममानमुपरज्यते । तस्य तदुपरागाद्धेतोः चित्तस्य या मुद्राप्रतिमुद्रावत् वृत्तिः सामान्यविशेषात्मकवस्तूपरागेऽपि विशेषावधारणप्रधाना सैव प्रत्यक्षं प्रमाणम् ॥
अथ स्वविषयसामान्यविशेषावभासनसामर्थ्ये श्रोत्रादीनां चित्तस्य च किंकृतं विशेषावधारणप्राधान्यमिति ?
उच्यते-विशेषप्रतिबन्धत्वात् हानोपादानादीनां विशेषावधारणप्रधानतेति (तेत्याह)। न सामान्यं नावधार्यते, गुणभूतं तु गृह्यत एव । यथा नीलं रूपमिति नीलावधारणप्राधान्ये सत्यपि रूपमेव नीलमिति गुणभूतमवधारयति । तथा दुःखशब्दः सुखशब्दो मूढः शब्द इति । तथा च विशेषावधारणप्रधाना वृत्तिरिति ह्युपपद्यते ॥ किं च-संशयविपर्ययनिमित्तत्वाच्च सामान्योपलब्धेः। सामान्ये ह्युपलब्धे बुभुत्सितविशेषस्य संशयो जायते, समुपलब्धसामान्यान्यस्मृतेर्वा विपर्ययः,समधिगतविशेषस्य तु संशयविपर्ययौ न स्थितिमुपाश्नुवाते, इति विशेषावधारणप्रधानतोच्यते।।
यत्रापि सामान्यमेवावादिधारयिषितं गौरिति वा अश्व इति वा,
तत्राप्यन्यतरपरित्यागेनान्यतरावधारणेति विशेषावधारणप्रधानतैव । सर्वमेव हि वस्तु वस्त्वन्तरापेक्षया सामान्यं विशेषश्च ॥
यस्य पुनः सामान्यमवस्त्वध्यारोपितमेवोषराम्बुवत्, नेन्द्रियविषयमिति, तस्य प्रतिनियतसामान्याध्यारोपणानुपपत्तिः । न ह्यनुपलब्धपूर्व
मुख्ये संभवत्यध्यारोपणा, स्मृत्यसंभवात् । न कदाचिददृष्टमुख्योदकस्य सलिलाध्यारोपणमूषरेषु विद्यते । अथास्मरन्नप्यध्यारोपयेत् रूपस्वलक्षणे शब्दत्वाद्यप्यध्यस्येत् । अथेन्द्रियान्तरविषयत्वाद्रूपस्वलक्षणे शब्दत्वाद्यध्यासो विरुद्ध इति चेत्-न—अवस्तुत्वे सत्यविशेषात् । विशेषाभ्युपगमे च वस्तुत्वप्रसङ्गः । शब्दस्वलक्षणादिव रूपस्वलक्षणस्य ॥
किं चान्यत्-देशकालान्यविशिष्टप्रत्यक्षा[न]भ्युपगमे समस्तलोकव्यवहारविलोपः स्यात् । न हीदमहममुष्मिन्नवकाशे काले चास्मिन्नद्राक्षमेतस्मान्निमित्तादेवंविशेषणमिति च स्मृत्युपपत्तिः । न च प्रत्यक्षादृष्टेषु विशेष्यवद्विशेषणेषु स्मृतिः संभवति । न च कल्पनापोढेन व्यवहारगोचरातीतेन व्यवहरमाणो दृश्यते । तस्माल्लोकप्रसिद्धप्रत्यक्षानुसरणमेव न्याय्यम् ॥
ननु च योगिनां निर्विकल्पसमाधिजं दर्शनं, तस्यानेवंलक्षणत्वात्, तथा सुखरागादिविज्ञानस्य चानिन्द्रियप्रनाडी*पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यम् । उच्यते । प्रत्यक्षस्य (न प्रमाणस्य) पुरुषप्रत्ययापेक्षत्वेन परिहृतत्वात् । न ह्यप्रत्यया वृत्तिः प्रत्यक्षम् । चैतन्योदयहेतोरेव सप्रत्ययायाः प्रत्यक्षत्वम् । तथा चाह-‘फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोध’ इति ॥ एवं च सति सुखरागादिज्ञानस्य क्लिष्टाक्लिष्टरूपस्य तदविशिष्टपुरुषप्रत्ययफलावसानत्वात् प्रत्यक्षता सिद्धैव ॥
इन्द्रियप्रनाडिकाग्रहणं लौकिकप्रत्यक्षोद्भवानुवाद एव । अन्यथा हीन्द्रियनिरपेक्षस्य योगीश्वरयोर्ज्ञानस्याप्रत्यक्षता स्यात् । अस्ति हि क्लेशादिप्रतिबन्धाभावे सर्वार्थेन चित्तसत्त्वेन सर्वविषयेण युगपत्सूक्ष्मव्यवहितादिग्रहणम् । तथा चाह-‘तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्’ इति । तस्मान्नावधार्यते इन्द्रियप्रनाडिकयैवेति ॥
बाह्यवस्तूपरागादिति विपर्ययनिवृत्त्यर्थम् । विशेषावधारणप्रधानत्वेन संशयनिवृत्तिरिति ॥
तत्र केषांचित् फलं तदेव प्रमाणम् । अपरेषां तु प्रमाणादन्यत्(त्र) प्रमाणव्यक्त्यन्तरम् (रे) । यथा घटविज्ञानस्य प्रमाणस्य हानोपादानोपेक्षाबुद्धयः फलमिति । गुणदोषतदुभय(वदभव)शून्यत्वविषयत्वादुपादानादिबुद्धीनां प्रमाणभूतघटविज्ञानादत्यन्तभेदः । ततश्चान्यविषयस्य प्रमाणस्य अन्य(प्रमेयस्य)- विषयप्रमाण(णे)व्यक्त्यन्तरं(रे) फलमिति ॥
न हि खदिरच्छेदनस्य खदिरोपादानं तत्परित्यागो वा फलं भवितुं युक्तम् । वि(अपि)योगसम्बन्धफलत्वात् त्यागोपादानयोः । न च फलस्य फलं सम्भवति । द्वैधीभावफलव्यवहितत्वाच्च ॥
किं च-फलस्य चेत् फलं क्रियानपेक्षाप्रसङ्गः । फलार्थं हि क्रियापेक्ष्यते । तच्चेत्फलं विनापि क्रियया फलादपि सिध्यति, (अतोह्य) ततो न ह्यनेकायासापेक्षितनिष्पत्तिक्रियामनुतिष्ठेत् । साधनान्वेषणानुपपत्तिश्च । क्रियाया अभावात् ॥
फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः ॥
नापि क्रियैव फलं, क्रियानुपरमप्रसङ्गात् । फलावसाना हि (पि) क्रिया । क्रियायाश्च फलत्वे फलानभिलाषित्वप्रसङ्गः । तस्या दुःखत्वात् ॥
तस्मान्न प्रमाणस्वरूपमेव फलम्, नापि तद्व्यतिरिक्तप्रमाणान्तरमित्याह— फलं तदविशिष्ट इत्यादि । तदविशिष्टः तया प्रमाणाख्यया वृत्त्या अविशिष्टः तुल्यः तदाकारत्वेन, पौरुषेयः पुरुषस्यायं बोध इति । पुरुषस्य हि वृत्त्याकारता । तस्मान्नाक्रियाजं द्रव्यस्वरूपमात्रं फलम् । किं तर्हि ? द्रव्यस्यैवावस्थान्तरविशेषः (प्र)क्रियाजः(जा)क्रियापर्यवसानकालः क्रियोपरमोपपत्तेः फलम् । फलनिष्पत्तावेव हि क्रियोपरम उपपद्यते । एवंभूतस्य मुख्यफलत्वे प्रधानक्रियाव्यवहित(विप्रकृष्टायाः)क्रियाया द्रव्यं द्रव्यस्य वा क्रिया फलमित्यन्योन्यप्रत्युपस्थापकत्वेन प्रधानफलाभिमुखीकरणात् फलत्वोपचारो न विरोत्स्यते ॥
ननु च भवतोऽप्युपचरितमेव फलम् वृत्त्यविशिष्टतायाः फलत्वेनाभ्युपगमात्, पुरुषस्य च शुद्धत्वात्, तदाकारताया अनृतत्वम् । न हि स्फटिकमणेरलक्तकोपधानाकारता सत्या ॥
बाढम्—तथापि त्वेतदेव फलं मुख्यम्, दृष्टत्वात् । मुख्यफलान्तरादर्शनात् । सर्वस्यैव क्रियाकारकजातस्यैतत्फलार्थत्वात् । एतदवसानं हि तत्सर्वम् । तथा च प्रदर्शितम् ॥
ननु च मिथ्याभूतस्यैव मुख्यफलत्वं वृत्त्याकारस्य, तथा च तदभिलाषानुपपत्तिः । बाढम्—मिथ्याभूत एव वृत्त्यनुगतो भोगः । तथा चाह- "सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः” इति ॥ भाष्यमपि -"तयोः स्वरूपोपलम्भे सति कुतो भोग" इति ॥ अत एव च सम्यग्दर्शनादात्यन्तिकी निवृत्तिरुपपद्यते ॥
येषाममिथ्या फलं, तेषां वैराग्यकारणाभावात् सम्यग्दर्शनान्वेषणानुपपत्तेर्मोक्षाभावः । न च क्रियापरिनिष्पाद्यो मोक्षः, अनित्यत्वप्रसङ्गात् ॥
प्रतिसंवेदी [बुद्धेः] पुरुष इत्युपरिष्टात् प्रवेदयिष्यामः ।
अथ बुद्धिबोद्धृत्वं पुरुषस्य सत्त्वं चासिद्धमिति चेत् आह—प्रतिसंवेदी बुद्धेः पुरुष इत्युपरिष्टात् प्रवेदयिष्याम इति ॥
ये चापीन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वमभ्युपयन्ति, न तेषामपि सम्यगभ्युपेतं, सन्निकर्षस्य क्रियाफलत्वात् । सन्निकर्षश्च संयोगः । स च क्रियाजस्तैरिष्यते । यतो यदुपजायते तत्तस्य प्रमाणम् । तच्च तस्य फलं यदुपजायते ॥
फलमपि सन्निकर्षो ज्ञानं प्रति प्रमाणमिति चेत्-तच्च न—ज्ञापकप्रमाणप्रस्तावे कारकप्रमाणोपन्यासस्यायुक्तत्वात् । सन्निकर्षो हि ज्ञानस्योत्पादको न तस्य ज्ञापकः । प्रमेयाधिगमाय हि प्रत्यक्षादीन्युपन्यस्तानि, न ज्ञानोत्पत्तिकारणम् । तत्प्रक्रियायाम(यान्य)प्रकृतं प्रक्रियेत ॥
अथापि स्यात्---ज्ञानस्यापि प्रमेयत्वात्तच्चाप्युत्पद्यमानं प्रमीयत इति, तदुत्पत्तिकारणस्य सन्निकर्षस्य ज्ञापकत्वमेवेति--तच्च न-ज्ञानं ज्ञानेनैव ज्ञायेत, तेषां तथाभ्युपगमात् । न च सन्निकर्षो ज्ञानम् । ज्ञानोत्पादकत्वेनाभ्युपगमात् ॥
अथ ज्ञानस्य ज्ञाने सन्निकर्षो निमित्तत्वात् प्रमाणमिति चेददृष्टेश्वरेच्छा विषयनिमेषोन्मेषादीनामपि निमित्तत्वात् प्रमाणत्वे कः प्रद्वेषः ? न च ज्ञानस्य ज्ञेयत्वे आत्मनश्च स्वभावचिद्रूपत्वानभ्युपगमे शक्या अनवस्था परिहर्तुम् ॥
अथ आत्मसमवेतमात्रतयैव ज्ञानस्य ज्ञेयता, न ज्ञानान्तरमपेक्ष्यते येनातिप्रसज्येतेति चेत्—अस्याप्यन्यत् प्रत्यक्षलक्षणं वाच्यम् अनिन्द्रियसन्निकर्षादिलक्षणत्वादात्मनि ज्ञानसमवायत्वस्य । सन्निकर्षस्य च ज्ञानोत्पत्तिफलत्वात्तदुत्पत्तिव्यवधाने सति तस्य ज्ञानेन नानन्तर्यम् ॥
तस्मात्तदानन्तर्येणापि न सन्निकर्षफलत्वं ज्ञानस्य । तथा हानादिबुद्धीनामपि रूपादिज्ञानफलत्वानुपपत्तिरुक्ता ॥
व्यभिचाराच्च । यथैकस्मिन्नङ्गनादिपिण्डविषये ज्ञाने समाने बहूनामुत्पन्ने कस्यचिदुपादानबुद्धिः, अन्यस्य हेयबुद्धिः, कस्यचिदुभयाभावः, तत्र हानोपादानबुद्धिर्व्यभिचरति । अन्यतरत्रैकमेव ज्ञानं तदेवोभयं व्यभिचरत्युपेक्षकस्य । यच्च यद्व्यभिचरति न तत्तस्य फलम् ॥
किं च-हानोपादानाभावमात्रत्वादभाव एवोपेक्षा । न चाभावः प्रमाणस्य वस्तुनः फलं भवितुमर्हति । रागद्वेषाभ्यां चोपादानपरित्यागबुद्धी । तदभावात् कारणाभावे कार्याभाव इति प्रमाणविज्ञाने सत्यपि हानोपादानबुद्ध्यभाव एवोपेक्षेति व्यभिचारान्न हानादिबुद्धिफलत्वम् ॥
किं च-रागद्वेषतदभावानामप्युपादानादिबुद्धिफलत्वे प्रमाणत्वप्रसङ्गः । पौरुषेयचित्तवृत्तिबोधफलत्वे तु न किञ्चिद्विरुध्यत इति ॥
ननु च चित्तवृत्तेः संवेद्यत्वमसिद्धम् । न हि करणमेव कर्म भवति । न हि दात्रमेव लूयते । नैष दोषः । क्रियाकारकयोर्भिन्नधर्मत्वात् । क्रियानिर्वृत्तिं प्रति सम्भूय कारकाणि व्याप्रियन्ते परस्परं विषयविषयिभावेन । क्रिया तु सत्तामात्रेणैव फलहेतुरिति करणत्वमस्यामुपचयेंते, न कारकवत् । कुर्वद्धि कारयेदिति क्रियापि कारकं स्यान्न भूतं भव्यायोपदिश्येत ॥
किं च-अनवस्थाप्रसङ्गश्च । क्रिया चेत् करणं स्यात्, तन्निर्वर्त्यया चान्यया क्रियया भवितव्यम् । न ह्यन्यां क्रियामन्तरेण तस्याः कारणत्वं घटते । यापि चान्या सापि कारणं स्यादन्यस्याः क्रियायाः । साप्यन्यस्या इत्यनवस्था । ततश्च क्रियासन्तानानुपरमात् फलानभिनिर्वृत्तिः । तत्रान्त्या चेत् क्रियान्तरेण विना फलहेतुर्भवेत्, प्रथमस्य तथात्वे कः प्रद्वेषः ? चित्तवृत्तेस्त्वभिव्यञ्जकत्वात् संवेद्यतेत्यदोषः ।
दृश्यते चाभिव्यञ्जकानां स्वरूपसंवेद्यतयैव करणत्वं प्रदीपादीनाम् । तथा चित्तवृत्तेरपि । चक्षुरादिष्वभिव्यञ्जकत्वेऽपि अग्रहणाद्व्यभिचार इति चेत्, समान (चेतनसमान) जातीयसंकरात् कथम् ॥
येषां तावद्भौतिकानीन्द्रियाणि, तेषां चक्षुषस्तैजसत्वात् बाह्येनालोकेन तुल्यजातीयेन व्यतिभेदात् गृह्यमाणस्यैवाविवेकः । यथा प्रदीपानां बहूनां प्रभाव्यतिभेदात् कस्य का प्रभेति न विविच्यते । तथा श्रोत्रादिष्वपि ।
येषामप्यभौतिकानि, तेषामप्यभिव्यञ्जकत्वेन समानजातीयता वृत्तेरभिव्यञ्जकत्वादग्रहणमिति । तन्न-प्राप्तचैतन्योपग्रहतयाऽविभाव्यत्वादव्यवहितत्वाच्च । सर्वगतत्वेऽप्यात्मनः सूक्ष्मत्वेन स्वच्छतरत्वेन च चित्तेनाव्यवधानाच्च ग्रहणं चित्तवृत्तेस्तस्माच्चित्तवृत्तिप्रमाणेनैव तदाकारतया पौरुषेयोऽपि बोधः संवेद्यमान एव फलमिति सिद्धम् ॥
अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यः
येषां पुनः प्रत्यक्षेणासंवेद्या चित्तवृत्तिस्तेषां फलग्रहणप्रमाणाभावः । फले च गृहीते ज्ञानासिद्धत्वस्यार्थापत्तिः । न च फलं गृह्यते प्रमाणव्यापारानभ्युपगमात् । तदभ्युपगमे चानवस्थाप्रसङ्गः । यत्फलावग्रहणाय प्रमाणमभ्युपगम्यते तस्याप्यन्यत् फलं तत्प्रमाणस्याप्यन्यदिति न क्वचिदवतिष्ठेत ॥
अथ न प्रमाणव्यापारस्तस्य तदा प्रमाणाभावात् फलस्यासत्त्वं प्रसक्तम् । यत्र हि सदुपलम्भकानि प्रमाणानि न व्यापारं गच्छन्ति, तन्नास्तीत्यभ्युपगच्छामः (तेषाम्) ॥
अथ अगृह्यमाणमपि तदेव ज्ञानं प्रमाणं फलस्यापीति चेत्-न- अभिव्यञ्जकधर्मव्यतिक्रमात् । न ह्यभिव्यञ्जकं गृह्यमाणमभिव्यञ्जयद्दृष्टम् । न ह्युल्का गिरिशिखरेऽपि निजं धर्ममतिक्रामति ॥
अथाभिव्यञ्जयदेव फलं प्रत्यपि प्रमाणमिति चेत्-सिद्धं तर्हीप्सितमस्माकम् । रागादीनां वृत्तिविशेषणत्वेन ग्रहणोपपत्तेः । रक्तोऽहं द्विष्टोऽहमिति यद्यहंप्रत्ययविशेषणं, तदापि वृत्तिभावाभावित्वेनैव ग्रहणाद्वृत्तिविशेषणानां रागादीनां ग्रहणमुपपद्यते । अ(तेना)न्यथा रूपादिवन्मानान्तरापेक्षत्वप्रसङ्गात् । ततश्चानवस्थेति ॥
तस्मात्प्रमाणफलानभिज्ञानामभिमानमात्रमेव केवलं पण्डितंमन्यानामित्युपेक्षणीयमिति ॥
अनुमानमथोच्यते-अनुमेयस्य तुल्यजातीयेष्वनुवृत्त इति । अनुमेयस्य [जिज्ञासित]धर्मविशिष्टस्य । तद्धर्मवत्तया तुल्यजातीयेष्वनुवृत्तः सद्भावमात्रेण, [भिन्नजातीयेभ्यः] तद्विरुद्धधर्मकेभ्यो व्यावृत्तः-तेष्वसन् इत्यर्थः । सम्बन्ध इति । कः सम्बन्धः ? कयोर्वा ? न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्, यदसौ प्रसिद्धवच्चोच्यते ‘य’ इति ॥
ननु च अनुमानस्य प्रकृतत्वात्, लिङ्गलिङ्गिनोः सम्बन्धः प्रसिद्ध एव—न—अगमकत्वात् । न केवलः सम्बन्धो गमकः । उच्यते - लिङ्गस्यैव सम्बन्धो व्यावृत्त्यनुवृत्त्योः । कः पुनरसौ ? लिङ्गमेव । न हि लिङ्गादन्यदनुवृत्तं व्यावृत्तं च । तच्च गमकम् । ननु लिङ्गमपि नैव गमकं
तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत् ।
लिङ्गिसम्बन्धानपेक्षं, यदि चानपेक्षितलिङ्गलिङ्गिसम्बन्धं गमकं, यत्किञ्चिद्गमकं स्यात्, तस्मात् लिङ्गलिङ्गिसम्बन्धो वक्तव्यः ॥
न-उक्तत्वात् ॥ 'अनुमेयस्य तुल्यजातीयेष्वनुवृत्तः' इत्यादिनैवोक्तत्वात् । न ह्यनुमेयेनासम्बद्धं लिङ्गिना तत्सदृशजातीयेष्वनुवर्तते, भिन्नजातीयेभ्यो वा निवर्तते । तस्मात् य इति च प्रसिद्धमेव संबन्धमनुवदति ॥
तद्विषया-एवमन्वयव्यतिरेकविशिष्टसंबन्धसंबन्धिविषया वृत्तिः सामान्यावधारणप्रधाना-लिङ्गसामान्यावधारणप्रधाना, अनुमानम् ॥
यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति ॥ यद्यपि लक्षणाभिधानमात्रेण तदभिव्यक्तिः, तथाप्युदाहरणप्रत्युदाहरणप्रदर्शनादतितरामित्युदाहरणप्रतिपादनम् । तत्र गतिमच्चन्द्रतारकमिति चन्द्रतारकस्य गतिमत्त्वमनुमेयम् । तत्समानजातीयेष्वनुवृत्ता देशान्तरप्राप्तिर्गतिमत्सु चैत्रादिषु, भिन्नजातीयेभ्यश्चागतिभ्यो विन्ध्यादिभ्यो व्यावृतेति अव्यभिचरन्ती । नित्यं गतिमत्ता संबन्धात् ।
तस्मादित्थंजातीयकमविनाभावेन संबद्धं संबन्ध्यन्तरं गमयति । यथा वध्यघातक(कृदि)कार्यकारणादि ॥
भवतु तावदविरुद्धानां नित्यसंबन्धाद्देशान्तरप्राप्त्यादीनां गम्यगमकता, वध्यघातकादीनां तु संबन्धाभावे कथमित्युच्यते गम्यगमकभावः (भावेन) ?
तत्रापि नित्यसंबन्धाददोषः । न ह्यन्यत्रापि प्राप्तिलक्षणः संबन्धोऽभिप्रेयते । सामान्यतो दृष्टा(नु)भावप्रसङ्गात् । न हि चन्द्रतारकादिषु देशान्तरप्राप्तेः प्राप्तिलक्षणसंबन्धः प्रत्यक्षेण गृह्यते । अगृह्यमाणश्चेद्गमकः सर्वं सर्वस्य गमकं स्यात् । न हि किंचित्केनचिदसंबद्धम्, आकाशादीनां सर्वत्र भावात् ॥
तस्माद्गम्यगमकबुद्ध्युत्पत्तिहेतुरेव संबन्धोऽनुमानविषये । तथा च वध्यघातकयोरपि अन्यतर(रा)भावदर्शनेऽन्यतराभावो गम्यत इत्यनुमानमेव । यस्याप्युचिते देशे अभावदर्शनादन्यत्र भावो गम्यते । यथा घातकदर्शनेन वध्याभावोऽनुमीयते । चैत्रस्य जीवतो गृहे अभाव(गृह्यभाव)दर्शने बहिर्भावश्चेति ॥
ननु चाभावार्थापत्ती एते, नानुमाने, (न) लक्षणासङ्गतेः, गवादिवत् ॥
न---यथोक्तलक्षणोपपत्तेः- वध्यघातकयोर्विरोधलक्षणः संबन्धः । यत्र यत्र घातकभावस्तत्र तत्र वध्याभाव एवेत्यविनाभावः । न हि वध्यस्याभावं घातक(का)भावो व्यभिचरति । वध्यस्य वा भावो घातका(क)भावम्, अग्निभावमिव धूमभावः ॥
कथं पुनरवगम्यते घातकभावदर्शनादेव तद्गोचरे वध्यस्याभावबुद्धिरिति ? न पुनः सदुपलम्भकप्रमाणानां घातक इव वध्ये व्यापाराभावादिति ॥
उच्यते-घातकभावे व्यापृ(प्यावृ)तप्रमाणस्यैव वध्याभावबुद्ध्युत्पत्तिः, धूमभावे व्यापृ(वृ)तप्रमाणस्येवाग्निभावबुद्ध्युत्पत्तिः, तथा घातकविशेषव्यापृ(वृ)तप्रमाणस्य वध्यविशेषाभावबुद्ध्युत्पत्तिः, धूमविशेषव्यापृ(वृ)तप्रमाणस्येवाग्निविशेषबुद्विरिति ॥
अभावप्रमाणवादिनस्तु सर्वत्र प्रमाणाभावस्याविशिष्टत्वाद्विरोधिविशेष दर्शनानुविधानं विरोध्यन्तराभावदर्शनस्यानुपपन्नं, लिङ्गविशेषानुविधानमिव लिङ्गिविशेषदर्शनस्य । न हि सदुपलम्भकप्रमाणव्यापाराभावस्य कश्चिद्विशेषः, येन विशेषबुद्धिस्तद्विशेषमनुविधीयते ॥
अथ जिज्ञासिते विशेषे सदुपलम्भकप्रमाणाभावादिति चेत्—तन्न— असतः स्मृतीच्छादिसहभावापेक्षानुपपत्तेः । न ह्यसत् सहायापेक्षया कार्यं निर्वर्तयद्दृष्टं शशविषाणादि । दृष्टमिहेति चेत्-न-विप्रतिपत्तिस्थानत्वे दृष्टान्ताभावात् । तुल्यमिति चेत्-न-घटादेः सतोऽपेक्षादर्शनात् ॥
न चापि निर्व्यापारस्यावस्तुत्वादभावस्य प्रमाणभावो युक्तः । न हि निरस्तव्यापारकं किंचित् कार्यारम्भकं दृश्यते लोके । तस्माद्व्यापाररूपप्रमाणजनिता प्रमेयाभावबुद्धिः, प्रमेयविषयत्वात् घटादिबुद्धिवत् । तथा च वस्तुत्वात् प्रवृत्तिनिवृत्तिहेतुत्वात् । विपक्षः शशविषाणादिः । तथा अभाव[प्रमा]प्रमाणा(ण) भावजनिता न भवति, यथाऽभिहितहेतुदृष्टान्तदर्शनात् । (नेन) ॥
घातकदर्शनं वध्याभावबुद्धेर्लिङ्गं तद्भावभावित्वादग्न्यादिबुद्धिनिमित्तधूमादिबुद्धिवत् संशयनिवर्तकत्वाच्च । वध्याभावबुद्धिर्वा लिङ्गजनिता निश्चयरूपत्वादग्निबुद्धिवदिति ॥
इह घटो नास्तीति किल नानुमानं लिङ्गलिङ्गिसंबन्धाग्रहणात् । न हि यथाऽग्न्यादिबुद्धेर्धूमादिलिङ्गान्वेषणं तथेह नास्ति घट इत्यत्र लिङ्गान्वेषणमस्ति । प्रागेव लिङ्गान्वेषणात् बुद्ध्युत्पत्तेः ॥
नैष दोषः । इहप्रत्ययाकारस्यैव लिङ्गत्वात् । न हि प्रथममेव लिङ्गबुध्युपजनने सति लिङ्गान्वेषणं भवति । इहेत्याकारोपरञ्जिता बुद्धिर्लिङ्गम्। उपरञ्जकव्यतिरिक्तघटाद्यभावबुद्धेर्घातकबुद्धिवदेव । विरोधलक्षण एव चात्रापि सम्बन्ध : ॥
यत्र पुनरविरुद्धान्युपरञ्जकानि तत्रास्तित्वबुद्धेः । एतेनैवार्थापत्तेरनुमानत्वं व्याख्यातमविनाभावेन संबन्धेन । तत्रापि जीवतो हि देवदत्तस्य गृहाभावे बहिर्भावः, यदा गृहे भावः न तदा बहिर्भाव इत्यन्यतरेणानुमानम् । साक्षात् दृश्यमानबहिर्भावाभ्यन्तराभावत्वं दृष्टान्तः । वृत्त्युपरञ्जकानुपरञ्जकत्वेन ह्यभावग्रहणस्याभिहितो हेतुः ॥
अग्न्यादावपि दहनादिशक्तिग्रहणमनुमानमेव । कार्यनिर्वर्तकयोरविनाभावसंबन्धस्यात्मनि दृष्टत्वाद्भुज्यादौ । दृश्यते हि प्रत्यगात्मनि शक्तोऽहमिदं कार्यं कर्तुमशक्तोऽहमित्यात्मवदात्मविशेषणस्य शक्तेर्ग्रहणम् । शक्तिनिर्वर्त्यमेव दहनादिकार्यमपीत्यनुमानसिद्धिः ।
ननु चाभावस्य प्रत्यक्षतामुपगायन्ति केचित् । यथा किलादर्शकेन प्रदीपादिना सति गृह्यमाणे वस्तुनि न तदवयविनि यदुपलभ्यते तन्नास्तीत्येवं सत: प्रकाशकं प्रमाणमसदपि प्रकाशयति । तथा चोदाहरन्ति-अनङ्कितं वास आनयेत्युक्तः प्रविश्य भाण्डागारम् अङ्कितानङ्कितवासस्सन्निधावङ्कितवासोग्रहणेनैव प्रत्यक्षेणाङ्काभावविशिष्टं वास उपलभ्यानयति । तस्मात् प्रत्यक्ष एवाभावो लक्षणान्तरानुपपत्तेरिति ।
तन्न-बुद्ध्याकारेणार्थावधारणानृतत्वप्रसङ्गात्। यदाकारा हि बुद्धिस्तस्य प्रत्यक्षावध्रियमाणात्मताभ्युपगम्यते । यथा नीलं वस्तु पीतमित्यत्रापि विशेषणविशेष्यसंबन्धप्रत्ययो मिथ्या प्राप्नोति ! तद्यथेह घटे नास्तीति इहप्रदेशस्य घटाभावेनासति संबन्धे संबन्धप्रत्ययः ; न हि घटाभावस्येहप्रदेशस्य चा[प्राप्त]प्राप्तिलक्षणः समवायाभिधानो वा संबन्धस्तैरभ्युपेयते । यथेह देवदत्त इति । तस्मादभाव(वे)प्रत्ययव(या)न्नीलं वस्त्विति विशेषणविशेष्यसंबन्धप्रत्ययोऽपि संबन्धप्रत्ययत्वान्मिथ्या प्रसज्येत ॥
विन्ध्यश्चाप्राप्तेरगतिः ॥
यथा चासत्यपीहदेशघटाभावसंबन्धे संबन्धप्रतीतिस्तथैवानीलेऽपि वस्तुन्यसत्येव नीलत्वसंबन्धे नीलत्वसंबन्धप्रत्ययः प्राप्नोति, तथा संबन्धिष्वपि । अथास्त्येव संबन्धः, द्विष्ठता विरुध्येत संबन्धस्य । अभावस्यावस्तुत्वाभ्युपगमात् ॥
अथाप्येकशतं षष्ठ्यर्था इति यावत् षष्ठ्यर्थः संबन्ध इष्येत, तदा द्विविध एव संबन्धः समवायाख्यः संयोगाख्यश्चेति न युज्यते ॥
अथै(तथै)कशतस्यापि षष्ठ्यर्थानामुभयान्त:पातित्वमुच्येत-न- अभावेऽन्यतरस्याप्यसम्भवात् ।
किञ्च(न्त्व)न्यत् । इह नभसि कुसुमं नास्तीति संबन्धिनो नभसोऽप्यप्रत्यक्षत्वात् गगनकुसुमाभावस्याप्रत्यक्षत्वं प्राप्नोति । अथाप्रत्यक्षत्वमेवेति चेदापतितं गगनकुसुमाभाववदप्रत्यक्षत्वमिह भूप्रदेशे घटाभावस्यापि । विशेषो वक्तव्यः ॥
अथ व्योम्नोऽप्रत्यक्षत्वादिति---तन्न-पुष्पस्य पततो नभस्यस्तित्वदर्शनाद्व्योमाप्रत्यक्षत्वमहेतुः । यथैव निपतत्कुसुमसद्भावे व्योमाप्रत्यक्षत्वमहेतुस्तथा सद्भावविरुद्धग्रहणेऽप्यहेतुः स्यात् । अथाकाशाप्रत्यक्षत्वादेवेति चेत्, असंबन्धमपि यत्किञ्चिद्व्यवहिताप्रत्यक्षत्वादि सोऽपि हेतुः स्यात् । अथ नभःकुसुमाभावः प्रत्यक्ष इति चेत्--इन्द्रियार्थसन्निकर्षानर्थक्यं सर्वत्र प्रसज्येत । तथा च सत्यसन्निकृष्टोपलब्धेः सर्वेषां सर्वज्ञत्वं प्रसक्तम् ॥
अथानुमेयं तत्रेति चेत्-नभःकुसुमाभाववदिह घटाभावस्याविशेषादानुमानिकत्व(कीय)मेव सिद्धम् । एवं च सत्यभावप्रमाणवादिनोऽपि व्यवहितविप्रकृष्टोदकादावनलाद्यभावस्यानुमेयत्वादिह घटाभावोऽपि तत्सामान्यादनुमानग्राह्य एवेति निश्चेतुं युक्तम् ॥
विन्ध्यश्चाप्राप्तेरगतिरिति च प्रयोगान्तरम् । अगतिर्विन्ध्य इति प्रतिज्ञानम् । अप्राप्तेरिति हेतुः । चैत्रवदिति काकलोचनवदुभयत्र संबध्यते । गतिमच्चन्द्रतारकमित्यनेन साधर्म्येण, विन्ध्यश्चाप्राप्तेरित्यनेन वैधर्म्येण संबन्धः । एवं च सत्यन्वयव्यतिरेका(क)दर्शनकृतो न दोषः ॥
आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ६ - ७ ॥
अथवैतस्मिन् प्रयोगे व्यतिरेकविपर्ययदर्शनेन दोषाभाव इत्युपन्यस्तम् । लक्षणस्य च लक्ष्यविशेषेणोह्यत्वाददोषः ॥
आप्तः परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थः । तेन दृष्टो वा अनुमितो वार्थः परत्र श्रोतृविशेषे स्वबोधसङ्क्रान्तये स्वाधिगमसंक्रमणाय शब्देन शब्द इति वाक्यं ततो विशिष्टार्थप्रतिपत्तेः । तस्मात्तदुपदिष्टाद्वाक्यात् । [तदर्थविषया] वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव "सामान्यावधारणप्रधाना" ॥
इत्थमाप्त्यादिधर्मग्रहणपूर्विका श्रोतुरागमः, न वक्तुः । दृष्टानुमितार्थो हि वक्ता, तस्य लैङ्गिकमैन्द्रियकं वा तज्ज्ञानम् । श्रोतुरेव तु श्रवणपूर्वकं निश्चितं विज्ञानं लैङ्गिकैन्द्रियकव्यतिरिक्तम् । स आगमः [न] प्रत्यक्षमिन्द्रिया[विषय]- विषयत्वात् यथाभिहितलिङ्गलिङ्गिसंबन्धनिरपेक्षत्वाच्च नानुमानम् । न हि स्वर्गापूर्वदेवतादिशब्द(ब्देऽ)र्थान्वितं ज्ञानमासादितलिङ्गलिङ्गिसंबन्धपुरस्सरमुपजायते । फलं तु सर्वत्र पौरुषेयो वृत्तिबोध एव ।
यस्य आगमस्य वक्ता आगमाख्यवृत्त्युत्पत्तिनिमित्ते शब्दोच्चारणात् आगमस्य प्रयोगोपन्यासेन प्रतिपादितं फलं तु पूर्ववदेव। यदप्येक एव प्रयोगस्त(था)- दापि साध्यसाधनाभावमात्रस्य विवक्षितत्वान्न विपरीतव्यतिरेकदर्शनादित्युच्यते ॥
अश्रद्धेयार्थवक्त्रभिहितत्वेनागम एव विशेष्यते । कथमसावश्रद्धेयार्थो वक्तेत्यत अह--न दृष्टोऽनुमितो वार्थः तेन वक्त्रा । शिष्टलोकप्रसिद्धान्यथाप्रतिपादनात् बुद्धार्हतादिः । न हि रागादिदोषानुपहतान्त:करण: प्रसिद्धमन्यथा निर्वर्णयति । स आगमः प्लवते आभासीभवति ॥
यद्यपि प्रत्यक्षानुमानविषयाभासदर्शनं स्वशब्देन न कृतं, तथाप्यागमाभासोपप्रदर्शनेनैव पूर्वत्रापि यथाभिहितलक्षणविपरीतत्वेन प्रत्यक्षानुमानाभासादि द्रष्टव्यमर्थादुक्तम् ॥
मूलवक्तरि तु आद्यवक्तरीश्वरे तन्निमित्तो य आगमः स विप्लवनिमित्ताभावान्निर्विप्लवः स्यात् । यथार्थ(य)वक्तृवत् ।
उपमानं (मानं) शब्दपूर्वकम् । तदागमान्तःपतित्वान्न प्रमाणान्तरम् । यथा गौरिव गवय इति वनेचराभिहितादेव वाक्यादवधृतसादृश्यस्य पुनर्वने गवयदर्शनेऽपि पूर्वश्रुतवाक्योपस्थापितसादृश्यस्मरणमात्रमेव नाधिकम् । सादृश्यं तु वाक्यादेव पूर्वप्रतिपन्नम् ॥
नापि संज्ञासंज्ञिसंबन्धप्रतिपत्तित एव मानं, तस्या अपि तद्वाक्यादेवावगतत्वात् । न हि गौरित्येतावतानवगतगवयनामकस्य वनगतगवयदर्शिनोऽपि गवयोऽयमिति संज्ञासंज्ञिसंबन्धावबोधो भवति ॥
तस्माद्गौरिव गवय इति गवयशब्दोऽपि तद्वाक्येऽपेक्षितव्यः । तथा च सति पूर्वश्रुतादेव वाक्यात् सर्वं प्रतीतम् । अथापि स्यादयं(दस्य)गवय इति न पूर्वबुद्धिविषयमिति—तदापि तत्रभवतामपि परिचोदनपरिहारमवपश्यतामपि पण्डितंकैवले[कौले]यकवृत्तिकोणेऽवस्थानमिव लक्ष्यते ॥
तथा हि-देशकालसन्निकर्षविप्रकर्षादिभेदेनानेकोपमानभेद: प्रसज्येत । तथास्त्विति चेत्-तत्पूर्वधियैवातत्वमन्तर्निहितसमस्तविशेषमेव हि वा नेयौ पूर्वमुपपादितम्। नहि गौरित्युक्ते देशकालादिविशेषाभावे न गोशब्दादर्थप्रतिपत्तिः ॥
किं चान्यत्-न हि संज्ञासंज्ञिसंबन्धप्रतिपत्तिरुपमानं, येन ह्युपमीयते तदुपमानं, सादृश्यज्ञानं हि तत् । न हि नामिनामसंबन्धप्रतिपत्त्या किंचिदुपमीयते उत्तरकालत्वात् । अवधृतसादृश्यस्य हि पश्चाद(स्य)यं गवय इत्येवं सोऽपि निपतति ॥
एवं तर्हि स्यादशब्दपूर्वकं प्रमाणान्तरं, यथा गवयदर्शनादेतत्सदृशो गौरिति ग्रामीणस्य बुद्धिः---तदपि न—प्रमेयाभावात् । सति हि प्रमेये सदुपलम्भकत्वाभिमतस्य प्रमाणस्य व्यापारः, न हि गोगवययोर्व्यावृत्तमनुवृत्तं च वस्तुतः सादृश्यं नामैकमस्ति ॥
ननु च सादृश्यबुद्धिरस्त्येव, नासौ निरालम्बना भवितुमर्हति । सत्यमेवं तत्रैव विचारणा-किमसौ वनयूथादिप्रत्ययवत् ? अथ घटादिबुद्धिवदिति। किं चातः ? यदि वनप्रत्ययवद्भवेत्तदा यथैव विशिष्टसन्निवेशानुगता महीरुहा एवात्मव्यतिरेकेणाविद्यमानवनप्रत्ययहेतवस्तथैव गोगवयावयवा एव द्वयदर्शनस्मृत्यपेक्षया स्वात्मव्यतिरेकेणासतः सादृश्यस्य प्रतीतौ कारणमिति प्राप्तमवस्तुत्वम् ॥
अथ पुनर्घटादिप्रत्ययवद्वस्तुत्वं प्रमाणत्वं च, तदा स्यादिति ॥
तत्र कीदृशं वस्त्विति विचार्यते -
किं गोगवययोरनुवृत्तमेकं सादृश्यं गोत्वगवयत्वाभ्यामन्यत् ? ते एव वान्योन्यविशिष्टे, यदि वा ताभ्यां भिन्ने गोगवयाधारे द्वे सादृश्ये परस्परानपेक्षे, सापेक्षे वा ?
किं व्यक्तिरेव साऽन्यतरजातिविशिष्टा वा, किं जातिः,सा चान्यतरव्यक्तिविशिष्टा, व्यक्तिद्वयविशिष्टा वा, संबन्धो वैतेषां यथाविकल्पयोगमित्येकैकान्योन्यविशिष्टविशेषणत्वादिना भूयांसोऽन्येऽपि विकल्पा उद्भावयितव्याः । तत्र यद्येकं सादृश्यमुभयगतं, तदा नोपमेयत्वमेकत्वात्, यथा गौरिव गौरिति ।
अथ तेनान्यतरव्यक्तिरुपमीयेत-नैतदपि-स्वात्मगतत्वात् गौरिव गोत्वेन । अथ तद्वत्या व्यक्त्या व्यक्त्यन्तरमुपमीयेत-नैतदपि-- न हि गोत्वं खण्डमुण्डोपमेयत्वकारणम् । अथ धर्मान्तरापेक्षया सादृश्यं तद्बुद्धेः कारणमिति, नष्टं तर्हि सादृश्यं, स एवास्तु धर्मः तद्बुद्धेः किं ते सादृश्यहतकेन कल्पितेन ॥
किं च---स चाप्यपेक्ष्यमाणो ' धर्मः किमेकः सादृश्यवदुभयत्र, अथ भिन्न इत्येवमादिविकल्पाः स्युरित्यसम्भवः पूर्ववदेव । अथ भिन्नं सादृश्यमुच्येत-तच्च न-भेदादेव, न हि भवति गौरिवाश्व इति । यथैवैकैकत्वादघटमानता तथा बहुभिरपेक्ष्यमाणैः । एतेन जातिव्यक्तिसम्बन्धादयः पूर्वविकल्पिताः प्रत्युक्ताः ॥
अथ बुद्ध्युत्पत्त्यन्यथानुपपत्त्या सादृश्यकल्पना, सत्येवं वनविवरपूर्वदक्षिणोत्तरादिबुद्धियोगान्यथानुभवात् [न्यथानुपपत्त्या]वस्तुत्वं किं न कल्प्यते । स्यादेषा तव बुद्धिर्वृक्षादय एव तत्र तद्बुद्धिजन्महेतव इति । यद्येवं मिथ्याप्रत्ययो गवयेन सदृशी गौरिति वनबुद्धिवत् । अथ ये व्यावृत्ताः क इहोपमार्थः गौरिवाश्व इति । अथोभयेऽपि तेऽवयवा व्यावृत्तानुवृत्तात्मानस्तद्बुद्धिहेतवः, तथापि वनप्रत्ययवदेव प्राप्तम् ॥
तस्मात् परीक्ष्यमाणं नातिविमर्दनक्षममिति त एवावयवा उभयत्रोपलभ्यमाना भूयांसः सादृश्यबुद्धेः कारणं वनबुद्धेरिव पादपाः [इति] नोपमानं नाम प्रमाणान्तरमिति सिद्धम् ॥
नापि प्रमेयद्वित्वात् प्रमाणद्वित्वकल्पनम्। कुतः ? प्रमाणवशादर्थप्रतीतेः । न ह्यर्थवशात् प्रमाणकल्पना । यदि चार्थवशात् प्रमाणकल्पना स्यात्, अधुना