साधनपादः · २.५५

ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ॥

विवरणम्

 अथ कः प्रत्याहारः ? प्रत्याहारविशेषमभिधित्समानः प्रश्नेनोपक्रमते । स्वविषयादिन्द्रियाणां प्रत्याहरणमात्रं परेषां प्रत्याहारः । अत्र पुनर्विशेषवानुच्यते स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार इति ॥

 स्वैः स्वैश्शब्दादिभिर्विषयैः इन्द्रियाणां श्रोत्रादीनां संयोगाभावे विषयदोषदर्शनात् ध्यायिनां स्वविषयात् निवर्तितानां चित्तस्वरूपानुकारतेव । योगिनश्चित्तं यदाकारतां भजते तत् चित्तस्वरूपानुकारतेवेति ।

 एतदुक्तं भवति—चित्तनिरोधे चित्तवन्निरुद्धानि नोपायान्तरमपेक्षन्ते जयार्थम् । चित्तनिरोधादेव तानि निरुध्यन्ते । यथा मधुकरराजानम् श्रुत्यक्षरमेतत् । मधुकरराजमित्यर्थः । मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते । तथैवेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥ ५४ ॥

 ततः प्रत्याहारस्थैर्यात् परमा वश्यतेन्द्रियाणां भवति । इतिशब्दः समाप्त्यर्थः । यासां च वश्यतानां मध्ये प्रत्याहारस्थैर्यात् परमा वश्यता जायते ता उच्यन्ते—

व्यासभाष्यम्

 शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं, व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्वा न्याय्यः शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता, यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥  इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

द्वितीयः साधनपादः ॥

विवरणम्

 शब्दादिष्विन्द्रियजयः अव्यसनं पुनः पुनरप्रवृत्तिरनासक्तिर्वेति केचिदाहुः । व्यसनमिति निर्ब्रवीति—सक्तिर्व्यसनम् । कथम् ? व्यस्यति क्षिपति एनं प्रतिपत्तारं श्रेयसः सकाशादिति व्यसनम् ॥

 अविरुद्धा प्रतिपत्तिर्वा । विरुद्धानां वा शब्दादीनामप्रतिपत्तिर्वश्यतेति । तस्यैव व्याख्यानं—न्याय्यः शास्त्रानुज्ञातः शब्दादिषु संयोगः स्वेच्छया । तेष्वविरुद्धेषु यदीच्छति प्रवर्तते न वा इत्येवमन्ये मन्वते ॥

 रागद्वेषाभावे सुखदुःखशून्यं हेयोपादेयत्ववर्जितं शब्दादिज्ञानं वश्यतेत्येके । मध्यमायां तु रागद्वेषसद्भावमात्रमपि न वार्यत इति विशेषः ॥ स्वाभिप्रेता आख्यायते—ऐकाग्र्यात् चित्तैकाग्रत्वानुविधानादिन्द्रियाणां अप्रतिपत्तिरेव शब्दादीनामिति जैगीषव्यो मन्यते ॥

 परमा त्वियं सर्वासामुक्तानामियं परमा वश्यतेन्द्रियाणां, यत् यस्मिन् चित्तनिरुद्धानीन्द्रियाणि न इतरेन्द्रियजयवत् पूर्वोक्तास्त्विन्द्रियवश्यतासु उपायान्तरमपेक्षन्ते जयार्थं, अस्यां पुनर्न प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिनः ॥ ५५ ॥

 इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ द्वितीयः साधनपादः ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →