कैवल्यपादः · ४.७

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥

व्यासभाष्यम्

चतुष्पदी खल्वियं कर्मजातिः । कृष्णा, शुक्लकृष्णा, शुक्ला, अशुक्लाकृष्णा

विवरणम्

 कुत एतद्योगिन एव न कर्माशयः ? इतरेषां त्वस्तीति । यतः कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् । सिद्धासिद्धसामान्यविषयमिदं सूत्रम् ॥

 ननु च पूर्वसूत्रमपि सामान्यविषयमेव । न । समाधिसिद्धिस्तुत्यर्थत्वात् । सामान्यविषयत्वे तु समाधिसिद्धिस्तुतिरनुपपन्ना स्यात् । सिद्धिपरिसंख्यानेन तु विशेषविषयत्वे, तुल्यजातीयजन्मादिसिद्धिचतुष्टयसावद्यत्वसंकीर्तनात् समाधिसिद्धेः स्तुतिरुपपद्यते॥

 किं च, जन्मादिसिद्धिसाधनानां कैवल्यार्थताप्रतिषेधश्चार्थादिति विशिष्टविषयमेव पूर्वसूत्रम् । इदं तु सामान्यविषयमेव पूर्वसूत्रहेतुत्वेनोपादानात् ॥

 चतुष्पदी खल्वियं कर्मजातिः । कृष्णा दुरात्मनां शास्त्रमार्गातिवर्तिदुष्टचेतसामशुद्धतरा । या तु बाहिस्साधनसाध्या जायापुत्रपशुयाजकादिनिष्पाद्या सा शुक्लकृष्णा । काऽसौ ? यत्र [पर]पीडाऽनुग्रहद्वारेण कर्माशयप्रचयः सा क्लेशबाहुलकनिष्पादनीयत्वात् कृष्णा च शुक्ला च ॥

 ननु ज्योतिष्टोमादिकर्मशास्त्रसमधिगतत्वान्न कृष्णं, शुक्लमेव तु तत् । अत्रोच्यते—न—काम्यैरनैकान्तिकत्वात् । तान्येव चार्थानर्थोभयकारणानि । अथ तत्फलस्य स्वर्गादेराभिमतत्वादर्थत्वमेवेति चेन्न—परदाराभिमर्शनस्यापि वाञ्छितत्वादर्थत्वप्रसङ्गात् ॥

 अथ परदाराभिसरणादावभ्युग्रदोषसम्पातात्, प्रतिषिद्धत्वाच्च रागादिनियोगप्रवृत्तेश्चासमानमिति चेन्न—तत्रापि समानत्वात् । कामात्मतानिषेधादनिष्टयोगश्च । जन्ममरणयोरभ्युग्रदोषभूतयोरवश्यंभावित्वादिष्टानिष्टद्वयहेतुत्वमेव । स चानिष्टयोगः परपीडादेरित्यवसीयते । तत्प्रतिषेधोपपत्तेः ॥

 अवश्यं हि जन्ममरणद्वयेन विना स्वर्गादिफलमुपभोक्तुं न शक्यम् । तच्चेदस्ति तस्य दुःखरूपत्वादायातं तर्हि ज्योतिष्टोमादीनामुभयात्मकत्वम् । अथ कर्मान्तरमेव प्रतिषिद्धं जन्ममरणारम्भकारणमिति चेन्न—तद्भावभावित्वात् । तस्मिन् हि सति जन्ममरणभावात् ॥  अथ तु भवत्पक्षे नित्यमेव कुर्वीत, न जन्ममरणे प्रवर्तेयाताम् । कुर्वत एव ते भवतो नाकुर्वतः । तस्मान्निमित्तत्वमवगम्यते । किं च—येन जन्ममरणमारप्स्यते स्वर्गादौ तत् कर्म यदि जन्मान्तरगतं, तत्रानिर्मोक्षप्रसङ्गः । काम्यप्रतिषिद्धाक्रियायामपि पूर्वजन्मकृतफलस्यावश्यप्रापणीयत्वात् ॥

 अथ प्राक्तनजन्मकर्मक्षयार्थानि नित्यानीति चेत्—तन्न—नियमानुपपत्तेः । अनिष्टफलान्येवारब्धकार्याणि पूर्वकर्माणि, न त्विष्टफलानीति [न] नियन्तुं शक्यते । अदृष्टफलेषु हि सत्सु नित्यान्येव कुर्वतोऽपि मोक्षानुपपत्तिर्जन्मारम्भित्वं च ॥

 तत इष्टानामप्युभयहेतुत्वं सिद्धम् । बाह्यसाधनानां कर्मणां पीडानुग्रहरूपत्वात् । न वै खल्वपि नित्येन पूर्वकृतकर्मणामिष्टानां ज्योतिष्टोमादीनां निवृत्तिरुपकल्पते । विरोधाभावात् । अविरोधश्चोभयेषां शुद्धिरूपत्वात् । तन्त्रसिद्धेश्च ॥

 अथापि ब्रूयादे[दने]कजन्मारब्धानि कर्माणि जन्मै(कै)कमारभन्ते, नानारब्धकार्यमवशिष्यत इति । तथाऽपि पूर्वजन्मकर्मण इदानीन्तनजन्मफलदानेन क्षयङ्गतत्वादधुनातनजन्मनिष्पादितानामभिनवानामेव काम्यानां स्वर्गफलजन्ममरणदुःखारम्भित्वमिति शुक्लकृष्णरूपापत्तिः ॥

 ततश्च जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्च दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे । तथा च सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्नीषोमीयादौ प्रवर्तमाने कृष्णरूपामित्यनुमास्यामहे । क्रत्वर्थापि सती हिंसा अनिष्टभूतैव तदर्थतां प्रतिपद्यते ॥

 यदुक्तम्—अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरमिति, तत्र शिरोवदित्येवंजातीयकदृष्टान्तासिद्धत्वम् । अविशेषेण यच्छास्त्रमिति तु होमस्वरूपस्य विरोधाद्वाध्यबाधकत्वमुपपद्यते । हिंसायास्तु विरोधाभावादुभयोर्हेतुत्वं भोजनस्येव सुखशरीरस्थितिद्वयहेतुत्वम् । यथा च तीर्थस्नानस्य ह्लादादृष्टार्थत्वं तथा हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नैव नाभिनिर्वर्तयति ॥

 अथ बाह्यसाधनसाध्यमपि नित्यं केवलं कामसंयोगाभावाच्छुक्लमेवेति चेदेवमुच्यते—न—दोषवत्त्वेन नित्यकाम्यानामविशेषात् । यथा कामिनः काम्यानीति कामसंयोगेन काम्यानां दोषवत्त्वमेवं कामादिहेतुभूताविद्यादोषवत्त्वमविशिष्टमिति नित्यानामप्युभयात्मकत्वमेव । अविद्यावत्त्वं च नित्येषु प्रवृत्तस्य प्रायश्चित्तनिमित्तोत्पत्तेरवश्यंभावित्वात् ॥
व्यासभाष्यम्

चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या । तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिःसाधनान परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति । तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमिव त्रिविधमिति ॥ ७ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →