तदसङ्ख्येयवासनाचित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥
तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वाद्गृहवत् । संहत्यकारिणा चितेन न स्वार्थेन भवितव्यम् । न हि सुखचितं सुखार्थं, न ज्ञानचितं ज्ञानार्थं, उभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः, स एव परो न परसामान्यमात्रम् ।
कुतश्च अस्ति पुरुषश्चित्तव्यतिरिक्तः ? पूर्वं चित्तस्य दृश्यत्वेन व्यतिरिक्तपुरुषसिद्धिरापादिता । तस्यैव तु चित्तस्य संहत्यकारित्वेनाधुना स्वामिसिद्ध्यर्थमाह—तदसङ्ख्येयवासनाचित्रमपि परार्थं संहत्यकारित्वात् ॥
यद्यपि तदेव चित्तमसंख्येयाभिर्वासनाभिः अनादिसमयाभिः चित्रीकृतं भ्रान्तकारणमुक्तं, तथापि परार्थं परस्य भोगार्थमेवेति प्रतिज्ञायते । संहत्यकारित्वात् कार्यकरणविषयादिव्यापारापेक्षमर्थसाधकत्वात् संहत्यकारित्वम्, अतः संहत्यकारित्वात् गृहादिवत् इति पारार्थ्यं चित्तस्य । न हि किंचन लोके संहत्यकारि दृष्टं स्वार्थम् ॥
तस्मात् संहत्यकारिणा चितेन न स्वार्थेन भवितव्यम् । न हि सुखचितं, सुखार्थं सुखचितार्थं वा । नापि ज्ञानचितं ज्ञानार्थं वा ज्ञानचितार्थं वा । किं तर्हि ? सुखचितं ज्ञानचितमपि एतदुभयं परार्थम् ॥
यश्च भोगेन सुखचितेन ज्ञानचितेन च अपवर्गेणार्थेनार्थवान् पुरुषः स एव परः । न परसामान्यमात्रं शरीरमिन्द्रियाणि विषया वा । नहि वैनाशिकः सुखचितं शरीरेन्द्रियविषयार्थमिच्छति । तथा चेच्छन्नभ्युपगतं विरुन्धीत । विज्ञानस्यैव हि सुखापवर्गाभ्यामर्थित्वमभिमन्यते । तस्मात् य एव शरीरेन्द्रियविषयव्यतिरिक्तः पुरुषो भोगापवर्गाभ्यामर्थवानन्यो विज्ञानादभ्युपगमनीयः ॥
यदि यत्किंचित् परसामान्यमात्रम् उदाहरेद्वैनाशिकः, यदि तु वैनाशिकः संहत्यकारिणां गृहादीनां देवदत्तादिसंहतपरार्थत्वमिति व्यामोहादभिमन्यमानः कंचन विशिष्टं न परमिच्छेत्, एवं चेन्मन्वीत, स इदं वक्तव्यः—यः परः शरीरेन्द्रियविषयप्रत्ययानां सामान्यम्, उत सर्वे एवेति, किमेषामन्यतमः, किं वा कश्चिदेवैतेभ्यो भिन्नजातीय इति ॥
न तावत् सामान्यम् । न हि भोगापवर्गार्थेनार्थि सामान्यवस्तु वैनाशिकोऽभ्युपैति, स्वसमयविरोधात् । नापि शरीरादीनि समस्तानि भोगापवर्गाभ्यामर्थीनीति वाञ्छति । विज्ञानसन्ततेरेव भोगापवर्गार्थित्वाभिमानात् ॥
न चापि ज्ञानसन्ततिरित्येकं वस्तु(सन्ततेः क्षणिकत्वम् ।) न चापि सन्तानस्यावस्तुतया शशविषाणकल्पस्य भोगापवर्गाभ्यामर्थित्वम् । नापि शरीरेन्द्रियादीनामन्यतमत्वमिच्छति । विज्ञानव्यतिरिक्तानाम् आत्मीयसमये भोगापवर्गार्थित्वानभ्युपगमात् ॥
नापि शरीरेन्द्रियाणां सङ्घातो नाम वस्तुतो भवतो विद्यते, येन चित्तं संहतपरार्थं प्रार्थयेथाः । अवस्तुनो हि कथमर्थित्वम् । नापि शरीरेन्द्रियादिभ्योऽन्यं संहतभिन्नजातीयं प्रतिजानीषे । यदि भिन्नजातीयं भोगापवर्गाभ्यामर्थवन्तमदृष्टं परिकल्पयेथाः, स एवास्माभिरुक्तः पर इति । तस्य च संहृतत्वे परत्वं दृष्टानात्मवन्नोपकल्पते । परिशेषात्तु असंहतो भोगापवर्गाभ्यामर्थी पर इति ॥
यतु किंचित्परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः स सर्वः संहत्यकारित्वात् परार्थं एव स्यात्, यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥