साधनपादः · २.५१

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥

व्यासभाष्यम्

 देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथा आभ्यन्तरविषयपरिदृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्मः । तत्पूर्वको भूमिजयात् क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥

विवरणम्

 तथा तृतीयः, एतावद्भिः श्वासप्रश्वासैः परिदृष्टः तृतीय उद्घातः । स एव च त्रिरुद्धातः तीव्र इति ॥

 स खल्वयमेवं देशकालसङ्ख्यापरिदृष्टोऽभ्यस्तो दीर्घकालव्यापी भवति भूमिजयात् । तथा चर्षीणामनेकवर्षव्यापी श्रूयते । ततश्च दीर्घः ॥  तथा वायूनां दीर्घत्वमन्दत्वापत्तेः सूक्ष्मं च भवति ॥ ५० ॥

 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः—बाह्यस्य विषयाः पादाङ्गुष्ठादयः । बाह्यो हि वायुराचम्यमानोऽन्तर्देशान् व्याप्नोति, आक्षिपति । आभ्यन्तरस्य विषया भूम्यादयः । स च बहिर्निःशार्यमाणो भूम्यादीन् देशकालसङ्ख्यापरिदृष्टान् व्याप्नोति, आक्षिपति । स बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः प्राणायामः ॥

 देशकालसङ्ख्याभिर्बाह्यवस्तुविषयः परिदृष्ट आक्षिप्तो व्याप्तः । तथा आभ्यन्तरविषयः परिदृष्टो देशकालसङ्ख्याभिः आक्षिप्तो व्याप्तः । उभयथा दीर्घसूक्ष्मः । बाह्याभ्यन्तरविषयाक्षेपेणोभयथा दीर्घसूक्ष्मत्वापन्नः ॥

किमुक्तं भवतीत्याह—तत्पूर्वकः उभयविषयाक्षेपपूर्वकः । भूमिजयात् उभयवृत्तिवायुभूमिजयक्रमेणोभयोः प्राणापानवृत्त्योर्बाह्याभ्यन्तरयोः गत्यभावश्चतुर्थः ॥

 तृतीयचतुर्थयोरुभयवृत्तिसामान्यादविशेषत्वमाशङ्क्याह—तृतीयस्तद्विषयानालोचितः सकृदारब्ध एव गत्यभावो देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोः आतमितोः विषयावधारणात् क्रमेण वा यद्वृत्तिभूमिजयक्रमेणोभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेषः तृतीयचतुर्थयोः ॥ ५१ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →