विभूतिपादः · ३.४७

 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥

व्यासभाष्यम्

  सामान्यविशेषात्मा शब्दादिर्विषयः । तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । न च तत्सामान्यमात्रे ग्रहणाकारः । कथमनालोचितः स्वविषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति ।

विवरणम्

वहति । अनावरणात्मकेऽपि प्रकटरूपेऽपि भवत्यावृतः प्रकटो न भवति । सिद्धानामप्यदृश्यो भवति ॥ ४५ ॥

 रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् । रूपवान् दर्शनीयः । लावण्यवान् कान्तिमानतिशयबलो वज्रसंहननश्च भवति ॥ ४६ ॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः । सर्वमेतद्भूतसूत्रेण तुल्यव्याख्यानम् । अस्मितामात्रं तु विशेषो भूतानामिव तन्मात्राणि । सामान्यविशेषात्मा शब्दादिर्विषयः । तेष्विन्द्रियाणां या वृत्तिः विषयविशेषावलोकनात्मिका तत् ग्रहणम् । न च तत्सामान्यमात्रे शब्दादिसामान्याभासनमात्रे मनसि ग्रहणाकारः उपपद्यते । कथम् ? अनालोचितः स्वविषयविशेष इन्द्रियेण अनिगृहीतो निजो विषयविशेषो मनसा कथं नु नाम अनुव्यवसीयेत । न कथंचिदनुव्यवसीयेत तैमिरिकातैमिरिकयोरनुव्यवसायाननुव्यवसायाभ्याम् । तस्मान्नेन्द्रियेणानालोचिते विषये मनसा अनुव्यवसायः । तत्रास्यां विशेषात्मिकायां वृत्तौ प्रथमं संयमः कर्तव्यः ॥

व्यासभाष्यम्

  स्वरूपं पुनः प्रकाशात्मनोः सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतं द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहंकाराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमः, तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥

विवरणम्

 अथ स्वरूपं पुनः इन्द्रियाणां द्वितीयं रूपम् । प्रकाशात्मनोः सामान्यविशेषयोः विषयविशेषालोचनमिन्द्रियाणां विशेषः । यथा प्रदीपस्य घटादिविशेषाकारालोको विशेषः । प्रकाशमात्रं सामान्यम् । अतः सामान्यविशेषात्मकम् अयुतसिद्धावयवभेदानुगतं द्रव्यमिन्द्रियं प्रदीपवत् । यथा सामान्यमूर्तिधर्मः स्थूलादिष्वनुप्रवर्तते, तथेन्द्रियं प्रकाशात्मकं द्रव्यविशेषात्मिकायां ग्रहणवृत्तावनुप्रवर्तते । तदेतस्मिन् द्वितीये इन्द्रियाणां स्वरूपे संयमः क्रियेत ॥

  तेषां इन्द्रियाणां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य अहङ्कारस्य सामान्यस्येन्द्रियाणि अयुतसिद्धावयवभेदानुगतानि ग्रहणरूपान्वयीनि विशेषाः । तत्र अस्मितायां संयमः करणीयः ॥

 चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः । येषामिन्द्रियाणि साहङ्काराणि परिणामः । तत्र गुणानुगमे संयमः कर्तव्यः ॥

 पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वम् । अतः सर्वेषामर्थवत्त्वमनुगमश्च पूर्ववत् ॥

 एवं एषु पञ्चस्विन्द्रियरूपेषु यथाक्रमं क्रमानतिक्रमेण संयमः । तत्र प्रत्येकं पञ्चसु जयं कृत्वा पञ्चस्वरूपजयं लभते । तस्मात् पञ्चस्वरूपजयादिन्द्रिय(आदि)जयो वक्ष्यमाणफलाय प्रादुर्भवति योगिनः । यतु ‘ततः परमा वश्यतेन्द्रियाणाम्’ इति, तद्विषयग्रहणवृत्तेर्वशित्वमात्रं विषयाप्रतिपत्तिरूपम् ॥ ४७ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →