विभूतिपादः · ३.५३

जातिलक्षणदेशैरन्यताऽनवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥

व्यासभाष्यम्

 तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातित्वे लक्षणमन्यत्वावच्छेदकरं, कालाक्षी गौः स्वस्तिमती गौरिति ॥ द्वयोरामलकयोर्जातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः, इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्तते, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं, ततः प्रतिपत्तिर्विवेकजज्ञानादिति ॥

विवरणम्

 तस्य विवेकजस्य ज्ञानस्य कीदृशं ज्ञेयमिति तस्य विषयविशेषः उपक्षिप्यते—जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः । [तुल्ययोर्देशलक्षणसारूप्ये] जातिभेदः पदार्थानाम् अन्यतायाः अन्यत्वावच्छेदस्य हेतुः । यथा—गौरियं वडवेयमिति ॥  यत्र जातिभेदो नास्त्येकैव जातिः, तत्र तुल्यजातित्वे लक्षणं लिङ्गम् अन्यत्वावच्छेदकरम्—कालाक्षी गौः, स्वस्तिमती गौरिति ॥

 यत्र न जातिभेदो नापि लक्षणभेदस्तत्र देशभेदोऽन्यत्वावच्छेदहेतुः । यथा—द्वयोरामलकयोर्जातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः इदं पूर्वम् आमलकम् इदमुत्तरमिति ॥

 यदा तु पूर्वमामलकम् अन्यव्यग्रस्य समाकुलितचित्तस्य ज्ञातुरुत्तरदेश उपावर्तते पूर्वदेशे चोत्तरं, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति तुल्ययोः प्रविभागानुपपत्तिः । असन्दिग्धेन तत्त्वज्ञानेन भवितव्यं, ज्ञेयस्य विद्यमानत्वादेकरूपस्य इत्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकज्ञानादिति । क्षणतत्क्रमसंयमापादितविवेकजन्मनो ज्ञानात् प्रतिपत्तिरिति ॥

व्यासभाष्यम्

  कथं ? पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद्देशात् भिन्नः । ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने ।

 अन्यदेशक्षणानुभवस्तयोरन्यत्वे हेतुरिति । एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरपरमाणोस्तद्देशापवृतावुत्तरस्य तद्देशानुभवभिन्नः क्षणः । क्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति ॥

 अपरे तु वर्णयन्ति—येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति । तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः । क्षणभेदस्तु

विवरणम्

 तत् कथम्? पूर्वामलकसह(ल)क्षणो देशः पूर्वामलकसहचरो देशः उत्तरामलकसह(ल)क्षणात् उत्तरामलकसहचरात् देशात् भिन्नः । ते चामलके पूर्वोत्तर(ल)क्षणसहचरिते स्वदेश(ल)क्षणानुभवभिन्ने स्वदेशचिह्नभूते यः क्षणः तदनुभवभिन्ने स्वदेश(ल)क्षणानुभवचिह्निते अन्यदेश(ल)क्षणानुभवस्तयोरन्यत्वे हेतुरिति ॥

 अनेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणभेद(देश)स्य पूर्वपरमाणुदेशसह(ल)क्षणसाक्षात्करणात् पूर्वपरमाणुदेशेन सहभूतस्य (ल)क्षणस्य साक्षात्करणात् उत्तरपरमाणोस्तद्देशापवृतौ पूर्वदेशगतावपि उत्तरस्य तद्देशानुभवभिन्नः क्षणः । क्षणभेदात्तयोरीश्वरस्य योगिनोऽन्य(था)त्वप्रत्ययः भेदावच्छेदो भवति ॥

 अत्रापरे वर्णयन्ति—ये अन्त्या विशेषाः परमाणुगता नित्याः, ते एव अन्यताप्रत्ययं कुर्वन्तीति किं तत्क्षणतत्क्रमसंयमेन । यथा घटादिगता विशेषा अन्यताप्रत्ययं कुर्वन्ति, तथा परमाणुगता ये विशेषाः त एव तद्भावप्रत्ययं स्वसद्भावप्रत्ययं च कुर्वीरन् । आश्रयभेदप्रत्ययमपि कुर्वन्ति ॥

 अत्रोच्यते—देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः उक्त एव स्थूलेषु (न तु) ननु परमाणुषु प्रतिक्षणपरिणामित्वात् । अवस्थितेषु हि विशेषेष्वन्त्येषु स्यादन्यथाऽवधारणम् । न चानवरतपरिणामेषु घटते ॥

व्यासभाष्यम्

योगिबुद्धिगम्य एवेति । अत उक्तं—मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →