- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥
[ भाष्यम्]
तदानीं यदस्य चित्तं अज्ञानप्राग्भारं विषयनिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकनिम्नमिति ॥ २६ ॥
[ विवरणम् ]
तस्य विशेषदर्शिनः आत्मभावभावना कैवल्यभागीयकर्मनिमित्ता स्वाभाविकी जन्मान्तरकर्मनिमित्ता इहजन्मापरिग्रहस्थैर्यकारणा वा । सा ह्याचार्योपदेशानपेक्षा स्वाभाविकी प्रवर्तते । तस्य कर्मणस्तादृशस्य अभावात् इदमुक्तम्—स्वभावदोषात् अशुद्धकर्मयोगात् एषां पूर्वपक्षे सम्यग्दर्शनतदुपायविपर्यये रुचिर्भवति, अरुचिश्च निर्णये सम्यग्दर्शने ॥
तत्रात्मभावभावना का पुनरित्याह—कोऽहमासं, कथमहमासं, किंस्विदिदं, कथंस्विदिदं, के भविष्यामः, कथं भविष्यामः, इति । सा तु विशेषदर्शिनो निवर्तते । यद्विषया हि जिज्ञासा, तस्मिन्नधिगते तद्विषया जिज्ञासा विनिवर्तते । कुतः एतदेवम् ? यतः चित्तस्यैवैषः के भविष्याम इत्यादिः चित्रः परिणामः न पुरुषस्य । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । यस्मादेवमत एवं विशेषदर्शिनः तस्यात्मभावभावना कुशलस्य निवर्तते ॥ २५ ॥ यदा च विशेषदर्शनमुदपादि, तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् । यदस्य चित्तं विषयनिम्नं विषयप्रवणम् अज्ञानप्राग्भारम् अज्ञाननिष्ठं संसाराभिमुखम् आसीत्, तदस्य विशेषदर्शिनः तदानीमन्यथा भवति, कैवल्यप्राग्भारं विवेकनिम्नम् इति प्रतिस्रोतोवृत्तिर्ज्ञायते ॥ २६ ॥ ३६२ पातञ्जलयोगसूत्रभाष्यविवरणे