विभूतिपादः · ३.१९

 प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥

 
व्यासभाष्यम्

 प्रत्यये संयमात् प्रत्ययस्य साक्षात्करणम् । ततः परचित्तज्ञानम् ॥ १९ ॥

विवरणम्

 भगवानावट्य उवाच—यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं [ किमिदमपि दुःखपक्षे निक्षिप्तमिति । भगवान् जैगीषव्य उवाच—विषयसुखापेक्षयैवेमनुत्तमं सन्तोषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः ।] त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । किमपेक्षया पुनरेतत् द्वयं सुखं भवतीत्याह—दुःखरूपस्तृष्णातन्तुः । तृष्णासन्तानदुःखोपशमरूपं तु प्रसन्नमनाबाधं सर्वानुकूलं सुखमिदमुक्तं सन्तोषसुखं प्रधानजयसुखं च ॥ १८ ॥

 प्रत्ययस्य परचित्तज्ञानम् । परप्रत्यये संयमात् परप्रत्ययस्य साक्षात्करणम् । तत्साक्षात्करणे तत्संबन्धिनः परचित्तस्य ज्ञानं भवति ॥ १९ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →