स्थान्युप(नि)मन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तज्योतिः प्रथमः । ऋतंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यतासाधनवान् ।
तदेषां गुणानां मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे प्रलये पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुषः । तत्र तद्वैराग्यादपि इत्यपिशब्दादप्राप्तयोगैश्वर्यस्यापि सम्यग्दर्शनात् कैवल्यमिति ॥ ५० ॥
स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । स्थानं स्वर्गादिकं येषान्ते स्थानिनो देवा इन्द्रादयः । तैः उपमन्त्रणं भो भो इहोष्यताम् इत्यादि । तस्मिन् सत्यात्मनो हीनत्वं स्मरतः प्राप्नुतः सङ्गस्मयौ (अर्थादिति) तौ च न कर्तव्यो । सङ्गस्मयकरणेऽनिष्टं प्रसज्येत ॥
चत्वारः खल्वमी योगिनः—प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिः अतिक्रान्तभावनीयश्च । तान् क्रमेण व्याचष्टे—तत्राभ्यासी अभ्यसनशीलः प्रवृत्तज्योतिः ज्योतिष्मत्यादीनामन्यतमा प्रवृत्तिः प्रवृत्ता यस्य स प्रवृत्तज्योतिः प्रथमः ॥
ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । स तु सर्वेषु भावितेषु भावनीयेषु साक्षात्कृतेषु जितेषु च कृतरक्षाबन्धः, उपात्तस्य हि रक्षा विधानीया, भावनीयेषु साक्षात्करणीयेषु कर्तव्यतासाधनवांश्च । कर्तव्यतायाः साधनानि कर्तव्यतासाधनानि अभ्यासवैराग्यादीनि यस्य सः कर्तव्यतासाधनवान् ॥
चतुर्थो यस्त्वतिक्रान्तभावनीयः तस्य चित्तप्रतिसर्ग एव एकोऽर्थः । सप्तविधा तस्य प्रान्तभूमिप्रज्ञा ॥
तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वाविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते ‘भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियम्’ इति । एवमभिधीयमानः सङ्गदोषान् भावयेद्धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादितः क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् ॥
सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थितमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति । ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढीभविष्यति । भावनीयश्चार्थोऽभिमुखीभविष्यतीति ॥ ५१ ॥