समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥
तथा चोक्तम्—“यच्च कामसुखं लोके, यच्चैहिकम् । यच्च दिव्यं महत्सुखम् । देवादिसम्बन्धि । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ॥ ४२ ॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणम् किमङ्ग निर्वर्तितमित्यभि(मानः)प्रायः ॥
तदावरणमलापगमात् कायसिद्धिरणिमाद्या । मातापित्रादिसंबन्धजं कायमलं बैजं गार्भं चाहारादिजं च सर्वं तपसा निघातयिष्यते । ततश्चाणिमादिकायसिद्धिः ॥
तथा विषयादिसम्पर्कजमिन्द्रियाणामधर्माद्यावरणं मलं तपस्स्रोतस्विनीस्रोतसा क्षाल्यते । तथा इन्द्रियसिद्धिर्दूराच्छ्रवणाद्या ॥ ४३ ॥
स्वाध्यायादिष्टदेवतासम्प्रयोगः । देवाः ऋषयः सिद्धाश्च य इष्टास्ते स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्येषु चास्य उपदेशादिषु वर्तन्ते ॥ ४४ ॥
ईश्वरार्पितसर्वभावस्य समाधिसिद्धिः, यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं जानातीति ॥ ४५ ॥
उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि वक्ष्यामः ।
तत्र—