श्रीः
॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥
॥ साधनपादो द्वितीयः ॥
उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते—
तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥
अथेदानीं द्वितीयः साधनपाद आरभ्यते । कैवल्यस्य साधनं सम्यग्दर्शनम् । योगसाधनानि च योगद्वारेण सम्यग्दर्शनसाधनान्येव । तानि च प्राधान्येनास्मिन्पादे प्रतिपाद्यन्त इति साधनपाद इत्युच्यते ॥
तथा, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनाद्विभूतिपाद इत्युच्यते तृतीयः ॥
तथा, सकलयोगैश्वर्यविभूतिभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रदर्शनात् कैवल्यपाद इत्युच्यते चतुर्थः ॥
तथा, समाधिः प्राधान्येनादावुपाख्यात इति प्रथमः समाधिपाद इत्युच्यते ॥
तदेतदाह—उद्दिष्टः समाहितचित्तस्य योग इति—कर्मण्यचित्तस्येत्यर्थः । मैत्रीकरुणादिभावनाद्युपा(ख्या)यलब्धस्थितिपदस्य योगिनः परवैराग्यविरामप्रत्ययसाधनो निर्बीजः समाधिरुद्दिष्टः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति । विक्षिप्तचित्तोऽपि कथं नाम समाधियोग्यो भवेदित्यत इदमारभ्यते ।
तपआदिसाधनमनुक्रम्यते—तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।
ननु च तपस्स्वाध्यायेश्वरप्रणिधानानि नियमेषु वदिष्यमाणानि किमर्थमिहोच्यन्ते ॥ ननु चैतदेव प्रयोजनं—यदुक्तं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति ॥
नैतदस्ति—यत्र नियमाः पठ्यन्ते तत्रैवेदं प्रयोजनं सिध्यति ॥
अथ क्लेशतनूकरणार्थमिति चेन्न—तस्यापि तत्रैवाभिधानात् । यथा "योगाङ्गानुष्ठानादशुद्धिक्षये"इति । अशुद्धिश्च क्लेशादिः । समाधिभावनार्थञ्च योगाङ्गानुष्ठानमाम्नायिष्यत एव । यथा "समाधिसिद्धिरीश्वरप्रणिधानात्"इति । तस्मादिह तपआदिसमाम्नानमनर्थकम् ॥
न—योगाङ्गानुष्ठानस्य सम्यग्दर्शनोपायस्य सम्यग्दर्शनपूर्वत्वप्रतिपादनार्थत्वात् । सर्वाणि च योगाङ्गानि सम्यग्दर्शनोपायत्वात्सम्यग्दर्शनप्राक्कालानि । तेषां च नियमैकदेश इह पठितः सर्वोपायप्राक्कालत्वे निदर्शनाय । यद्यप्युपायत्वादेव प्राक्कालत्वमर्थात्सिद्धम्, तथाऽपि स्पष्टत्वमेवं सति स्यादिति ॥
ननु चैवमपि प्राक् सम्यग्दर्शनादनन्तरं पठितव्यम्—उच्यते—न—सम्यग्दर्शनस्यैव साक्षात्क्लेशादिप्रतिपक्षत्वात् । अविद्या हि समस्तानर्थमूलम् । सा च साक्षात्प्रत्यनीकभूतसम्यग्दर्शनेन निवर्त्यते । तपआदेस्तदनन्तरं पाठे सत्यविद्यासम्यग्दर्शनयोर्व्यवधानं भवेत् । ततोऽभिशंकेन—किं अविद्यायास्तपआदिः साक्षात्प्रतिपक्षः ? किं वा सम्यग्दर्शनमेवेति ॥
किञ्च—विषयश्च प्रथमं दर्शनीयः सम्यग्दर्शनशास्त्रस्य । स च क्लेशकर्मविपाकाशयाभिभूतः पुरुषः । यथा रोगार्तः चिकित्साशास्त्रस्य विषयः । तपआदेस्तदनन्तरं समाम्नाने विषयविषयिणौ व्यवधीयेयातां, ततश्चायं विषयोऽयञ्च विषयीति न विविच्येत ॥
पादादौ च पाठे सम्यग्दर्शनोपायत्वं च प्रतिपादितं भवति, प्रथमपादसम्बन्धश्च व्याख्यातः स्यात्—समाहितचित्तस्य योग उद्दिष्टः, व्युत्थितचित्तोऽपि तपआदिसाधनः कथं योगयुक्तः स्यादिति ॥
किञ्च—समाधिभावनक्लेशतनूकरणार्थत्वञ्च तपआदीनां दर्शयितव्यम् ॥
नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिः ।
ननु परस्तादेवैतद्वक्ष्यति—"समाधिसिद्धिरीश्वरप्रणिधानात्" "कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः" इत्येवम् । प्रत्येकसाधनानां सिद्धिं च वक्ष्यति ॥
नैतदस्ति—सिद्धानामिह तत्र साधनस्तुत्यर्थमनुवादात् । अत्र हि तादर्थ्यमुच्यते । तथा चाह—"समाधिभावनार्थः क्लेशतनूकरणार्थश्च" इति । तत्र ह्यनूद्यन्ते साधनस्तुतये ॥
सम्प्रति सूत्राक्षराणि व्याख्यायन्ते—तपश्च स्वाध्यायश्चेश्वरप्रणिधानञ्च तपस्स्वाध्यायेश्वरप्रणिधानानि । तान्येव क्रियारूपो योगः क्रियायोगः । तपआदिक्रिया च योगार्थत्वाद्योग इत्युच्यते । चित्तधर्मो हि समाधिर्योगः । तदर्थश्चायं क्रियायोगः । तस्मादनेन क्रियायोगेन योगीति ॥
तप इति कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम् । स्वाध्यायः—प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीनां पवित्राणां जपः । ईश्वरप्रणिधानं—क्रियाणां परमगुरावीश्वरे समर्पणम् । तासां वा फलसंन्यासः परमेश्वरे संन्यसनम् ॥
कथं पुनश्चित्तसमाधानं प्रति विप्रकृष्टस्य कायक्लेशादिरूपस्य तपसो योगत्वम् ? स्वाध्यायेश्वरप्रणिधानयोस्तु युक्तमन्तरङ्गत्वाद्योगत्वमिति, तदर्थमाह—नातपस्विनो योगः सिध्यतीति ॥
शरीरादिपोषणाभिरतचित्तस्य कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिनः सुकुमारतरंमन्यस्य न योगः सिध्यतीति तपस उपादानम् ॥
किञ्च—अनादिवासनाचित्रा—विषयग्रहणवासनाभिरनादिकालाभिरुपरचितविचित्रभावा । तथा प्रत्युपस्थितविषयजाला—वर्तमानकाला विषया एव जाले, तेन च वर्तमानविषयाख्येन जालेन आनायेन झषानिव चित्तं अशुद्धिः पाशयति या सा प्रत्युपस्थितविषयजाला सती यस्मात्
नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते ।
स्वाध्यायः प्रणवादिपवित्राणां जपः, मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं, तत्फलसंन्यासो वा ॥ १ ॥ स हि क्रियायोगः—