न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥
एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा तच्चित्ते व्यग्रे निरुद्धे वाऽस्वरूप-
तस्मात् न हि वस्तुनः स्वरूपं विज्ञानसहभावि, तदेवेदमिति प्रत्यभिज्ञानात् । नाचिरजन्मप्रलयं तदेवेदमिति प्रत्यभिज्ञायेत, यथा विज्ञानम् । न हि तदेवादौ मे विज्ञानमिति भवति । वस्तु पुनस्तदेवेदमिति प्रत्यभिज्ञायते । अर्थज्ञानयोरेकसमयभवित्वेऽप्येक[परिशेषः]विशेषः स्यात् ।
नापि सादृश्यात् प्रत्यभिज्ञानम् । ग्राह्यग्राहकयोर्युगपदुत्पत्तिविनाशवत्वात् । व्यवस्थिते हि वस्त्वन्तरदृश्ये अन्यतत्सदृशवस्तुदर्शनेन सादृश्यप्रत्ययः । एवं तत्सदृशं वा द्रक्ष्यामीत्युत्तराभिलाषः । न हि तदहर्निश्चितमरणस्यापरेद्युरर्थदर्शनाकाङ्क्षा जायते । नापि मत्सदृश ईक्षिष्यत इत्यभिलषति । न चैवं दृष्टम् । सर्वो हि स्वार्थमीहते । भिन्नसन्ततिष्वदर्शनात् ॥
तस्मादिदानीतनोऽर्थः नेदानीन्तनज्ञानसहभूरेवेति, ग्राह्यत्वात्, अतीतार्थवत् । अतीतो वा नातीतज्ञानसहनाशजन्मा, ग्राह्यत्वात्, इदानीन्तनार्थवत् । भूतभविष्यज्ज्ञानग्राह्या अर्था अधुनाऽपि सन्ति, ग्राह्यत्वात्, अधुनातनप्रत्ययग्राह्यवत् । इदानीन्तनमपि वस्तु पूर्वोत्तरक्षणेषु तथैव ॥
अथ सुखदुःखज्ञानादिभिरनैकान्तिकमिति चेत्—न—अतीतानागतं स्वरूपतोऽस्तीति साधितत्वात् । एवं च सति सुखादीनां च स्वरूपेण सद्भावात् सुखादिवदिति साध्यसमानो दृष्टान्तः ।
अथ वर्तमानरूपविशेषेणातीतानागतलक्षणयोरर्थस्य सुखादिवदभाव इति चेत्, सिद्धसाध्यता । न हि कुमारभाव एव वृद्धत्वं विद्यते ॥ १५ ॥
इतश्च चित्ततन्त्रता वस्तुनो नावकल्पते । एकचित्ततन्त्रं वा वस्तु भवेदनेकचित्ततन्त्रं वा ? एकचित्ततन्त्रत्वे ब्रूमः—न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ? न तावदेकचित्ततन्त्रं, एकचित्ततन्त्रं चेद्वस्तु स्यात् यदिचेदमुच्यते, तच्चित्ते यच्चित्ततन्त्रं वस्तु तस्मिंश्चित्ते व्यग्रे परासक्ते
मेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात् । संबध्यमानं वा पुनश्चित्तेन कुत उत्पद्येत । ये चास्यानुपस्थिता भागास्ते चास्य न स्युः । एवं नास्ति पृष्ठमित्युदरमपि न स्यादेव ।
निरुद्धे वा विनष्टे वा तेन प्रमाणचित्तेन अपरामृष्टं च अन्यस्य चाविषयीभूतं एकचित्ततन्त्रतयैव, तदा तत् वस्तु अप्रमाणकमगृहीतस्वभावं प्रमाणचित्तनिरोधादेव तदानीं किं तत् स्यात् । न हि किंचिदपि स्यात् । चित्तप्रमाणकं तत्, तदभावे न तेन भवितव्यम् ॥
ननु च यथा तत्प्रमाणचित्तं निरुध्यते, तथैव तदपि क्षणिकत्वान्निरुद्धमेव । किं तत्राभिधानीयं स्यात् । उच्यते—न—व्यवहारविलोपान्नियमानुपपत्तेश्च । अग्निरयं मास्प्राक्षीः, इमं गृहाण, अदः प्रदेहीति व्यवहारो विलुप्येत । एकचित्तसहक्षयत्वाद्वस्तुनः ॥
तत्सन्ततिजमत्यन्तसदृशं व्यवहारप्रतिपत्तये भवेदिति चेत्—अत्रापि तत्सन्तानादेव तत्समानेनान्येनानुभवनीयं परप्रमाणस्य च तद्विषयभूतमिति को नियच्छेत् । न हि नियमहेतुरस्ति ॥
अपि च एकचित्ततन्त्रत्वाद्व्यवहारवेलायामन्यत(न)रेदंप्रत्ययविषयालम्बनो नान्यत(न)रप्रत्ययो युज्यते । न हि खल्वपि बहुचित्ततन्त्रं वस्तु । ततश्च गृहाणेदं प्रयच्छाद इति कथं व्यवहरेमहि ॥
नाप्येवंदर्शनशालिनः शिष्याचार्योपदेशप्रदानादिभिरन्योन्यं व्यवहरेरन् । तस्मान्न चैकचित्ततन्त्रं वस्तु । प्रमाणचित्तविनाशे तद्व्यग्रभावे वा अनवधृतस्वभावत्वाद्वस्तुनः ॥
संबध्यमानं वा वस्तु पुनश्चित्तेन कुत उत्पद्येत । न कुतश्चिदुत्पत्तिरुपपद्यते तत्सन्तानादिति हि प्रत्यवोचाम ॥
किञ्च, अस्य वस्तुनः अनुपस्थिताः एकस्य प्रत्ययस्याविषयीभूता[ये] भागास्ते चास्य न स्युः । एको हि वस्तुभागो विषयीभूतश्चित्ततन्त्रो नान्यः इति । नास्ति पृष्ठमिति उदरमपि अभिमुखीभूतं न स्यादेव ॥
[ भाष्यम् ]
तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संबन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥