अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२
भविष्यद्व्यक्तिकमनागतं, भूतव्यक्तिकमतीतं, स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं
निर्विषयं ज्ञानमुदपत्स्यत । तस्मादतीतानागतं स्वरूपतोऽस्तीति । किंच
ननु चैषामभावे तदभाव इत्युक्तम् । तथा च सिद्धान्तहानिः । कथम् ? एवं हि सिद्धान्तः नास्त्यसतः सम्भवः उत्पत्तिः । न चास्ति सतो विनाश इति । अथ पुनः सन्ति वासनास्तदा, द्रव्यत्वेन (वस्तुसत्यः) [सम्भवन्त्यः] कथं निवर्तिष्यन्ते । नैव निवर्तिष्यन्त इत्यर्थः । तत्र कथमुक्तमेषामभावे तदभाव इति । कथं वा कैवल्यमनिवृत्तासु हेतुकृतजन्मसु वासनास्वित्यत उत्तरं पठति—अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥
एवं वैतत् । अथ वा सिद्धान्तपक्षेणैव नेयं भाष्यम् । कथम् ? एषामभावे तदभावः इति हेत्वादीनां वासनानां च नात्यन्ताभाव उच्यते । कस्मात् ? नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन वस्तुतया सम्भवन्त्यः कथं निवर्तिष्यन्ते वासनाः । शब्दविकल्पितत्वे वासना नात्यन्तं निवर्तिष्यन्ते । सन्त्येवातीतस्वरूपेणेत्यर्थः ॥
भविष्यद्व्यक्तिकं भविष्यति व्यक्तिः यस्य तत् भविष्यद्व्यक्तिकम् । यथा पिण्डावस्थायां घटरूपम् । प्रवृत्तेतिकर्तव्यतासाधनं तत् अनागतम् । भूतव्यक्तिकमतीतं भूता अतिक्रान्ता व्यक्तिरुपलब्धिर्विषयत्वापत्तिर्यस्य । यथा प्रभग्नो घटः तदतीतमित्युच्यते । अव्यङ्ग्यमभविष्यत् यस्य व्यञ्जने साधनमुपादेयम् । अनतीतव्यक्तिकमभूतम् । किं तर्हि? व्यापारोपारूढं तत् वर्तमानम् । यथा घटः स्वक्रियायाः ॥
भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुज्ञानं न युज्येत । सतश्च
त्रयं चैतत् अतीतानागतवर्तमानलक्षणकं वर्तमाने धर्मिणि वर्तमानं धर्मरूपं वस्तु समस्तलोकविनिश्चितरूपस्याव्यभिचारिणो ज्ञानस्य प्रमाणभूतस्य ज्ञेयम् इति सङ्गिरामहे । कस्मात्? निश्चितज्ञानोत्पत्तिविषयत्वात् ॥
यदि चैतद्वस्तु स्वरूपतो नाभविष्यत् नेदं निर्विषयं ज्ञानमुदपत्स्यत । यथा शशविषाणादि निश्चितज्ञानोत्पत्तिकारणं न भवति । न च तथेह निश्चितवस्तुज्ञानोत्पत्तिहेतुविषयत्वं न विद्यते । सकलजनानुभवविषयमिदं ज्ञानं वर्तते । घटो भविष्यति घटो भूत इति च । तस्माद्वस्त्वेव कालत्रयसम्बन्धि । परिनिश्चितज्ञानोत्पत्तिविषयत्वात् ॥
अथ वा नावस्तुविषयमतीते भविष्यति च घटादौ ज्ञानम् । शब्दविकल्पितत्वे सति निश्चितरूपेण उत्पद्यमानत्वात्, वर्तमानघटादिविषयज्ञानवत् । अव्यभिचाराच्च । लिङ्गानुमेयत्वाच्च, धूमेन अग्न्यादिज्ञानवत् । लिङ्गदर्शनानन्तरोत्पत्तेर्वा ।
यद्वा, अतीतमनागतं च वस्तु सत् स्वरूपेण, लिङ्गदर्शनानन्तरबुद्धिविषयत्वात्, प्रसिद्धानुमेयवत् । तस्मादतीतानागतं स्वरूपतोऽस्ति ॥
किं च—भोगभागीयस्य भोगहितस्य यागादेः, अपवर्गभागीयस्य वा अपवर्गहितस्य समाध्यादेः कर्मणः फलमुत्पित्सु यस्य नास्ति तस्य वादिनः तत् निरुपाख्यं प्राप्नोति शशविषाणवत् । न हि शशविषाणं भविष्यतीत्युपाख्यायते । न तथेह । किं तर्हि ? यागेन स्वर्गो भविष्यति समाध्यादिना मोक्षो भविष्यति इति च कुशलैः अतिकठोरमतिभिरुपाख्यायते ॥
तस्मात् निरुपाख्यत्वात् तदुद्देशेन फलोद्देशेन । निरुपाख्यत्वात् तेन फलेन निमित्तेन कुशलानुज्ञानम् इदं कुरु भविष्यति चानेनादः इति स्वयमप्रतिपद्यमानाः कुशलाः कथमनुजानीयुः उपदिशेयुर्वा । किं च, दृष्टमात्रप्रतिपत्तौ कुशलाकुशलाविशेषश्च प्राप्नोति । कुशलानां वा मिथ्याप्रतिपत्तिः "अकुशलाः समीचीनदर्शनाः" इति ॥
फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने । सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रह कुरुते नापूर्वमुत्पादयतीति ॥
धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतञ्च । किं तर्हि ? स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति । स्वेन चानुभूतव्यक्तिकेन
किं च, अभावज्ञानात् कुशला अपि फलाय नाभिसमीहेरन् । अभावाविशेषाञ्च कारणनियमो नाकल्पिष्यत । (न) सर्वतो वा सर्वमुदपत्स्यत । नापि कारणमुपादास्यत । उपादाने वा तैलार्थी सैकतमप्युपादास्यत किं तिलैरनेकायासनिष्पाद्यैः । अत्यन्तासदपूर्वं चेदमजनिष्यत । न चैतद् दृष्टम् ॥
तस्मात्तद्भोगभागीयमपवर्गभागीयं वा कर्म निमित्तं कारणं विद्यमानस्यैव तस्य फलस्य वर्तमानीकरणे समर्थं नापूर्वोपजने । सिद्धं हि स्वेनात्मना निमित्तं स्थाली क्षीरघर्मातञ्चनादि दध्यादिकस्य नैमित्तिकस्य कर्कशतरभावाद्यभिव्यक्तिद्वारेण विशेषानुग्रहं कुरुते—नापूर्वमेव दधि उत्पादयति तथेह भोगभागीयादिकर्म ॥
किं च, धर्मी चानेकधर्मस्वभावोऽनेकधर्मात्मा । यथा कनकपिण्डः शान्तोदिताव्यपदेश्यरुचककुण्डलादिधर्मात्मकः । तस्य धर्मिणः अध्वभेदेन अतीतादिलक्षणभेदेन धर्माः प्रत्यवस्थिताः ॥
यथा वर्तमानं वस्तु व्यक्तिविशेषापन्नं कुण्डलादिव्यक्तिप्राप्तं द्रव्यतः कार्यरूपतः अस्ति व्यापाराधिरूढतया, नैवमतीतमनागतं च । किं तर्हि? स्वेनैव व्यङ्ग्येन स्वरूपेण भविष्यता अनागतमस्ति । स्वेन चानुभूतव्यक्तिकेन अतिक्रान्तोपलब्धिकेन अतीतमस्ति ॥
[ भाष्यम् ]
स्वरूपेणातीतमिति । वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ [न] भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥
वर्तमानस्यैव त्वध्वनः स्वरूपतो व्यक्तिरिति न सा व्यक्तिः भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये काले द्वावध्वानौ धर्मिसमन्वागतौ विरोधात् न भवत एवेति । तथा चोक्तोऽध्वसंकरपरिहारः ॥ यस्य पुनरतीतमनागतं च लक्षणं स्वरूपेण नास्ति, तस्य धर्माणामध्वभेदो न प्राप्नोति । कथम् ? न हि तस्य घटो भविष्यन्नतीतो वा विद्यते । न हि कपालानि पिण्डो वा घटः । इत्येकस्य वर्तमानस्यैवाध्वनः समये त्रयाणामध्वनां धर्मत्वेन समागमः स्यात् । अतश्च वर्तमान एव घटोऽतीतोऽनागत इति चोच्येत पिण्डकपालयोरघटत्वात् मृदि च घटस्याभावाद्भविष्यति घटोऽतीतो घट इति च पिण्डकपाले निरुच्येयाताम् । तथा च विवक्षतो गौरप्यश्व इति स्यादश्वोऽपि गौरिति ॥
अथोच्येत, घटस्य प्रागभावप्रध्वंसाभावावतीतानागतत्वेनाभिधीयेते इति । ततोऽप्येष पापीयानभ्युपगमः । तत्र युक्तमपि गौरश्व इति वस्तुत्वादेतयोः । न त्विह वस्तुवाचिना शब्देन घटोऽतीतोऽनागत इति चाभावस्याभिधानं युज्यते स[त्य]त्ववादिनाम् ॥
नापि नियम उपपद्यते । घटेनैव व्यपदिश्यते, घटोऽतीतो घटो भविष्यतीति च । न पुनः कुलालादिभिरपदिश्यते कुलालादयोऽतीता भविष्यन्ति वेति ।
अथ घटस्यैव तत्रानुपलभ्यमानत्वादिति चेत्—न—हस्तिशार्दूलादीनामपि तत्रानुपलम्भे व्यपदेशप्रसङ्गात् । अथोपलब्धपूर्वस्यैव व्यपदेश इति चेत्—न—घटक्रियादिष्वपि प्रसङ्गात् ॥
अथ घटस्य तेन क्रियाद्यभाव इति चेत्—न—अभावस्य सम्बन्धविशेषानुपपत्तेः । न हि समवायलक्षणः प्राप्तिलक्षणो वा सम्बन्धो भावाभावयोरवकल्पते । येनासौ घटस्य अभावो न पुनः क्रियादीनाम् । अन्यतरसम्बन्धे च अभावस्य वस्तुत्वप्रसङ्गः ।
अथ वस्त्वेवेति चेत्, सिद्धस्तर्हि भविष्यन्नतीतश्च पदार्थः ॥