सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥
बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच्च सत्त्वात् परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चिन्मात्ररूपः पुरुषः ।
हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे शरीरे दहरम् अल्पं पुण्डरीकं पुण्डरीकाकारो मांसपिण्डोऽधोमुखः, वेश्मवदनेकनाडीसुषिरयोगात् वेश्म । तत्र विज्ञानं चित्तं, तस्मिन् उरस्सरोविलग्ननाले प्राणवेश्मनि पुण्डरीके संयमाच्चित्ते सत्त्वे संवित् भवति ॥ ३४ ॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् । सत्त्वं चित्तं, पुरुषो भोक्ता, तयोः अत्यन्तासङ्कीर्णयोः अत्यन्तविलक्षणयोरतीव पृथग्भूतयोः वृत्तिसारूप्यं प्रत्ययाविशेषः, स भोगः पुरुषस्य । परार्थात् सत्त्वात् पुरुषप्रत्ययेन सङ्कीर्णाभासात् विविच्य स्वार्थे चितिमात्रस्वरूपे संयमात् पुरुषज्ञानं भवति ॥
कीदृशं तत् परार्थं चित्तसत्त्वम् ? यतो विविच्य स्वार्थे पुरुषे संयमः
क्रियत इति । बुद्धिसत्त्वं प्रख्याशीलं समानं सत्त्वं वस्तुकार्यं पुरुषार्थकर्तव्यतया समवस्थानम् उपनिबन्धनं ययोस्ते समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य न्यग्भावमापाद्य सत्त्वपुरुषान्यताप्रत्ययेन योगिनः परिणतम् ॥
तस्माच्च सत्त्वात् परिणामिनः त्रिगुणादनित्यादशुद्धात् परार्थादचेतनात् अत्यन्तविधर्मा विशुद्धोऽन्यः अपरिणामी स्वार्थो नित्यः चिन्मात्ररूपः पुरुषः ॥
तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः, पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः ॥
यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, तत्र संयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वालम्बनं पश्यति । तथा ह्युक्तम्—“विज्ञातारमरे केन विजानीयात् ” [बृह २ । ४ । १४] इति ॥ ३५ ॥
तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः । नापरिणामित्वे सति दर्शितविषयत्वादन्यो भोगः सम्भवति । सत्त्वस्य परार्थत्वात् अविशिष्टो भोगप्रत्ययो दृश्यः पुरुषेण ॥
यस्तु तस्मात् गौणप्रत्ययात् प्रत्ययिनश्च विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, स्वार्थः पुरुष एव परिणामानुपपत्तेः प्रत्ययः । तत्र संयमात् पुरुषविषया प्रज्ञा जायते ॥
ननु च यदि पुरुषः प्रत्ययस्य विषयीक्रियते, तेन चेत् पुरुषो गृह्यते, परार्थः पुरुषः प्राप्नोति । नैष दोषः । न च पुरुषप्रत्ययेन पुरुषविषयेण प्रत्ययेन बुद्धिसत्त्वात्मना बुद्धिसत्त्वधर्मेण पुरुषो दृश्यते बुद्धेरचेतनत्वात् ॥
पुरुष एव तं प्रत्ययं स्वालम्बनं पुरुषाभासं पश्यति पुरुषाभासत्वमेव प्रत्ययस्य पुरुषालम्बनत्वम् । न प्रत्ययस्य पुरुषालम्बनत्वम् । यथा मुखसन्निधौ दर्पणो मुखाकारेण परिणमते, तथा चित्तं पुरुषाकारेण परिणतं पुरुषाभासं पुरुषेण गृह्यते ॥
तथा चोक्तम्—“विज्ञातारमरे केन विजानीयात्” इति । न कस्यचित् पुरुषः कर्मतां प्रतिपद्यत इत्यर्थः ॥
ननु चक्षुरादर्शतलप्रतिहतं प्रतिनिवृत्य यथा मुखस्य ग्राहकं, एवं पुरुषोऽपि चित्तसत्त्वप्रतिहतः प्रतिनिवृत्य स्वात्मानं गृह्णीयात्—न—परिणामानुपपत्तेः पुरुषस्य । न ह्यपरिणामिनश्चित्तं प्रति प्रवृत्तिः प्रतिनिवृत्तिर्वा साधिमानमुपाश्नुवीत ॥
न चापि चक्षुः प्रतिनिवृत्य मुखं ग्राहयति । मुखस्य दर्पणमण्डलाधिकरणत्वेन अनुभूयमानत्वात् । न हि स्वमुखं दर्पणाधिकरणस्थम् । किं च,